Sunday Meditation· Open to Everyone

अध्याय 6, खण्ड 14

संस्कृत

Passage 111.2

तस्य यथाभिनहनं प्रमुच्य प्रब्रूयादेतां दिशं गन्धारा एतां दिशं व्रजेति स ग्रामाद्ग्रामं पृच्छन्पण्डितो मेधावी गन्धारानेवोपसम्पद्येतैवमेवेहाचार्यवान्पुरुषो वेद तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्य इति ॥ २ ॥

पदच्छेद

तस्यtasyaयथाyathāअभिनहनम्abhinahanamप्रमुच्यpramucyaप्रब्रूयात्prabrūyātएताम्etāmदिशम्diśamगन्धाराःgandhārāḥएताम्etāmदिशम्diśamव्रजvrajaइतिitiसःsaḥग्रामात्grāmātग्रामम्grāmamपृच्छन्pṛcchanपण्डितःpaṇḍitaḥमेधावीmedhāvīगन्धारान्gandhārānएवevaउपसम्पद्येतupasampadyetaएवम्evamएवevaइहihaआचार्यवान्ācāryavānपुरुषःpuruṣaḥवेदvedaतस्यtasyaतावत्tāvatएवevaचिरम्ciramयावत्yāvatनnaविमोक्ष्येvimokṣyeअथathaसम्पत्स्येsampatsyeइतिiti

अन्वय

यथा [कश्चित्] तस्य अभिनहनम् प्रमुच्य, गन्धाराः एताम् दिशम् [सन्ति]; एताम् दिशम् व्रज इति प्रब्रूयात्, सः पण्डितः मेधावी ग्रामात् ग्रामम् पृच्छन् गन्धारान् एव उपसम्पद्येत । एवम् एव इह आचार्यवान् पुरुषः वेद । तस्य तावत् एव चिरम् [अस्ति]—यावत् न विमोक्ष्ये, अथ सम्पत्स्ये इति ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 6, खण्ड 14

Read the whole section →