Sunday Meditation· Open to Everyone

अध्याय 8, खण्ड 9

संस्कृत

Passage 148.2

स समित्पाणिः पुनरेयाय तꣳ ह प्रजापतिरुवाच मघवन्यच्छान्तहृदयः प्राव्राजीः सार्धं विरोचनेन किमिच्छन्पुनरागम इति स होवाच यथैव खल्वयं भगवोऽस्मिञ्छरीरे साध्वलङ्कृते साध्वलङ्कृतो भवति सुवसने सुवसनः परिष्कृते परिष्कृत एवमेवायमस्मिन्नन्धेऽन्धो भवति स्रामे स्रामः परिवृक्णे परिवृक्णोऽस्यैव शरीरस्य नाशमन्वेष नश्यति नाहमत्र भोग्यं पश्यामीति ॥ २ ॥

पदच्छेद

सःsaḥसमित्पाणिःsamitpāṇiḥपुनःpunaḥएयायeyāyaतम्tamहhaप्रजापतिःprajāpatiḥउवाचuvācaमघवन्maghavanयत्yatशान्तहृदयःśāntahṛdayaḥप्राव्राजीःprāvrājīḥसार्धम्sārdhamविरोचनेनvirocanenaकिम्kimइच्छन्icchanपुनःpunaḥआगमःāgamaḥइतिitiसःsaḥहhaउवाचuvācaयथाyathāएवevaखलुkhaluअयम्ayamभगवःbhagavaḥअस्मिन्asminशरीरेśarīreसाध्वलङ्कृतेsādhvalaṅkṛteसाध्वलङ्कृतःsādhvalaṅkṛtaḥभवतिbhavatiसुवसनेsuvasaneसुवसनःsuvasanaḥपरिष्कृतेpariṣkṛteपरिष्कृतःpariṣkṛtaḥएवम्evamएवevaअयम्ayamअस्मिन्asminअन्धेandheअन्धःandhaḥभवतिbhavatiस्रामेsrāmeस्रामःsrāmaḥपरिवृक्णेparivṛkṇeपरिवृक्णःparivṛkṇaḥअस्यasyaएवevaशरीरस्यśarīrasyaनाशम्nāśamअनुanuएषःeṣaḥनश्यतिnaśyatiनnaअहम्ahamअत्रatraभोग्यम्bhogyamपश्यामिpaśyāmiइतिiti

अन्वय

सः समित्पाणिः पुनः एयाय । प्रजापतिः तम् ह उवाच—मघवन्, यत् विरोचनेन सार्धम् शान्तहृदयः प्राव्राजीः, किम् इच्छन् पुनः आगमः इति । सः ह उवाच—भगवः, यथा एव खलु अयम् अस्मिन् शरीरे साध्वलङ्कृते साध्वलङ्कृतः भवति, सुवसने सुवसनः [भवति], परिष्कृते परिष्कृतः [भवति], एवम् एव अयम् अस्मिन् अन्धे अन्धः भवति, स्रामे स्रामः [भवति], परिवृक्णे परिवृक्णः [भवति] । एषः अस्य एव शरीरस्य नाशम् अनु नश्यति; अहम् अत्र भोग्यम् न पश्यामि इति ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 8, खण्ड 9

Read the whole section →