Sunday Meditation· Open to Everyone

मोक्षसंन्यासयोगः

संस्कृत

Shloka 18.1

अर्जुन उवाच संन्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम् । त्यागस्य च हृषीकेश पृथक्केशिनिषूदन ॥१८-१॥

पदच्छेद

अर्जुनःarjunaḥउवाचuvācaसंन्यासस्यsaṃnyāsasyaमहाबाहोmahābāhoतत्त्वम्tattvamइच्छामिicchāmiवेदितुम्veditumत्यागस्यtyāgasyaचcaहृषीकेशhṛṣīkeśaपृथक्pṛthakकेशि-निषूदनkeśi-niṣūdana

अन्वय

अर्जुनः उवाच-महाबाहो हृषीकेश केशिनिषूदन, संन्यासस्य त्यागस्य च तत्त्वम् पृथक् वेदितुम् इच्छामि ।

Shloka 18.2

श्रीभगवानुवाच काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः । सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः ॥१८-२॥

पदच्छेद

श्रीभगवान्śrībhagavānउवाचuvācaकाम्यानाम्kāmyānāmकर्मणाम्karmaṇāmन्यासम्nyāsamसंन्यासम्saṃnyāsamकवयःkavayaḥविदुःviduḥसर्व-कर्म-फल-त्यागम्sarva-karma-phala-tyāgamप्राहुःprāhuḥत्यागम्tyāgamविचक्षणाःvicakṣaṇāḥ

अन्वय

श्रीभगवान् उवाच-कवयः काम्यानाम् कर्मणाम् न्यासम् संन्यासम् विदुः । विचक्षणाः सर्वकर्मफलत्यागम् त्यागम् प्राहुः ।

Shloka 18.3

त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः । यज्ञदानतपःकर्म न त्याज्यमिति चापरे ॥१८-३॥

पदच्छेद

त्याज्यम्tyājyamदोषवत्doṣavatइतिitiएकेekeकर्मkarmaप्राहुःprāhuḥमनीषिणःmanīṣiṇaḥयज्ञ-दान-तपः-कर्मyajña-dāna-tapaḥ-karmaनnaत्याज्यम्tyājyamइतिitiचcaअपरेapare

अन्वय

एके मनीषिणः कर्म दोषवत् त्याज्यम् इति प्राहुः । अपरे च यज्ञदानतपःकर्म न त्याज्यम् इति [प्राहुः] ।

Shloka 18.4

निश्चयं शृणु मे तत्र त्यागे भरतसत्तम । त्यागो हि पुरुषव्याघ्र त्रिविधः संप्रकीर्तितः ॥१८-४॥

पदच्छेद

निश्चयम्niścayamशृणुśṛṇuमेmeतत्रtatraत्यागेtyāgeभरत-सत्तमbharata-sattamaत्यागःtyāgaḥहिhiपुरुष-व्याघ्रpuruṣa-vyāghraत्रिविधःtrividhaḥसंप्रकीर्तितःsaṃprakīrtitaḥ

अन्वय

भरतसत्तम पुरुषव्याघ्र, तत्र त्यागे मे निश्चयम् शृणु । हि त्यागः त्रिविधः संप्रकीर्तितः [अस्ति] ।

Shloka 18.5

यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत् । यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् ॥१८-५॥

पदच्छेद

यज्ञ-दान-तपः-कर्मyajña-dāna-tapaḥ-karmaनnaत्याज्यम्tyājyamकार्यम्kāryamएवevaतत्tatयज्ञःyajñaḥदानम्dānamतपःtapaḥचcaएवevaपावनानिpāvanāniमनीषिणाम्manīṣiṇām

अन्वय

यज्ञदानतपःकर्म न त्याज्यम् [अस्ति]; तत् कार्यम् एव [अस्ति] । यज्ञः दानम् तपः च एव मनीषिणाम् पावनानि [सन्ति] ।

Shloka 18.6

एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च । कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम् ॥१८-६॥

पदच्छेद

एतानिetāniअपिapiतुtuकर्माणिkarmāṇiसङ्गम्saṅgamत्यक्त्वाtyaktvāफलानिphalāniचcaकर्तव्यानिkartavyāniइतिitiमेmeपार्थpārthaनिश्चितम्niścitamमतम्matamउत्तमम्uttamam

अन्वय

पार्थ, एतानि कर्माणि अपि तु सङ्गम् फलानि च त्यक्त्वा कर्तव्यानि इति मे निश्चितम् उत्तमम् मतम् [अस्ति] ।

Shloka 18.7

नियतस्य तु संन्यासः कर्मणो नोपपद्यते । मोहात्तस्य परित्यागस्तामसः परिकीर्तितः ॥१८-७॥

पदच्छेद

नियतस्यniyatasyaतुtuसंन्यासःsaṃnyāsaḥकर्मणःkarmaṇaḥनnaउपपद्यतेupapadyateमोहात्mohātतस्यtasyaपरित्यागःparityāgaḥतामसःtāmasaḥपरिकीर्तितःparikīrtitaḥ

अन्वय

नियतस्य कर्मणः संन्यासः तु न उपपद्यते । मोहात् तस्य परित्यागः तामसः परिकीर्तितः [अस्ति] ।

Shloka 18.8

दुःखमित्येव यत्कर्म कायक्लेशभयात्त्यजेत् । स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् ॥१८-८॥

पदच्छेद

दुःखम्duḥkhamइतिitiएवevaयत्yatकर्मkarmaकाय-क्लेश-भयात्kāya-kleśa-bhayātत्यजेत्tyajetसःsaḥकृत्वाkṛtvāराजसम्rājasamत्यागम्tyāgamनnaएवevaत्याग-फलम्tyāga-phalamलभेत्labhet

अन्वय

कायक्लेशभयात् यत् कर्म दुःखम् इति एव [यः] त्यजेत्, सः राजसम् त्यागम् कृत्वा त्यागफलम् न एव लभेत् ।

Shloka 18.9

कार्यमित्येव यत्कर्म नियतं क्रियतेऽर्जुन । सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः ॥१८-९॥

पदच्छेद

कार्यम्kāryamइतिitiएवevaयत्yatकर्मkarmaनियतम्niyatamक्रियतेkriyateअर्जुनarjunaसङ्गम्saṅgamत्यक्त्वाtyaktvāफलम्phalamचcaएवevaसःsaḥत्यागःtyāgaḥसात्त्विकःsāttvikaḥमतःmataḥ

अन्वय

अर्जुन, कार्यम् इति एव सङ्गम् फलम् च एव त्यक्त्वा यत् नियतम् कर्म क्रियते, सः त्यागः सात्त्विकः मतः [अस्ति] ।

Shloka 18.10

न द्वेष्ट्यकुशलं कर्म कुशले नानुषज्जते । त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयः ॥१८-१०॥

पदच्छेद

नnaद्वेष्टिdveṣṭiअकुशलम्akuśalamकर्मkarmaकुशलेkuśaleनnaअनुषज्जतेanuṣajjateत्यागीtyāgīसत्त्व-समाविष्टःsattva-samāviṣṭaḥमेधावीmedhāvīछिन्न-संशयःchinna-saṃśayaḥ

अन्वय

सत्त्वसमाविष्टः मेधावी छिन्नसंशयः त्यागी अकुशलम् कर्म न द्वेष्टि; कुशले न अनुषज्जते ।

Shloka 18.11

न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः । यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते ॥१८-११॥

पदच्छेद

नnaहिhiदेहभृताdehabhṛtāशक्यम्śakyamत्यक्तुम्tyaktumकर्माणिkarmāṇiअशेषतःaśeṣataḥयःyaḥतुtuकर्म-फल-त्यागीkarma-phala-tyāgīसःsaḥत्यागीtyāgīइतिitiअभिधीयतेabhidhīyate

अन्वय

हि देहभृता कर्माणि अशेषतः त्यक्तुम् न शक्यम् [अस्ति] । यः तु कर्मफलत्यागी [अस्ति], सः त्यागी इति अभिधीयते ।

Shloka 18.12

अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम् । भवत्यत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित् ॥१८-१२॥

पदच्छेद

अनिष्टम्aniṣṭamइष्टम्iṣṭamमिश्रम्miśramचcaत्रिविधम्trividhamकर्मणःkarmaṇaḥफलम्phalamभवतिbhavatiअत्यागिनाम्atyāgināmप्रेत्यpretyaनnaतुtuसंन्यासिनाम्saṃnyāsināmक्वचित्kvacit

अन्वय

अनिष्टम् इष्टम् मिश्रम् च [इति] त्रिविधम् कर्मणः फलम् अत्यागिनाम् प्रेत्य भवति; संन्यासिनाम् तु क्वचित् न [भवति] ।

Shloka 18.13

पञ्चैतानि महाबाहो कारणानि निबोध मे । सांख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् ॥१८-१३॥

पदच्छेद

पञ्चpañcaएतानिetāniमहाबाहोmahābāhoकारणानिkāraṇāniनिबोधnibodhaमेmeसांख्येsāṃkhyeकृतान्तेkṛtānteप्रोक्तानिproktāniसिद्धयेsiddhayeसर्व-कर्मणाम्sarva-karmaṇām

अन्वय

महाबाहो, सर्वकर्मणाम् सिद्धये सांख्ये कृतान्ते प्रोक्तानि एतानि पञ्च कारणानि मे निबोध ।

Shloka 18.14

अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् । विविधाश्च पृथक्चेष्टा दैवं चैवात्र पञ्चमम् ॥१८-१४॥

पदच्छेद

अधिष्ठानम्adhiṣṭhānamतथाtathāकर्ताkartāकरणम्karaṇamचcaपृथग्विधम्pṛthagvidhamविविधाःvividhāḥचcaपृथक्pṛthakचेष्टाःceṣṭāḥदैवम्daivamचcaएवevaअत्रatraपञ्चमम्pañcamam

अन्वय

अधिष्ठानम् तथा कर्ता पृथग्विधम् करणम् च विविधाः पृथक् चेष्टाः च अत्र पञ्चमम् दैवम् च एव [इति एतानि पञ्च कारणानि सन्ति] ।

Shloka 18.15

शरीरवाङ्‌मनोभिर्यत्कर्म प्रारभते नरः । न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः ॥१८-१५॥

पदच्छेद

शरीर-वाक्-मनोभिःśarīra-vāk-manobhiḥयत्yatकर्मkarmaप्रारभतेprārabhateनरःnaraḥन्याय्यम्nyāyyamवाvāविपरीतम्viparītamवाvāपञ्चpañcaएतेeteतस्यtasyaहेतवःhetavaḥ

अन्वय

नरः शरीरवाङ्मनोभिः यत् न्याय्यम् वा विपरीतम् वा कर्म प्रारभते, तस्य एते पञ्च हेतवः [सन्ति] ।

Shloka 18.16

तत्रैवं सति कर्तारमात्मानं केवलं तु यः । पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः ॥१८-१६॥

पदच्छेद

तत्रtatraएवम्evamसतिsatiकर्तारम्kartāramआत्मानम्ātmānamकेवलम्kevalamतुtuयःyaḥपश्यतिpaśyatiअकृत-बुद्धित्वात्akṛta-buddhitvātनnaसःsaḥपश्यतिpaśyatiदुर्मतिःdurmatiḥ

अन्वय

तत्र एवम् सति यः अकृतबुद्धित्वात् केवलम् आत्मानम् तु कर्तारम् पश्यति, सः दुर्मतिः न पश्यति ।

Shloka 18.17

यस्य नाहंकृतो भावो बुद्धिर्यस्य न लिप्यते । हत्वापि स इमाँल्लोकान्न हन्ति न निबध्यते ॥१८-१७॥

पदच्छेद

यस्यyasyaनnaअहंकृतःahaṃkṛtaḥभावःbhāvaḥबुद्धिःbuddhiḥयस्यyasyaनnaलिप्यतेlipyateहत्वाhatvāअपिapiसःsaḥइमान्imānलोकान्lokānनnaहन्तिhantiनnaनिबध्यतेnibadhyate

अन्वय

यस्य अहंकृतः भावः न [अस्ति], यस्य बुद्धिः न लिप्यते, सः इमान् लोकान् हत्वा अपि न हन्ति, न निबध्यते ।

Shloka 18.18

ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना । करणं कर्म कर्तेति त्रिविधः कर्मसंग्रहः ॥१८-१८॥

पदच्छेद

ज्ञानम्jñānamज्ञेयम्jñeyamपरिज्ञाताparijñātāत्रिविधाtrividhāकर्म-चोदनाkarma-codanāकरणम्karaṇamकर्मkarmaकर्ताkartāइतिitiत्रिविधःtrividhaḥकर्म-संग्रहःkarma-saṃgrahaḥ

अन्वय

ज्ञानम् ज्ञेयम् परिज्ञाता [इति] त्रिविधा कर्मचोदना [अस्ति] । करणम् कर्म कर्ता इति त्रिविधः कर्मसंग्रहः [अस्ति] ।

Shloka 18.19

ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदतः । प्रोच्यते गुणसंख्याने यथावच्छृणु तान्यपि ॥१८-१९॥

पदच्छेद

ज्ञानम्jñānamकर्मkarmaचcaकर्ताkartāचcaत्रिधाtridhāएवevaगुण-भेदतःguṇa-bhedataḥप्रोच्यतेprocyateगुण-संख्यानेguṇa-saṃkhyāneयथावत्yathāvatशृणुśṛṇuतानिtāniअपिapi

अन्वय

गुणसंख्याने ज्ञानम् कर्म च कर्ता च गुणभेदतः त्रिधा एव प्रोच्यते । तानि अपि यथावत् शृणु ।

Shloka 18.20

सर्वभूतेषु येनैकं भावमव्ययमीक्षते । अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम् ॥१८-२०॥

पदच्छेद

सर्व-भूतेषुsarva-bhūteṣuयेनyenaएकम्ekamभावम्bhāvamअव्ययम्avyayamईक्षतेīkṣateअविभक्तम्avibhaktamविभक्तेषुvibhakteṣuतत्tatज्ञानम्jñānamविद्धिviddhiसात्त्विकम्sāttvikam

अन्वय

येन सर्वभूतेषु विभक्तेषु अविभक्तम् एकम् अव्ययम् भावम् ईक्षते, तत् ज्ञानम् सात्त्विकम् विद्धि ।

Shloka 18.21

पृथक्त्वेन तु यज्ज्ञानं नानाभावान्पृथग्विधान् । वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम् ॥१८-२१॥

पदच्छेद

पृथक्त्वेनpṛthaktvenaतुtuयत्yatज्ञानम्jñānamनाना-भावान्nānā-bhāvānपृथग्विधान्pṛthagvidhānवेत्तिvettiसर्वेषुsarveṣuभूतेषुbhūteṣuतत्tatज्ञानम्jñānamविद्धिviddhiराजसम्rājasam

अन्वय

यत् ज्ञानम् तु सर्वेषु भूतेषु पृथग्विधान् नानाभावान् पृथक्त्वेन वेत्ति, तत् ज्ञानम् राजसम् विद्धि ।

Shloka 18.22

यत्तु कृत्स्नवदेकस्मिन्कार्ये सक्तमहैतुकम् । अतत्त्वार्थवदल्पं च तत्तामसमुदाहृतम् ॥१८-२२॥

पदच्छेद

यत्yatतुtuकृत्स्नवत्kṛtsnavatएकस्मिन्ekasminकार्येkāryeसक्तम्saktamअहेतुकम्ahetukamअतत्त्वार्थवत्atattvārthavatअल्पम्alpamचcaतत्tatतामसम्tāmasamउदाहृतम्udāhṛtam

अन्वय

यत् तु [ज्ञानम्] एकस्मिन् कार्ये कृत्स्नवत् सक्तम् अहैतुकम् अतत्त्वार्थवत् अल्पम् च [अस्ति], तत् तामसम् उदाहृतम् [अस्ति] ।

Shloka 18.23

नियतं सङ्गरहितमरागद्वेषतः कृतम् । अफलप्रेप्सुना कर्म यत्तत्सात्त्विकमुच्यते ॥१८-२३॥

पदच्छेद

नियतम्niyatamसङ्ग-रहितम्saṅga-rahitamअरागद्वेषतःarāgadveṣataḥकृतम्kṛtamअफल-प्रेप्सुनाaphala-prepsunāकर्मkarmaयत्yatतत्tatसात्त्विकम्sāttvikamउच्यतेucyate

अन्वय

यत् नियतम् सङ्गरहितम् कर्म अरागद्वेषतः अफलप्रेप्सुना कृतम् [अस्ति], तत् सात्त्विकम् उच्यते ।

Shloka 18.24

यत्तु कामेप्सुना कर्म साहंकारेण वा पुनः । क्रियते बहुलायासं तद्राजसमुदाहृतम् ॥१८-२४॥

पदच्छेद

यत्yatतुtuकाम-ईप्सुनाkāma-īpsunāकर्मkarmaसाहंकारेणsāhaṃkāreṇaवाvāपुनःpunaḥक्रियतेkriyateबहुल-आयासम्bahula-āyāsamतत्tatराजसम्rājasamउदाहृतम्udāhṛtam

अन्वय

यत् बहुलायासम् कर्म तु कामेप्सुना साहंकारेण वा पुनः क्रियते, तत् राजसम् उदाहृतम् [अस्ति] ।

Shloka 18.25

अनुबन्धं क्षयं हिंसामनवेक्ष्य च पौरुषम् । मोहादारभ्यते कर्म यत्तत्तामसमुच्यते ॥१८-२५॥

पदच्छेद

अनुबन्धम्anubandhamक्षयम्kṣayamहिंसाम्hiṃsāmअनवेक्ष्यanavekṣyaचcaपौरुषम्pauruṣamमोहात्mohātआरभ्यतेārabhyateकर्मkarmaयत्yatतत्tatतामसम्tāmasamउच्यतेucyate

अन्वय

यत् कर्म अनुबन्धम् क्षयम् हिंसाम् पौरुषम् च अनवेक्ष्य मोहात् आरभ्यते, तत् तामसम् उच्यते ।

Shloka 18.26

मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः । सिद्ध्यसिद्ध्योर्निर्विकारः कर्ता सात्त्विक उच्यते ॥१८-२६॥

पदच्छेद

मुक्त-सङ्गःmukta-saṅgaḥअनहंवादीanahaṃvādīधृति-उत्साह-समन्वितःdhṛti-utsāha-samanvitaḥसिद्धि-असिद्ध्योःsiddhi-asiddhyoḥनिर्विकारःnirvikāraḥकर्ताkartāसात्त्विकःsāttvikaḥउच्यतेucyate

अन्वय

मुक्तसङ्गः अनहंवादी धृत्युत्साहसमन्वितः सिद्ध्यसिद्ध्योः निर्विकारः कर्ता सात्त्विकः उच्यते ।

Shloka 18.27

रागी कर्मफलप्रेप्सुर्लुब्धो हिंसात्मकोऽशुचिः । हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः ॥१८-२७॥

पदच्छेद

रागीrāgīकर्म-फल-प्रेप्सुःkarma-phala-prepsuḥलुब्धःlubdhaḥहिंसात्मकःhiṃsātmakaḥअशुचिःaśuciḥहर्ष-शोक-अन्वितःharṣa-śoka-anvitaḥकर्ताkartāराजसःrājasaḥपरिकीर्तितःparikīrtitaḥ

अन्वय

रागी कर्मफलप्रेप्सुः लुब्धः हिंसात्मकः अशुचिः हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः [अस्ति] ।

Shloka 18.28

अयुक्तः प्राकृतः स्तब्धः शठो नैष्कृतिकोऽलसः । विषादी दीर्घसूत्री च कर्ता तामस उच्यते ॥१८-२८॥

पदच्छेद

अयुक्तःayuktaḥप्राकृतःprākṛtaḥस्तब्धःstabdhaḥशठःśaṭhaḥनैष्कृतिकःnaiṣkṛtikaḥअलसःalasaḥविषादीviṣādīदीर्घ-सूत्रीdīrgha-sūtrīचcaकर्ताkartāतामसःtāmasaḥउच्यतेucyate

अन्वय

अयुक्तः प्राकृतः स्तब्धः शठः नैष्कृतिकः अलसः विषादी दीर्घसूत्री च कर्ता तामसः उच्यते ।

Shloka 18.29

बुद्धेर्भेदं धृतेश्चैव गुणतस्त्रिविधं शृणु । प्रोच्यमानमशेषेण पृथक्त्वेन धनंजय ॥१८-२९॥

पदच्छेद

बुद्धेःbuddheḥभेदम्bhedamधृतेःdhṛteḥचcaएवevaगुणतःguṇataḥत्रिविधम्trividhamशृणुśṛṇuप्रोच्यमानम्procyamānamअशेषेणaśeṣeṇaपृथक्त्वेनpṛthaktvenaधनंजयdhanaṃjaya

अन्वय

धनंजय, बुद्धेः धृतेः च एव गुणतः त्रिविधम् पृथक्त्वेन अशेषेण प्रोच्यमानम् भेदम् शृणु ।

Shloka 18.30

प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये । बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी ॥१८-३०॥

पदच्छेद

प्रवृत्तिम्pravṛttimचcaनिवृत्तिम्nivṛttimचcaकार्य-अकार्येkārya-akāryeभय-अभयेbhaya-abhayeबन्धम्bandhamमोक्षम्mokṣamचcaयाyāवेत्तिvettiबुद्धिःbuddhiḥसाsāपार्थpārthaसात्त्विकीsāttvikī

अन्वय

पार्थ, या बुद्धिः प्रवृत्तिम् च निवृत्तिम् च कार्याकार्ये भयाभये बन्धम् मोक्षम् च वेत्ति, सा सात्त्विकी [अस्ति] ।

Shloka 18.31

यया धर्ममधर्मं च कार्यं चाकार्यमेव च । अयथावत्प्रजानाति बुद्धिः सा पार्थ राजसी ॥१८-३१॥

पदच्छेद

ययाyayāधर्मम्dharmamअधर्मम्adharmamचcaकार्यम्kāryamचcaअकार्यम्akāryamएवevaचcaअयथावत्ayathāvatप्रजानातिprajānātiबुद्धिःbuddhiḥसाsāपार्थpārthaराजसीrājasī

अन्वय

पार्थ, यया [जनः] धर्मम् अधर्मम् च कार्यम् अकार्यम् एव च अयथावत् प्रजानाति, सा बुद्धिः राजसी [अस्ति] ।

Shloka 18.32

अधर्मं धर्ममिति या मन्यते तमसावृता । सर्वार्थान्विपरीतांश्च बुद्धिः सा पार्थ तामसी ॥१८-३२॥

पदच्छेद

अधर्मम्adharmamधर्मम्dharmamइतिitiयाyāमन्यतेmanyateतमसाtamasāआवृताāvṛtāसर्व-अर्थान्sarva-arthānविपरीतान्viparītānचcaबुद्धिःbuddhiḥसाsāपार्थpārthaतामसीtāmasī

अन्वय

पार्थ, तमसा आवृता या बुद्धिः अधर्मम् धर्मम् इति सर्वार्थान् च विपरीतान् मन्यते, सा तामसी [अस्ति] ।

Shloka 18.33

धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः । योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी ॥१८-३३॥

पदच्छेद

धृत्याdhṛtyāययाyayāधारयतेdhārayateमनः-प्राण-इन्द्रिय-क्रियाःmanaḥ-prāṇa-indriya-kriyāḥयोगेनyogenaअव्यभिचारिण्याavyabhicāriṇyāधृतिःdhṛtiḥसाsāपार्थpārthaसात्त्विकीsāttvikī

अन्वय

पार्थ, यया अव्यभिचारिण्या धृत्या योगेन मनःप्राणेन्द्रियक्रियाः धारयते, सा धृतिः सात्त्विकी [अस्ति] ।

Shloka 18.34

यया तु धर्मकामार्थान्धृत्या धारयतेऽर्जुन । प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी ॥१८-३४॥

पदच्छेद

ययाyayāतुtuधर्म-काम-अर्थान्dharma-kāma-arthānधृत्याdhṛtyāधारयतेdhārayateअर्जुनarjunaप्रसङ्गेनprasaṅgenaफल-आकाङ्क्षीphala-ākāṅkṣīधृतिःdhṛtiḥसाsāपार्थpārthaराजसीrājasī

अन्वय

अर्जुन पार्थ, यया धृत्या फलाकाङ्क्षी [जनः] प्रसङ्गेन धर्मकामार्थान् धारयते, सा धृतिः राजसी [अस्ति] ।

Shloka 18.35

यया स्वप्नं भयं शोकं विषादं मदमेव च । न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी ॥१८-३५॥

पदच्छेद

ययाyayāस्वप्नम्svapnamभयम्bhayamशोकम्śokamविषादम्viṣādamमदम्madamएवevaचcaनnaविमुञ्चतिvimuñcatiदुर्मेधाःdurmedhāḥधृतिःdhṛtiḥसाsāपार्थpārthaतामसीtāmasī

अन्वय

पार्थ, यया [धृत्या] दुर्मेधाः स्वप्नम् भयम् शोकम् विषादम् मदम् एव च न विमुञ्चति, सा धृतिः तामसी [अस्ति] ।

Shloka 18.36

सुखं त्विदानीं त्रिविधं शृणु मे भरतर्षभ । अभ्यासाद्रमते यत्र दुःखान्तं च निगच्छति ॥१८-३६॥

पदच्छेद

सुखम्sukhamतुtuइदानीम्idānīmत्रिविधम्trividhamशृणुśṛṇuमेmeभरतर्षभbharatarṣabhaअभ्यासात्abhyāsātरमतेramateयत्रyatraदुःख-अन्तम्duḥkha-antamचcaनिगच्छतिnigacchati

अन्वय

भरतर्षभ, इदानीम् तु इदम् त्रिविधम् सुखम् मे शृणु । यत्र अभ्यासात् [जनः] रमते, दुःखान्तम् च निगच्छति [तत् सुखम् शृणु] ।

Shloka 18.37

यत्तदग्रे विषमिव परिणामेऽमृतोपमम् । तत्सुखं सात्त्विकं प्रोक्तमात्मबुद्धिप्रसादजम् ॥१८-३७॥

पदच्छेद

यत्yatतत्tatअग्रेagreविषम्viṣamइवivaपरिणामेpariṇāmeअमृत-उपमम्amṛta-upamamतत्tatसुखम्sukhamसात्त्विकम्sāttvikamप्रोक्तम्proktamआत्म-बुद्धि-प्रसाद-जम्ātma-buddhi-prasāda-jam

अन्वय

यत् तत् सुखम् अग्रे विषम् इव [अस्ति], परिणामे अमृतोपमम् [अस्ति], तत् आत्मबुद्धिप्रसादजम् सात्त्विकम् प्रोक्तम् [अस्ति] ।

Shloka 18.38

विषयेन्द्रियसंयोगाद्यत्तदग्रेऽमृतोपमम् । परिणामे विषमिव तत्सुखं राजसं स्मृतम् ॥१८-३८॥

पदच्छेद

विषय-इन्द्रिय-संयोगात्viṣaya-indriya-saṃyogātयत्yatतत्tatअग्रेagreअमृत-उपमम्amṛta-upamamपरिणामेpariṇāmeविषम्viṣamइवivaतत्tatसुखम्sukhamराजसम्rājasamस्मृतम्smṛtam

अन्वय

विषयेन्द्रियसंयोगात् यत् तत् सुखम् अग्रे अमृतोपमम् [अस्ति], परिणामे विषम् इव [अस्ति], तत् राजसम् स्मृतम् [अस्ति] ।

Shloka 18.39

यदग्रे चानुबन्धे च सुखं मोहनमात्मनः । निद्रालस्यप्रमादोत्थं तत्तामसमुदाहृतम् ॥१८-३९॥

पदच्छेद

यत्yatअग्रेagreचcaअनुबन्धेanubandheचcaसुखम्sukhamमोहनम्mohanamआत्मनःātmanaḥनिद्रा-आलस्य-प्रमाद-उत्थम्nidrā-ālasya-pramāda-utthamतत्tatतामसम्tāmasamउदाहृतम्udāhṛtam

अन्वय

यत् निद्रालस्यप्रमादोत्थम् सुखम् अग्रे च अनुबन्धे च आत्मनः मोहनम् [अस्ति], तत् तामसम् उदाहृतम् [अस्ति] ।

Shloka 18.40

न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः । सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात्त्रिभिर्गुणैः ॥१८-४०॥

पदच्छेद

नnaतत्tatअस्तिastiपृथिव्याम्pṛthivyāmवाvāदिविdiviदेवेषुdeveṣuवाvāपुनःpunaḥसत्त्वम्sattvamप्रकृतिजैःprakṛtijaiḥमुक्तम्muktamयत्yatएभिःebhiḥस्यात्syātत्रिभिःtribhiḥगुणैःguṇaiḥ

अन्वय

पृथिव्याम् वा दिवि देवेषु वा पुनः तत् सत्त्वम् न अस्ति, यत् एभिः त्रिभिः प्रकृतिजैः गुणैः मुक्तम् स्यात् ।

Shloka 18.41

ब्राह्मणक्षत्रियविशां शूद्राणां च परन्तप । कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः ॥१८-४१॥

पदच्छेद

ब्राह्मण-क्षत्रिय-विशाम्brāhmaṇa-kṣatriya-viśāmशूद्राणाम्śūdrāṇāmचcaपरन्तपparantapaकर्माणिkarmāṇiप्रविभक्तानिpravibhaktāniस्वभाव-प्रभवैःsvabhāva-prabhavaiḥगुणैःguṇaiḥ

अन्वय

परन्तप, ब्राह्मणक्षत्रियविशाम् शूद्राणाम् च कर्माणि स्वभावप्रभवैः गुणैः प्रविभक्तानि [सन्ति] ।

Shloka 18.42

शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च । ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम् ॥१८-४२॥

पदच्छेद

शमःśamaḥदमःdamaḥतपःtapaḥशौचम्śaucamक्षान्तिःkṣāntiḥआर्जवम्ārjavamएवevaचcaज्ञानम्jñānamविज्ञानम्vijñānamआस्तिक्यम्āstikyamब्रह्म-कर्मbrahma-karmaस्वभाव-जम्svabhāva-jam

अन्वय

शमः दमः तपः शौचम् क्षान्तिः आर्जवम् एव च ज्ञानम् विज्ञानम् आस्तिक्यम् [इति] स्वभावजम् ब्रह्मकर्म [अस्ति] ।

Shloka 18.43

शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् । दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् ॥१८-४३॥

पदच्छेद

शौर्यम्śauryamतेजःtejaḥधृतिःdhṛtiḥदाक्ष्यम्dākṣyamयुद्धेyuddheचcaअपिapiअपलायनम्apalāyanamदानम्dānamईश्वर-भावःīśvara-bhāvaḥचcaक्षात्रम्kṣātramकर्मkarmaस्वभाव-जम्svabhāva-jam

अन्वय

शौर्यम् तेजः धृतिः दाक्ष्यम् युद्धे अपि च अपलायनम् दानम् ईश्वरभावः च [इति] स्वभावजम् क्षात्रम् कर्म [अस्ति] ।

Shloka 18.44

कृषिगौरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम् । परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम् ॥१८-४४॥

पदच्छेद

कृषि-गौरक्ष्य-वाणिज्यम्kṛṣi-gaurakṣya-vāṇijyamवैश्य-कर्मvaiśya-karmaस्वभाव-जम्svabhāva-jamपरिचर्या-आत्मकम्paricaryā-ātmakamकर्मkarmaशूद्रस्यśūdrasyaअपिapiस्वभाव-जम्svabhāva-jam

अन्वय

कृषिगौरक्ष्यवाणिज्यम् स्वभावजम् वैश्यकर्म [अस्ति] । परिचर्यात्मकम् कर्म शूद्रस्य अपि स्वभावजम् [अस्ति] ।

Shloka 18.45

स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः । स्वकर्मनिरतः सिद्धिं यथा विन्दति तच्छृणु ॥१८-४५॥

पदच्छेद

स्वेsveस्वेsveकर्मणिkarmaṇiअभिरतःabhirataḥसंसिद्धिम्saṃsiddhimलभतेlabhateनरःnaraḥस्व-कर्म-निरतःsva-karma-nirataḥसिद्धिम्siddhimयथाyathāविन्दतिvindatiतत्tatशृणुśṛṇu

अन्वय

स्वे स्वे कर्मणि अभिरतः नरः संसिद्धिम् लभते । स्वकर्मनिरतः [नरः] यथा सिद्धिम् विन्दति, तत् शृणु ।

Shloka 18.46

यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् । स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः ॥१८-४६॥

पदच्छेद

यतःyataḥप्रवृत्तिःpravṛttiḥभूतानाम्bhūtānāmयेनyenaसर्वम्sarvamइदम्idamततम्tatamस्व-कर्मणाsva-karmaṇāतम्tamअभ्यर्च्यabhyarcyaसिद्धिम्siddhimविन्दतिvindatiमानवःmānavaḥ

अन्वय

यतः भूतानाम् प्रवृत्तिः [भवति], येन इदम् सर्वम् ततम् [अस्ति], तम् स्वकर्मणा अभ्यर्च्य मानवः सिद्धिम् विन्दति ।

Shloka 18.47

श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् । स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥१८-४७॥

पदच्छेद

श्रेयान्śreyānस्व-धर्मःsva-dharmaḥविगुणःviguṇaḥपर-धर्मात्para-dharmātसु-अनुष्ठितात्su-anuṣṭhitātस्वभाव-नियतम्svabhāva-niyatamकर्मkarmaकुर्वन्kurvanनnaआप्नोतिāpnotiकिल्बिषम्kilbiṣam

अन्वय

विगुणः स्वधर्मः स्वनुष्ठितात् परधर्मात् श्रेयान् [अस्ति] । स्वभावनियतम् कर्म कुर्वन् [नरः] किल्बिषम् न आप्नोति ।

Shloka 18.48

सहजं कर्म कौन्तेय सदोषमपि न त्यजेत् । सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृताः ॥१८-४८॥

पदच्छेद

सहजम्sahajamकर्मkarmaकौन्तेयkaunteyaसदोषम्sadoṣamअपिapiनnaत्यजेत्tyajetसर्व-आरम्भाःsarva-ārambhāḥहिhiदोषेणdoṣeṇaधूमेनdhūmenaअग्निःagniḥइवivaआवृताःāvṛtāḥ

अन्वय

कौन्तेय, सहजम् कर्म सदोषम् अपि न त्यजेत् । हि सर्वारम्भाः दोषेण आवृताः [सन्ति], धूमेन अग्निः इव [आवृतः अस्ति] ।

Shloka 18.49

असक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः । नैष्कर्म्यसिद्धिं परमां संन्यासेनाधिगच्छति ॥१८-४९॥

पदच्छेद

असक्त-बुद्धिःasakta-buddhiḥसर्वत्रsarvatraजित-आत्माjita-ātmāविगत-स्पृहःvigata-spṛhaḥनैष्कर्म्य-सिद्धिम्naiṣkarmya-siddhimपरमाम्paramāmसंन्यासेनsaṃnyāsenaअधिगच्छतिadhigacchati

अन्वय

सर्वत्र असक्तबुद्धिः जितात्मा विगतस्पृहः [नरः] संन्यासेन पराम् नैष्कर्म्यसिद्धिम् अधिगच्छति ।

Shloka 18.50

सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे । समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा ॥१८-५०॥

पदच्छेद

सिद्धिम्siddhimप्राप्तःprāptaḥयथाyathāब्रह्मbrahmaतथाtathāआप्नोतिāpnotiनिबोधnibodhaमेmeसमासेनsamāsenaएवevaकौन्तेयkaunteyaनिष्ठाniṣṭhāज्ञानस्यjñānasyaयाyāपराparā

अन्वय

कौन्तेय, सिद्धिम् प्राप्तः [नरः] यथा ब्रह्म आप्नोति, तथा [तम् प्रकारम्] मे समासेन एव निबोध । ज्ञानस्य या परा निष्ठा [अस्ति], [ताम् निष्ठाम् निबोध] ।

Shloka 18.51

बुद्ध्या विशुद्धया युक्तो धृत्यात्मानं नियम्य च । शब्दादीन्विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च ॥१८-५१॥

पदच्छेद

बुद्ध्याbuddhyāविशुद्धयाviśuddhayāयुक्तःyuktaḥधृत्याdhṛtyāआत्मानम्ātmānamनियम्यniyamyaचcaशब्द-आदीन्śabda-ādīnविषयान्viṣayānत्यक्त्वाtyaktvāराग-द्वेषौrāga-dveṣauव्युदस्यvyudasyaचca

अन्वय

विशुद्धया बुद्ध्या युक्तः धृत्या आत्मानम् नियम्य च शब्दादीन् विषयान् त्यक्त्वा रागद्वेषौ व्युदस्य च [विविक्तसेवी लघ्वाशी यतवाक्कायमानसः ध्यानयोगपरः नित्यम् वैराग्यम् समुपाश्रितः निर्ममः शान्तः ब्रह्मभूयाय कल्पते] ।

Shloka 18.52

विविक्तसेवी लघ्वाशी यतवाक्कायमानसः । ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः ॥१८-५२॥

पदच्छेद

विविक्त-सेवीvivikta-sevīलघु-आशीlaghu-āśīयत-वाक्-काय-मानसःyata-vāk-kāya-mānasaḥध्यान-योग-परःdhyāna-yoga-paraḥनित्यम्nityamवैराग्यम्vairāgyamसमुपाश्रितःsamupāśritaḥ

अन्वय

विविक्तसेवी लघ्वाशी यतवाक्कायमानसः नित्यम् ध्यानयोगपरः वैराग्यम् समुपाश्रितः [निर्ममः शान्तः ब्रह्मभूयाय कल्पते] ।

Shloka 18.53

अहंकारं बलं दर्पं कामं क्रोधं परिग्रहम् । विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते ॥१८-५३॥

पदच्छेद

अहंकारम्ahaṃkāramबलम्balamदर्पम्darpamकामम्kāmamक्रोधम्krodhamपरिग्रहम्parigrahamविमुच्यvimucyaनिर्ममःnirmamaḥशान्तःśāntaḥब्रह्म-भूयायbrahma-bhūyāyaकल्पतेkalpate

अन्वय

अहंकारम् बलम् दर्पम् कामम् क्रोधम् परिग्रहम् विमुच्य निर्ममः शान्तः [नरः] ब्रह्मभूयाय कल्पते ।

Shloka 18.54

ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति । समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम् ॥१८-५४॥

पदच्छेद

ब्रह्म-भूतःbrahma-bhūtaḥप्रसन्न-आत्माprasanna-ātmāनnaशोचतिśocatiनnaकाङ्क्षतिkāṅkṣatiसमःsamaḥसर्वेषुsarveṣuभूतेषुbhūteṣuमद्भक्तिम्madbhaktimलभतेlabhateपराम्parām

अन्वय

ब्रह्मभूतः प्रसन्नात्मा [नरः] न शोचति, न काङ्क्षति । सर्वेषु भूतेषु समः [सन्] पराम् मद्भक्तिम् लभते ।

Shloka 18.55

भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वतः । ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ॥१८-५५॥

पदच्छेद

भक्त्याbhaktyāमाम्māmअभिजानातिabhijānātiयावान्yāvānयःyaḥचcaअस्मिasmiतत्त्वतःtattvataḥततःtataḥमाम्māmतत्त्वतःtattvataḥज्ञात्वाjñātvāविशतेviśateतत्-अनन्तरम्tat-anantaram

अन्वय

[अहम्] यावान् यः च अस्मि, [तम्] माम् [सः] भक्त्या तत्त्वतः अभिजानाति । ततः माम् तत्त्वतः ज्ञात्वा [सः] तदनन्तरम् [माम्] विशते ।

Shloka 18.56

सर्वकर्माण्यपि सदा कुर्वाणो मद्व्यपाश्रयः । मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम् ॥१८-५६॥

पदच्छेद

सर्व-कर्माणिsarva-karmāṇiअपिapiसदाsadāकुर्वाणःkurvāṇaḥमद्व्यपाश्रयःmadvyapāśrayaḥमत्-प्रसादात्mat-prasādātअवाप्नोतिavāpnotiशाश्वतम्śāśvatamपदम्padamअव्ययम्avyayam

अन्वय

मद्व्यपाश्रयः [नरः] सर्वकर्माणि अपि सदा कुर्वाणः मत्प्रसादात् शाश्वतम् अव्ययम् पदम् अवाप्नोति ।

Shloka 18.57

चेतसा सर्वकर्माणि मयि संन्यस्य मत्परः । बुद्धियोगमुपाश्रित्य मच्चित्तः सततं भव ॥१८-५७॥

पदच्छेद

चेतसाcetasāसर्व-कर्माणिsarva-karmāṇiमयिmayiसंन्यस्यsaṃnyasyaमत्परःmatparaḥबुद्धि-योगम्buddhi-yogamउपाश्रित्यupāśrityaमच्चित्तःmaccittaḥसततम्satatamभवbhava

अन्वय

चेतसा सर्वकर्माणि मयि संन्यस्य मत्परः [सन्] बुद्धियोगम् उपाश्रित्य सततम् मच्चित्तः भव ।

Shloka 18.58

मच्चित्तः सर्वदुर्गाणि मत्प्रसादात्तरिष्यसि । अथ चेत्त्वमहङ्कारान्न श्रोष्यसि विनङ्क्ष्यसि ॥१८-५८॥

पदच्छेद

मच्चित्तःmaccittaḥसर्व-दुर्गाणिsarva-durgāṇiमत्-प्रसादात्mat-prasādātतरिष्यसिtariṣyasiअथathaचेत्cetत्वम्tvamअहङ्कारात्ahaṅkārātनnaश्रोष्यसिśroṣyasiविनङ्क्ष्यसिvinaṅkṣyasi

अन्वय

मच्चित्तः [सन्] मत्प्रसादात् सर्वदुर्गाणि तरिष्यसि । अथ चेत् त्वम् अहङ्कारात् न श्रोष्यसि, विनङ्क्ष्यसि ।

Shloka 18.59

यदहंकारमाश्रित्य न योत्स्य इति मन्यसे । मिथ्यैष व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति ॥१८-५९॥

पदच्छेद

यत्yatअहंकारम्ahaṃkāramआश्रित्यāśrityaनnaयोत्स्येyotsyeइतिitiमन्यसेmanyaseमिथ्याmithyāएषःeṣaḥव्यवसायःvyavasāyaḥतेteप्रकृतिःprakṛtiḥत्वाम्tvāmनियोक्ष्यतिniyokṣyati

अन्वय

यत् [त्वम्] अहंकारम् आश्रित्य न योत्स्ये इति मन्यसे, एषः ते व्यवसायः मिथ्या [अस्ति] । प्रकृतिः त्वाम् नियोक्ष्यति ।

Shloka 18.60

स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा । कर्तुं नेच्छसि यन्मोहात्करिष्यस्यवशोऽपि तत् ॥१८-६०॥

पदच्छेद

स्वभाव-जेनsvabhāva-jenaकौन्तेयkaunteyaनिबद्धःnibaddhaḥस्वेनsvenaकर्मणाkarmaṇāकर्तुम्kartumनnaइच्छसिicchasiयत्yatमोहात्mohātकरिष्यसिkariṣyasiअवशःavaśaḥअपिapiतत्tat

अन्वय

कौन्तेय, स्वभावजेन स्वेन कर्मणा निबद्धः [त्वम्] मोहात् यत् कर्तुम् न इच्छसि, तत् अवशः अपि करिष्यसि ।

Shloka 18.61

ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति । भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया ॥१८-६१॥

पदच्छेद

ईश्वरःīśvaraḥसर्व-भूतानाम्sarva-bhūtānāmहृद्-देशेhṛd-deśeअर्जुनarjunaतिष्ठतिtiṣṭhatiभ्रामयन्bhrāmayanसर्व-भूतानिsarva-bhūtāniयन्त्र-आरूढानिyantra-ārūḍhāniमाययाmāyayā

अन्वय

अर्जुन, ईश्वरः मायया यन्त्रारूढानि सर्वभूतानि भ्रामयन् सर्वभूतानाम् हृद्देशे तिष्ठति ।

Shloka 18.62

तमेव शरणं गच्छ सर्वभावेन भारत । तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् ॥१८-६२॥

पदच्छेद

तम्tamएवevaशरणम्śaraṇamगच्छgacchaसर्व-भावेनsarva-bhāvenaभारतbhārataतत्-प्रसादात्tat-prasādātपराम्parāmशान्तिम्śāntimस्थानम्sthānamप्राप्स्यसिprāpsyasiशाश्वतम्śāśvatam

अन्वय

भारत, सर्वभावेन तम् एव शरणम् गच्छ । तत्प्रसादात् पराम् शान्तिम् शाश्वतम् स्थानम् प्राप्स्यसि ।

Shloka 18.63

इति ते ज्ञानमाख्यातं गुह्याद्‌गुह्यतरं मया । विमृश्यैतदशेषेण यथेच्छसि तथा कुरु ॥१८-६३॥

पदच्छेद

इतिitiतेteज्ञानम्jñānamआख्यातम्ākhyātamगुह्यात्guhyātगुह्यतरम्guhyataramमयाmayāविमृश्यvimṛśyaएतत्etatअशेषेणaśeṣeṇaयथाyathāइच्छसिicchasiतथाtathāकुरुkuru

अन्वय

इति मया ते गुह्यात् गुह्यतरम् ज्ञानम् आख्यातम् [अस्ति] । एतत् अशेषेण विमृश्य यथा इच्छसि तथा कुरु ।

Shloka 18.64

सर्वगुह्यतमं भूयः शृणु मे परमं वचः । इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम् ॥१८-६४॥

पदच्छेद

सर्व-गुह्यतमम्sarva-guhyatamamभूयःbhūyaḥशृणुśṛṇuमेmeपरमम्paramamवचःvacaḥइष्टःiṣṭaḥअसिasiमेmeदृढम्dṛḍhamइतिitiततःtataḥवक्ष्यामिvakṣyāmiतेteहितम्hitam

अन्वय

मे सर्वगुह्यतमम् परमम् वचः भूयः शृणु । [त्वम्] मे दृढम् इष्टः असि इति ततः ते हितम् वक्ष्यामि ।

Shloka 18.65

मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु । मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे ॥१८-६५॥

पदच्छेद

मन्मनाःmanmanāḥभवbhavaमद्भक्तःmadbhaktaḥमद्याजीmadyājīमाम्māmनमस्कुरुnamaskuruमाम्māmएवevaएष्यसिeṣyasiसत्यम्satyamतेteप्रतिजानेpratijāneप्रियःpriyaḥअसिasiमेme

अन्वय

मन्मनाः भव; मद्भक्तः मद्याजी [च भव] । माम् नमस्कुरु । माम् एव एष्यसि; ते सत्यम् प्रतिजाने । [त्वम्] मे प्रियः असि ।

Shloka 18.66

सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज । अहं त्वां सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥१८-६६॥

पदच्छेद

सर्व-धर्मान्sarva-dharmānपरित्यज्यparityajyaमाम्māmएकम्ekamशरणम्śaraṇamव्रजvrajaअहम्ahamत्वाम्tvāmसर्व-पापेभ्यःsarva-pāpebhyaḥमोक्षयिष्यामिmokṣayiṣyāmiमाmāशुचःśucaḥ

अन्वय

सर्वधर्मान् परित्यज्य एकम् माम् शरणम् व्रज । अहम् त्वाम् सर्वपापेभ्यः मोक्षयिष्यामि; मा शुचः ।

Shloka 18.67

इदं ते नातपस्काय नाभक्ताय कदाचन । न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति ॥१८-६७॥

पदच्छेद

इदम्idamतेteनnaअतपस्कायatapaskāyaनnaअभक्तायabhaktāyaकदाचनkadācanaनnaचcaअशुश्रूषवेaśuśrūṣaveवाच्यम्vācyamनnaचcaमाम्māmयःyaḥअभ्यसूयतिabhyasūyati

अन्वय

ते इदम् कदाचन अतपस्काय न वाच्यम्, अभक्ताय न [वाच्यम्], अशुश्रूषवे च न [वाच्यम्], यः माम् अभ्यसूयति [तस्मै] च न [वाच्यम्] ।

Shloka 18.68

य इमं परमं गुह्यं मद्भक्तेष्वभिधास्यति । भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः ॥१८-६८॥

पदच्छेद

यःyaḥइमम्imamपरमम्paramamगुह्यम्guhyamमद्भक्तेषुmadbhakteṣuअभिधास्यतिabhidhāsyatiभक्तिम्bhaktimमयिmayiपराम्parāmकृत्वाkṛtvāमाम्māmएवevaएष्यतिeṣyatiअसंशयःasaṃśayaḥ

अन्वय

यः मयि पराम् भक्तिम् कृत्वा इमम् परमम् गुह्यम् मद्भक्तेषु अभिधास्यति, [सः] असंशयः [सन्] माम् एव एष्यति ।

Shloka 18.69

न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः । भविता न च मे तस्मादन्यः प्रियतरो भुवि ॥१८-६९॥

पदच्छेद

नnaचcaतस्मात्tasmātमनुष्येषुmanuṣyeṣuकश्चित्kaścitमेmeप्रियकृत्तमःpriyakṛttamaḥभविताbhavitāनnaचcaमेmeतस्मात्tasmātअन्यःanyaḥप्रियतरःpriyataraḥभुविbhuvi

अन्वय

मनुष्येषु तस्मात् मे प्रियकृत्तमः कश्चित् न भविता । भुवि तस्मात् अन्यः मे प्रियतरः च न [भविता] ।

Shloka 18.70

अध्येष्यते च य इमं धर्म्यं संवादमावयोः । ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः ॥१८-७०॥

पदच्छेद

अध्येष्यतेadhyeṣyateचcaयःyaḥइमम्imamधर्म्यम्dharmyamसंवादम्saṃvādamआवयोःāvayoḥज्ञान-यज्ञेनjñāna-yajñenaतेनtenaअहम्ahamइष्टःiṣṭaḥस्याम्syāmइतिitiमेmeमतिःmatiḥ

अन्वय

यः च आवयोः इमम् धर्म्यम् संवादम् अध्येष्यते, तेन ज्ञानयज्ञेन अहम् इष्टः स्याम् इति मे मतिः [अस्ति] ।

Shloka 18.71

श्रद्धावाननसूयश्च शृणुयादपि यो नरः । सोऽपि मुक्तः शुभाँल्लोकान्प्राप्नुयात्पुण्यकर्मणाम् ॥१८-७१॥

पदच्छेद

श्रद्धावान्śraddhāvānअनसूयःanasūyaḥचcaशृणुयात्śṛṇuyātअपिapiयःyaḥनरःnaraḥसःsaḥअपिapiमुक्तःmuktaḥशुभान्śubhānलोकान्lokānप्राप्नुयात्prāpnuyātपुण्य-कर्मणाम्puṇya-karmaṇām

अन्वय

यः श्रद्धावान् अनसूयः च नरः अपि शृणुयात्, सः अपि मुक्तः [सन्] पुण्यकर्मणाम् शुभान् लोकान् प्राप्नुयात् ।

Shloka 18.72

कच्चिदेतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा । कच्चिदज्ञानसंमोहः प्रनष्टस्ते धनंजय ॥१८-७२॥

पदच्छेद

कच्चित्kaccitएतत्etatश्रुतम्śrutamपार्थpārthaत्वयाtvayāएकाग्रेणekāgreṇaचेतसाcetasāकच्चित्kaccitअज्ञान-संमोहःajñāna-saṃmohaḥप्रनष्टःpranaṣṭaḥतेteधनंजयdhanaṃjaya

अन्वय

पार्थ धनंजय, कच्चित् त्वया एकाग्रेण चेतसा एतत् श्रुतम् [अस्ति]? कच्चित् ते अज्ञानसंमोहः प्रनष्टः [अस्ति]?

Shloka 18.73

अर्जुन उवाच नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत । स्थितोऽस्मि गतसन्देहः करिष्ये वचनं तव ॥१८-७३॥

पदच्छेद

अर्जुनःarjunaḥउवाचuvācaनष्टःnaṣṭaḥमोहःmohaḥस्मृतिःsmṛtiḥलब्धाlabdhāत्वत्-प्रसादात्tvat-prasādātमयाmayāअच्युतacyutaस्थितःsthitaḥअस्मिasmiगत-सन्देहःgata-sandehaḥकरिष्येkariṣyeवचनम्vacanamतवtava

अन्वय

अर्जुनः उवाच-अच्युत, त्वत्प्रसादात् [मम] मोहः नष्टः [अस्ति]; मया स्मृतिः लब्धा [अस्ति] । गतसन्देहः स्थितः अस्मि; तव वचनम् करिष्ये ।

Shloka 18.74

सञ्जय उवाच इत्यहं वासुदेवस्य पार्थस्य च महात्मनः । संवादमिममश्रौषमद्भुतं रोमहर्षणम् ॥१८-७४॥

पदच्छेद

सञ्जयःsañjayaḥउवाचuvācaइतिitiअहम्ahamवासुदेवस्यvāsudevasyaपार्थस्यpārthasyaचcaमहात्मनःmahātmanaḥसंवादम्saṃvādamइमम्imamअश्रौषम्aśrauṣamअद्भुतम्adbhutamरोम-हर्षणम्roma-harṣaṇam

अन्वय

सञ्जयः उवाच-इति अहम् वासुदेवस्य महात्मनः पार्थस्य च इमम् अद्भुतम् रोमहर्षणम् संवादम् अश्रौषम् ।

Shloka 18.75

व्यासप्रसादाच्छ्रुतवानेतद्गुह्यमहं परम् । योगं योगेश्वरात्कृष्णात्साक्षात्कथयतः स्वयम् ॥१८-७५॥

पदच्छेद

व्यास-प्रसादात्vyāsa-prasādātश्रुतवान्śrutavānएतत्etatगुह्यम्guhyamअहम्ahamपरम्paramयोगम्yogamयोगेश्वरात्yogeśvarātकृष्णात्kṛṣṇātसाक्षात्sākṣātकथयतःkathayataḥस्वयम्svayam

अन्वय

व्यासप्रसादात् अहम् स्वयम् कथयतः योगेश्वरात् कृष्णात् एतत् गुह्यम् परम् योगम् साक्षात् श्रुतवान् [अस्मि] ।

Shloka 18.76

राजन्संस्मृत्य संस्मृत्य संवादमिममद्भुतम् । केशवार्जुनयोः पुण्यं हृष्यामि च मुहुर्मुहुः ॥१८-७६॥

पदच्छेद

राजन्rājanसंस्मृत्यsaṃsmṛtyaसंस्मृत्यsaṃsmṛtyaसंवादम्saṃvādamइमम्imamअद्भुतम्adbhutamकेशव-अर्जुनयोःkeśava-arjunayoḥपुण्यम्puṇyamहृष्यामिhṛṣyāmiचcaमुहुःmuhuḥमुहुःmuhuḥ

अन्वय

राजन्, केशवार्जुनयोः इमम् अद्भुतम् पुण्यम् संवादम् संस्मृत्य संस्मृत्य मुहुः मुहुः हृष्यामि च ।

Shloka 18.77

तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरेः । विस्मयो मे महान् राजन्हृष्यामि च पुनः पुनः ॥१८-७७॥

पदच्छेद

तत्tatचcaसंस्मृत्यsaṃsmṛtyaसंस्मृत्यsaṃsmṛtyaरूपम्rūpamअत्यद्भुतम्atyadbhutamहरेःhareḥविस्मयःvismayaḥमेmeमहान्mahānराजन्rājanहृष्यामिhṛṣyāmiचcaपुनःpunaḥपुनःpunaḥ

अन्वय

राजन्, हरेः तत् च अत्यद्भुतम् रूपम् संस्मृत्य संस्मृत्य मे महान् विस्मयः [भवति]; पुनः पुनः हृष्यामि च ।

Shloka 18.78

यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः । तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ॥१८-७८॥

पदच्छेद

यत्रyatraयोगेश्वरःyogeśvaraḥकृष्णःkṛṣṇaḥयत्रyatraपार्थःpārthaḥधनुर्धरःdhanurdharaḥतत्रtatraश्रीःśrīḥविजयःvijayaḥभूतिःbhūtiḥध्रुवाdhruvāनीतिःnītiḥमतिःmatiḥममmama

अन्वय

यत्र योगेश्वरः कृष्णः [अस्ति], यत्र पार्थः धनुर्धरः [अस्ति], तत्र श्रीः विजयः भूतिः ध्रुवा नीतिः [च सन्ति इति] मम मतिः [अस्ति] ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Chapters

Chapter 18 · Shlokas

Choose a number to read.

Read the whole chapter →