Sunday Meditation· Open to Everyone

अध्याय 5, खण्ड 22

संस्कृत

Passage 95.2

समाने तृप्यति मनस्तृप्यति मनसि तृप्यति पर्जन्यस्तृप्यति पर्जन्ये तृप्यति विद्युत्तृप्यति विद्युति तृप्यन्त्यां यत्किञ्च विद्युच्च पर्जन्यश्चाधितिष्ठतस्तत्तृप्यति तस्यानु तृप्तिं तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेनेति ॥ २ ॥

पदच्छेद

समानेsamāneतृप्यतिtṛpyatiमनःmanaḥतृप्यतिtṛpyatiमनसिmanasiतृप्यतिtṛpyatiपर्जन्यःparjanyaḥतृप्यतिtṛpyatiपर्जन्येparjanyeतृप्यतिtṛpyatiविद्युत्vidyutतृप्यतिtṛpyatiविद्युतिvidyutiतृप्यन्त्याम्tṛpyantyāmयत्yatकिम्kimचcaविद्युत्vidyutचcaपर्जन्यःparjanyaḥचcaअधितिष्ठतःadhitiṣṭhataḥतत्tatतृप्यतिtṛpyatiतस्यtasyaअनुतृप्तिम्anutṛptimतृप्यतिtṛpyatiप्रजयाprajayāपशुभिःpaśubhiḥअन्नाद्येनannādyenaतेजसाtejasāब्रह्मवर्चसेनbrahmavarcasenaइतिiti

अन्वय

समाने तृप्यति मनः तृप्यति; मनसि तृप्यति पर्जन्यः तृप्यति; पर्जन्ये तृप्यति विद्युत् तृप्यति; विद्युति तृप्यन्त्याम् विद्युत् च पर्जन्यः च यत् किञ्च अधितिष्ठतः, तत् तृप्यति । तस्य तृप्तिम् अनु [सः] प्रजया पशुभिः अन्नाद्येन तेजसा ब्रह्मवर्चसेन तृप्यति इति ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय 5, खण्ड 22

Read the whole section →