Sunday Meditation· Open to Everyone

अध्याय 7, खण्ड 8

संस्कृत

Passage 121.1

बलं वाव विज्ञानाद्भूयोऽपि ह शतं विज्ञानवतामेको बलवानाकम्पयते । स यदा बली भवत्यथोत्थाता भवत्युत्तिष्ठन्परिचरिता भवति परिचरन्नुपसत्ता भवत्युपसीदन्द्रष्टा भवति श्रोता भवति मन्ता भवति बोद्धा भवति कर्ता भवति विज्ञाता भवति । बलेन वै पृथिवी तिष्ठति बलेनान्तरिक्षं बलेन द्यौर्बलेन पर्वता बलेन देवमनुष्या बलेन पशवश्च वयाँसि च तृणवनस्पतयः श्वापदान्याकीटपतङ्गपिपीलकं बलेन लोकस्तिष्ठति बलमुपास्स्वेति ॥ १ ॥

पदच्छेद

बलम्balamवावvāvaविज्ञानात्vijñānātभूयःbhūyaḥअपिapiहhaशतम्śatamविज्ञानवताम्vijñānavatāmएकःekaḥबलवान्balavānआकम्पयतेākampayateसःsaḥयदाyadāबलीbalīभवतिbhavatiअथathaउत्थाताutthātāभवतिbhavatiउत्तिष्ठन्uttiṣṭhanपरिचरिताparicaritāभवतिbhavatiपरिचरन्paricaranउपसत्ताupasattāभवतिbhavatiउपसीदन्upasīdanद्रष्टाdraṣṭāभवतिbhavatiश्रोताśrotāभवतिbhavatiमन्ताmantāभवतिbhavatiबोद्धाboddhāभवतिbhavatiकर्ताkartāभवतिbhavatiविज्ञाताvijñātāभवतिbhavatiबलेनbalenaवैvaiपृथिवीpṛthivīतिष्ठतिtiṣṭhatiबलेनbalenaअन्तरिक्षम्antarikṣamबलेनbalenaद्यौःdyauḥबलेनbalenaपर्वताःparvatāḥबलेनbalenaदेवमनुष्याःdevamanuṣyāḥबलेनbalenaपशवःpaśavaḥचcaवयांसिvayāṃsiचcaतृणवनस्पतयःtṛṇavanaspatayaḥश्वापदानिśvāpadāniआकीटपतङ्गपिपीलकम्ākīṭapataṅgapipīlakamबलेनbalenaलोकःlokaḥतिष्ठतिtiṣṭhatiबलम्balamउपास्स्वupāssvaइतिiti

अन्वय

बलम् वाव विज्ञानात् भूयः [अस्ति] । एकः बलवान् अपि ह विज्ञानवताम् शतम् आकम्पयते । सः यदा बली भवति, अथ उत्थाता भवति; उत्तिष्ठन् परिचरिता भवति; परिचरन् उपसत्ता भवति; उपसीदन् द्रष्टा भवति, श्रोता भवति, मन्ता भवति, बोद्धा भवति, कर्ता भवति, विज्ञाता भवति । बलेन वै पृथिवी तिष्ठति; बलेन अन्तरिक्षम् [तिष्ठति]; बलेन द्यौः [तिष्ठति]; बलेन पर्वताः [तिष्ठन्ति]; बलेन देवमनुष्याः [तिष्ठन्ति]; बलेन पशवः च वयांसि च तृणवनस्पतयः श्वापदानि आकीटपतङ्गपिपीलकम् [तिष्ठन्ति]; बलेन लोकः तिष्ठति । बलम् उपास्स्व इति [उवाच] ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 7, खण्ड 8

Read the whole section →