Sunday Meditation· Open to Everyone

अध्याय 7, खण्ड 6

संस्कृत

Passage 119.1

ध्यानं वाव चित्ताद्भूयो ध्यायतीव पृथिवी ध्यायतीवान्तरिक्षं ध्यायतीव द्यौर्ध्यायन्तीवापो ध्यायन्तीव पर्वता देवमनुष्यास्तस्माद्य इह मनुष्याणां महत्तां प्राप्नुवन्ति ध्यानापादाँशा इवैव ते भवन्त्यथ येऽल्पाः कलहिनः पिशुना उपवादिनस्तेऽथ ये प्रभवो ध्यानापादाँशा इवैव ते भवन्ति ध्यानमुपास्स्वेति ॥ १ ॥

पदच्छेद

ध्यानम्dhyānamवावvāvaचित्तात्cittātभूयःbhūyaḥध्यायतिdhyāyatiइवivaपृथिवीpṛthivīध्यायतिdhyāyatiइवivaअन्तरिक्षम्antarikṣamध्यायतिdhyāyatiइवivaद्यौःdyauḥध्यायन्तिdhyāyantiइवivaआपःāpaḥध्यायन्तिdhyāyantiइवivaपर्वताःparvatāḥदेवमनुष्याःdevamanuṣyāḥतस्मात्tasmātयेyeइहihaमनुष्याणाम्manuṣyāṇāmमहत्ताम्mahattāmप्राप्नुवन्तिprāpnuvantiध्यानापादांशाःdhyānāpādāṃśāḥइवivaएवevaतेteभवन्तिbhavantiअथathaयेyeअल्पाःalpāḥकलहिनःkalahinaḥपिशुनाःpiśunāḥउपवादिनःupavādinaḥतेteअथathaयेyeप्रभवःprabhavaḥध्यानापादांशाःdhyānāpādāṃśāḥइवivaएवevaतेteभवन्तिbhavantiध्यानम्dhyānamउपास्स्वupāssvaइतिiti

अन्वय

ध्यानम् वाव चित्तात् भूयः [अस्ति] । पृथिवी ध्यायति इव; अन्तरिक्षम् ध्यायति इव; द्यौः ध्यायति इव; आपः ध्यायन्ति इव; पर्वताः ध्यायन्ति इव; देवमनुष्याः [ध्यायन्ति इव] । तस्मात् ये इह मनुष्याणाम् महत्ताम् प्राप्नुवन्ति, ते ध्यानापादांशाः इव एव भवन्ति । अथ ये अल्पाः, ते कलहिनः पिशुनाः उपवादिनः [सन्ति] । अथ ये प्रभवः, ते ध्यानापादांशाः इव एव भवन्ति । ध्यानम् उपास्स्व इति [उवाच] ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 7, खण्ड 6

Read the whole section →