Sunday Meditation· Open to Everyone

अध्याय 7, खण्ड 3

संस्कृत

Passage 116.1

मनो वाव वाचो भूयो यथा वै द्वे वामलके द्वे वा कोले द्वौ वाक्षौ मुष्टिरनुभवत्येवं वाचं च नाम च मनोऽनुभवति स यदा मनसा मनस्यति मन्त्रानधीयीयेत्यथाधीते कर्माणि कुर्वीयेत्यथ कुरुते पुत्राँश्च पशूँश्चेच्छेयेत्यथेच्छत इमं च लोकममुं चेच्छेयेत्यथेच्छते मनो ह्यात्मा मनो हि लोको मनो हि ब्रह्म मन उपास्स्वेति ॥ १ ॥

पदच्छेद

मनःmanaḥवावvāvaवाचःvācaḥभूयःbhūyaḥयथाyathāवैvaiद्वेdveवाvāआमलकेāmalakeद्वेdveवाvāकोलेkoleद्वौdvauवाvāअक्षौakṣauमुष्टिःmuṣṭiḥअनुभवतिanubhavatiएवम्evamवाचम्vācamचcaनामnāmaचcaमनःmanaḥअनुभवतिanubhavatiसःsaḥयदाyadāमनसाmanasāमनस्यतिmanasyatiमन्त्रान्mantrānअधीयीयadhīyīyaइतिitiअथathaअधीतेadhīteकर्माणिkarmāṇiकुर्वीयkurvīyaइतिitiअथathaकुरुतेkuruteपुत्रान्putrānचcaपशून्paśūnचcaइच्छेयiccheyaइतिitiअथathaइच्छतेicchateइमम्imamचcaलोकम्lokamअमुम्amumचcaइच्छेयiccheyaइतिitiअथathaइच्छतेicchateमनःmanaḥहिhiआत्माātmāमनःmanaḥहिhiलोकःlokaḥमनःmanaḥहिhiब्रह्मbrahmaमनःmanaḥउपास्स्वupāssvaइतिiti

अन्वय

मनः वाव वाचः भूयः [अस्ति] । यथा वै मुष्टिः द्वे वा आमलके, द्वे वा कोले, द्वौ वा अक्षौ अनुभवति, एवम् मनः वाचम् च नाम च अनुभवति । सः यदा मनसा, मन्त्रान् अधीयीय इति मनस्यति, अथ अधीते; कर्माणि कुर्वीय इति [मनस्यति], अथ कुरुते; पुत्रान् च पशून् च इच्छेय इति [मनस्यति], अथ इच्छते; इमम् च लोकम् अमुम् च इच्छेय इति [मनस्यति], अथ इच्छते । मनः हि आत्मा [अस्ति]; मनः हि लोकः [अस्ति]; मनः हि ब्रह्म [अस्ति]; मनः उपास्स्व इति [उवाच] ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 7, खण्ड 3

Read the whole section →