Sunday Meditation· Open to Everyone

अध्याय 5, खण्ड 1

संस्कृत

Passage 74.10

श्रोत्रँ होच्चक्राम तत्संवत्सरं प्रोष्य पर्येत्योवाच कथमशकतर्ते मज्जीवितुमिति यथा बधिरा अशृण्वन्तः प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा ध्यायन्तो मनसैवमिति प्रविवेश ह श्रोत्रम् ॥ १० ॥

पदच्छेद

श्रोत्रम्śrotramहhaउच्चक्रामuccakrāmaतत्tatसंवत्सरम्saṃvatsaramप्रोष्यproṣyaपर्येत्यparyetyaउवाचuvācaकथम्kathamअशकतaśakataऋतेṛteमत्matजीवितुम्jīvitumइतिitiयथाyathāबधिराःbadhirāḥअशृण्वन्तःaśṛṇvantaḥप्राणन्तःprāṇantaḥप्राणेनprāṇenaवदन्तःvadantaḥवाचाvācāपश्यन्तःpaśyantaḥचक्षुषाcakṣuṣāध्यायन्तःdhyāyantaḥमनसाmanasāएवम्evamइतिitiप्रविवेशpraviveśaहhaश्रोत्रम्śrotram

अन्वय

श्रोत्रम् ह उच्चक्राम । तत् संवत्सरम् प्रोष्य पर्येत्य उवाच—मत् ऋते जीवितुम् कथम् अशकत इति । [इतरे प्राणाः आहुः—] यथा बधिराः अशृण्वन्तः, प्राणन्तः प्राणेन, वदन्तः वाचा, पश्यन्तः चक्षुषा, ध्यायन्तः मनसा [जीवन्ति], एवम् [वयम् अजीविष्म] इति । श्रोत्रम् ह प्रविवेश ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 5, खण्ड 1

Read the whole section →