Sunday Meditation· Open to Everyone

अध्याय 7, खण्ड 11

संस्कृत

Passage 124.1

तेजो वावाद्भ्यो भूयस्तद्वा एतद्वायुमागृह्याकाशमभितपति तदाहुर्निशोचति नितपति वर्षिष्यति वा इति तेज एव तत्पूर्वं दर्शयित्वाथापः सृजते तदेतदूर्ध्वाभिश्च तिरश्चीभिश्च विद्युद्भिराह्रादाश्चरन्ति तस्मादाहुर्विद्योतते स्तनयति वर्षिष्यति वा इति तेज एव तत्पूर्वं दर्शयित्वाथापः सृजते तेज उपास्स्वेति ॥ १ ॥

पदच्छेद

तेजःtejaḥवावvāvaअद्भ्यःadbhyaḥभूयःbhūyaḥतत्tatवैvaiएतत्etatवायुम्vāyumआगृह्यāgṛhyaआकाशम्ākāśamअभितपतिabhitapatiतत्tatआहुःāhuḥनिशोचतिniśocatiनितपतिnitapatiवर्षिष्यतिvarṣiṣyatiवैvaiइतिitiतेजःtejaḥएवevaतत्tatपूर्वम्pūrvamदर्शयित्वाdarśayitvāअथathaअपःapaḥसृजतेsṛjateतत्tatएतत्etatऊर्ध्वाभिःūrdhvābhiḥचcaतिरश्चीभिःtiraścībhiḥचcaविद्युद्भिःvidyudbhiḥआह्रादाःāhrādāḥचरन्तिcarantiतस्मात्tasmātआहुःāhuḥविद्योततेvidyotateस्तनयतिstanayatiवर्षिष्यतिvarṣiṣyatiवैvaiइतिitiतेजःtejaḥएवevaतत्tatपूर्वम्pūrvamदर्शयित्वाdarśayitvāअथathaअपःapaḥसृजतेsṛjateतेजःtejaḥउपास्स्वupāssvaइतिiti

अन्वय

तेजः वाव अद्भ्यः भूयः [अस्ति] । तत् वै एतत् [तेजः] वायुम् आगृह्य आकाशम् अभितपति । तत् [जनाः], निशोचति, नितपति, वर्षिष्यति वा इति आहुः । तत् तेजः एव पूर्वम् [आत्मानम्] दर्शयित्वा अथ अपः सृजते । तत् एतत् [भवति]—ऊर्ध्वाभिः च तिरश्चीभिः च विद्युद्भिः आह्रादाः चरन्ति । तस्मात् [जनाः], विद्योतते, स्तनयति, वर्षिष्यति वा इति आहुः । तत् तेजः एव पूर्वम् [आत्मानम्] दर्शयित्वा अथ अपः सृजते । तेजः उपास्स्व इति [उवाच] ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 7, खण्ड 11

Read the whole section →