Sunday Meditation· Open to Everyone

अध्याय 7, खण्ड 2

संस्कृत

Passage 115.1

वाग्वाव नाम्नो भूयसी वाग्वा ऋग्वेदं विज्ञापयति यजुर्वेदँ सामवेदमाथर्वणं चतुर्थमितिहासपुराणं पञ्चमं वेदानां वेदं पित्र्यँराशिं दैवं निधिं वाकोवाक्यमेकायनं देवविद्यां ब्रह्मविद्यां भूतविद्यां क्षत्रविद्याँ सर्पदेवजनविद्यां दिवं च पृथिवीं च वायुं चाकाशं चापश्च तेजश्च देवाँश्च मनुष्याँश्च पशूँश्च वयाँसि च तृणवनस्पतीञ्छ्वापदान्याकीटपतङ्गपिपीलकं धर्मं चाधर्मं च सत्यं चानृतं च साधु चासाधु च हृदयज्ञं चाहृदयज्ञं च यद्वै वाङ्नाभविष्यन्न धर्मो नाधर्मो व्यज्ञापयिष्यन्न सत्यं नानृतं न साधु नासाधु न हृदयज्ञो नाहृदयज्ञो वागेवैतत्सर्वं विज्ञापयति वाचमुपास्स्वेति ॥ १ ॥

पदच्छेद

वाक्vākवावvāvaनाम्नःnāmnaḥभूयसीbhūyasīवाक्vākवैvaiऋग्वेदम्ṛgvedamविज्ञापयतिvijñāpayatiयजुर्वेदम्yajurvedamसामवेदम्sāmavedamआथर्वणम्ātharvaṇamचतुर्थम्caturthamइतिहासपुराणम्itihāsapurāṇamपञ्चमम्pañcamamवेदानाम्vedānāmवेदम्vedamपित्र्यम्pitryamराशिम्rāśimदैवम्daivamनिधिम्nidhimवाकोवाक्यम्vākovākyamएकायनम्ekāyanamदेवविद्याम्devavidyāmब्रह्मविद्याम्brahmavidyāmभूतविद्याम्bhūtavidyāmक्षत्रविद्याम्kṣatravidyāmसर्पदेवजनविद्याम्sarpadevajanavidyāmदिवम्divamचcaपृथिवीम्pṛthivīmचcaवायुम्vāyumचcaआकाशम्ākāśamचcaअपःapaḥचcaतेजःtejaḥचcaदेवान्devānचcaमनुष्यान्manuṣyānचcaपशून्paśūnचcaवयांसिvayāṃsiचcaतृणवनस्पतीन्tṛṇavanaspatīnश्वापदानिśvāpadāniआकीटपतङ्गपिपीलकम्ākīṭapataṅgapipīlakamधर्मम्dharmamचcaअधर्मम्adharmamचcaसत्यम्satyamचcaअनृतम्anṛtamचcaसाधुsādhuचcaअसाधुasādhuचcaहृदयज्ञम्hṛdayajñamचcaअहृदयज्ञम्ahṛdayajñamचcaयत्yatवैvaiवाक्vākनnaअभविष्यत्abhaviṣyatनnaधर्मःdharmaḥनnaअधर्मःadharmaḥव्यज्ञापयिष्यत्vyajñāpayiṣyatनnaसत्यम्satyamनnaअनृतम्anṛtamनnaसाधुsādhuनnaअसाधुasādhuनnaहृदयज्ञःhṛdayajñaḥनnaअहृदयज्ञःahṛdayajñaḥवाक्vākएवevaएतत्etatसर्वम्sarvamविज्ञापयतिvijñāpayatiवाचम्vācamउपास्स्वupāssvaइतिiti

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 7, खण्ड 2

Read the whole section →