Sunday Meditation· Open to Everyone

अध्याय 5, खण्ड 20

संस्कृत

Passage 93.2

व्याने तृप्यति श्रोत्रं तृप्यति श्रोत्रे तृप्यति चन्द्रमास्तृप्यति चन्द्रमसि तृप्यति दिशस्तृप्यन्ति दिक्षु तृप्यन्तीषु यत्किञ्च दिशश्च चन्द्रमाश्चाधितिष्ठन्ति तत्तृप्यति तस्यानुतृप्तिं तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेनेति ॥२॥

पदच्छेद

व्यानेvyāneतृप्यतिtṛpyatiश्रोत्रम्śrotramतृप्यतिtṛpyatiश्रोत्रेśrotreतृप्यतिtṛpyatiचन्द्रमाःcandramāḥतृप्यतिtṛpyatiचन्द्रमसिcandramasiतृप्यतिtṛpyatiदिशःdiśaḥतृप्यन्तिtṛpyantiदिक्षुdikṣuतृप्यन्तीषुtṛpyantīṣuयत्yatकिम्kimचcaदिशःdiśaḥचcaचन्द्रमाःcandramāḥचcaअधितिष्ठन्तिadhitiṣṭhantiतत्tatतृप्यतिtṛpyatiतस्यtasyaअनुतृप्तिम्anutṛptimतृप्यतिtṛpyatiप्रजयाprajayāपशुभिःpaśubhiḥअन्नाद्येनannādyenaतेजसाtejasāब्रह्मवर्चसेनbrahmavarcasenaइतिiti

अन्वय

व्याने तृप्यति श्रोत्रम् तृप्यति; श्रोत्रे तृप्यति चन्द्रमाः तृप्यति; चन्द्रमसि तृप्यति दिशः तृप्यन्ति; दिक्षु तृप्यन्तीषु दिशः च चन्द्रमाः च यत् किञ्च अधितिष्ठन्ति, तत् तृप्यति । तस्य तृप्तिम् अनु [सः] प्रजया पशुभिः अन्नाद्येन तेजसा ब्रह्मवर्चसेन तृप्यति इति ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 5, खण्ड 20

Read the whole section →