Sunday Meditation· Open to Everyone

अध्याय 8, खण्ड 6

संस्कृत

Passage 145.2

तद्यथा महापथ आतत उभौ ग्रामौ गच्छतीमं चामुं चैवमेवैता आदित्यस्य रश्मय उभौ लोकौ गच्छन्तीमं चामुं चामुष्मादादित्यात्प्रतायन्ते ता आसु नाडीषु सृप्ता आभ्यो नाडीभ्यः प्रतायन्ते तेऽमुष्मिन्नादित्ये सृप्ताः ॥ २ ॥

पदच्छेद

तत्tatयथाyathāमहापथःmahāpathaḥआततःātataḥउभौubhauग्रामौgrāmauगच्छतिgacchatiइमम्imamचcaअमुम्amumचcaएवम्evamएवevaएताःetāḥआदित्यस्यādityasyaरश्मयःraśmayaḥउभौubhauलोकौlokauगच्छन्तिgacchantiइमम्imamचcaअमुम्amumचcaअमुष्मात्amuṣmātआदित्यात्ādityātप्रतायन्तेpratāyanteताःtāḥआसुāsuनाडीषुnāḍīṣuसृप्ताःsṛptāḥआभ्यःābhyaḥनाडीभ्यःnāḍībhyaḥप्रतायन्तेpratāyanteतेteअमुष्मिन्amuṣminआदित्येādityeसृप्ताःsṛptāḥ

अन्वय

तत् यथा आततः महापथः उभौ ग्रामौ इमम् च अमुम् च गच्छति, एवम् एव एताः आदित्यस्य रश्मयः उभौ लोकौ इमम् च अमुम् च गच्छन्ति । अमुष्मात् आदित्यात् प्रतायन्ते; ताः आसु नाडीषु सृप्ताः [सन्ति] । आभ्यः नाडीभ्यः प्रतायन्ते; ते अमुष्मिन् आदित्ये सृप्ताः [सन्ति] ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 8, खण्ड 6

Read the whole section →