Sunday Meditation· Open to Everyone

अध्याय 7, खण्ड 26

संस्कृत

Passage 139.1

तस्य ह वा एतस्यैवं पश्यत एवं मन्वानस्यैवं विजानत आत्मतः प्राण आत्मत आशात्मतः स्मर आत्मत आकाश आत्मतस्तेज आत्मत आप आत्मत आविर्भावतिरोभावावात्मतोऽन्नमात्मतो बलमात्मतो विज्ञानमात्मतो ध्यानमात्मतश्चित्तमात्मतः सङ्कल्प आत्मतो मन आत्मतो वागात्मतो नामात्मतो मन्त्रा आत्मतः कर्माण्यात्मत एवेदँसर्वमिति ॥ १ ॥

पदच्छेद

तस्यtasyaहhaवैvaiएतस्यetasyaएवम्evamपश्यतःpaśyataḥएवम्evamमन्वानस्यmanvānasyaएवम्evamविजानतःvijānataḥआत्मतःātmataḥप्राणःprāṇaḥआत्मतःātmataḥआशाāśāआत्मतःātmataḥस्मरःsmaraḥआत्मतःātmataḥआकाशःākāśaḥआत्मतःātmataḥतेजःtejaḥआत्मतःātmataḥआपःāpaḥआत्मतःātmataḥआविर्भावतिरोभावौāvirbhāvatirobhāvauआत्मतःātmataḥअन्नम्annamआत्मतःātmataḥबलम्balamआत्मतःātmataḥविज्ञानम्vijñānamआत्मतःātmataḥध्यानम्dhyānamआत्मतःātmataḥचित्तम्cittamआत्मतःātmataḥसङ्कल्पःsaṅkalpaḥआत्मतःātmataḥमनःmanaḥआत्मतःātmataḥवाक्vākआत्मतःātmataḥनामnāmaआत्मतःātmataḥमन्त्राःmantrāḥआत्मतःātmataḥकर्माणिkarmāṇiआत्मतःātmataḥएवevaइदम्idamसर्वम्sarvamइतिiti

अन्वय

तस्य ह वै एतस्य एवम् पश्यतः एवम् मन्वानस्य एवम् विजानतः आत्मतः प्राणः [भवति], आत्मतः आशा [भवति], आत्मतः स्मरः [भवति], आत्मतः आकाशः [भवति], आत्मतः तेजः [भवति], आत्मतः आपः [भवन्ति], आत्मतः आविर्भावतिरोभावौ [भवतः], आत्मतः अन्नम् [भवति], आत्मतः बलम् [भवति], आत्मतः विज्ञानम् [भवति], आत्मतः ध्यानम् [भवति], आत्मतः चित्तम् [भवति], आत्मतः सङ्कल्पः [भवति], आत्मतः मनः [भवति], आत्मतः वाक् [भवति], आत्मतः नाम [भवति], आत्मतः मन्त्राः [भवन्ति], आत्मतः कर्माणि [भवन्ति], आत्मतः एव इदम् सर्वम् [भवति] इति ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 7, खण्ड 26

Read the whole section →