Sunday Meditation· Open to Everyone

कर्मसंन्यासयोगः

संस्कृत

Shloka 5.1

अर्जुन उवाच संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि । यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् ॥५-१॥

पदच्छेद

अर्जुनःarjunaḥउवाचuvācaसंन्यासम्saṃnyāsamकर्मणाम्karmaṇāmकृष्णkṛṣṇaपुनःpunaḥयोगम्yogamचcaशंससिśaṃsasiयत्yatश्रेयःśreyaḥएतयोःetayoḥएकम्ekamतत्tatमेmeब्रूहिbrūhiसुनिश्चितम्suniścitam

अन्वय

अर्जुनः उवाच-कृष्ण, कर्मणाम् संन्यासम् पुनः योगम् च शंससि । एतयोः एकम् यत् सुनिश्चितम् श्रेयः [अस्ति], तत् मे ब्रूहि ।

Shloka 5.2

संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ । तयोस्तु कर्मसंन्यासात्कर्मयोगो विशिष्यते ॥५-२॥

पदच्छेद

संन्यासःsaṃnyāsaḥकर्म-योगःkarma-yogaḥचcaनिःश्रेयस-करौniḥśreyasa-karauउभौubhauतयोःtayoḥतुtuकर्म-संन्यासात्karma-saṃnyāsātकर्म-योगःkarma-yogaḥविशिष्यतेviśiṣyate

अन्वय

संन्यासः कर्मयोगः च उभौ निःश्रेयसकरौ [स्तः] । तयोः तु कर्मसंन्यासात् कर्मयोगः विशिष्यते ।

Shloka 5.3

ज्ञेयः स नित्यसंन्यासी यो न द्वेष्टि न काङ्क्षति । निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते ॥५-३॥

पदच्छेद

ज्ञेयःjñeyaḥसःsaḥनित्य-संन्यासीnitya-saṃnyāsīयःyaḥनnaद्वेष्टिdveṣṭiनnaकाङ्क्षतिkāṅkṣatiनिर्द्वन्द्वःnirdvandvaḥहिhiमहाबाहोmahābāhoसुखम्sukhamबन्धात्bandhātप्रमुच्यतेpramucyate

अन्वय

यः न द्वेष्टि, न काङ्क्षति, सः नित्यसंन्यासी ज्ञेयः [अस्ति] । हि महाबाहो, निर्द्वन्द्वः [जनः] सुखम् बन्धात् प्रमुच्यते ।

Shloka 5.4

सांख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः । एकमप्यास्थितः सम्यगुभयोर्विन्दते फलम् ॥५-४॥

पदच्छेद

सांख्य-योगौsāṃkhya-yogauपृथक्pṛthakबालाःbālāḥप्रवदन्तिpravadantiनnaपण्डिताःpaṇḍitāḥएकम्ekamअपिapiआस्थितःāsthitaḥसम्यक्samyakउभयोःubhayoḥविन्दतेvindateफलम्phalam

अन्वय

बालाः सांख्ययोगौ पृथक् प्रवदन्ति, पण्डिताः न [प्रवदन्ति] । एकम् अपि सम्यक् आस्थितः [जनः] उभयोः फलम् विन्दते ।

Shloka 5.5

यत्सांख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते । एकं सांख्यं च योगं च यः पश्यति स पश्यति ॥५-५॥

पदच्छेद

यत्yatसांख्यैःsāṃkhyaiḥप्राप्यतेprāpyateस्थानम्sthānamतत्tatयोगैःyogaiḥअपिapiगम्यतेgamyateएकम्ekamसांख्यम्sāṃkhyamचcaयोगम्yogamचcaयःyaḥपश्यतिpaśyatiसःsaḥपश्यतिpaśyati

अन्वय

यत् स्थानम् सांख्यैः प्राप्यते, तत् योगैः अपि गम्यते । यः सांख्यम् च योगम् च एकम् पश्यति, सः पश्यति ।

Shloka 5.6

संन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः । योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति ॥५-६॥

पदच्छेद

संन्यासःsaṃnyāsaḥतुtuमहाबाहोmahābāhoदुःखम्duḥkhamआप्तुम्āptumअयोगतःayogataḥयोग-युक्तःyoga-yuktaḥमुनिःmuniḥब्रह्मbrahmaनnaचिरेणcireṇaअधिगच्छतिadhigacchati

अन्वय

महाबाहो, संन्यासः तु अयोगतः आप्तुम् दुःखम् [अस्ति] । योगयुक्तः मुनिः न चिरेण ब्रह्म अधिगच्छति ।

Shloka 5.7

योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः । सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते ॥५-७॥

पदच्छेद

योग-युक्तःyoga-yuktaḥविशुद्धात्माviśuddhātmāविजितात्माvijitātmāजित-इन्द्रियःjita-indriyaḥसर्व-भूत-आत्म-भूत-आत्माsarva-bhūta-ātma-bhūta-ātmāकुर्वन्kurvanअपिapiनnaलिप्यतेlipyate

अन्वय

योगयुक्तः विशुद्धात्मा विजितात्मा जितेन्द्रियः सर्वभूतात्मभूतात्मा [जनः] कुर्वन् अपि न लिप्यते ।

Shloka 5.8

नैव किंचित्करोमीति युक्तो मन्येत तत्त्ववित् । पश्यञ्शृण्वन्स्पृशञ्जिघ्रन्नश्नन्‌गच्छन्स्वपञ्श्वसन् ॥५-८॥

पदच्छेद

नnaएवevaकिंचित्kiṃcitकरोमिkaromiइतिitiयुक्तःyuktaḥमन्येतmanyetaतत्त्व-वित्tattva-vitपश्यन्paśyanशृण्वन्śṛṇvanस्पृशन्spṛśanजिघ्रन्jighranअश्नन्aśnanगच्छन्gacchanस्वपन्svapanश्वसन्śvasan

अन्वय

तत्त्ववित् युक्तः [जनः] पश्यन् शृण्वन् स्पृशन् जिघ्रन् अश्नन् गच्छन् स्वपन् श्वसन्, [इन्द्रियाणि इन्द्रियार्थेषु वर्तन्ते इति धारयन्], अहम् किञ्चित् न एव करोमि इति मन्येत ।

Shloka 5.9

प्रलपन्विसृजन्गृह्णन्नुन्मिषन्निमिषन्नपि । इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् ॥५-९॥

पदच्छेद

प्रलपन्pralapanविसृजन्visṛjanगृह्णन्gṛhṇanउन्मिषन्unmiṣanनिमिषन्nimiṣanअपिapiइन्द्रियाणिindriyāṇiइन्द्रिय-अर्थेषुindriya-artheṣuवर्तन्तेvartanteइतिitiधारयन्dhārayan

अन्वय

प्रलपन् विसृजन् गृह्णन् उन्मिषन् निमिषन् अपि, इन्द्रियाणि इन्द्रियार्थेषु वर्तन्ते इति धारयन् [तत्त्ववित् युक्तः अहम् किञ्चित् न एव करोमि इति मन्येत] ।

Shloka 5.10

ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः । लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥५-१०॥

पदच्छेद

ब्रह्मणिbrahmaṇiआधायādhāyaकर्माणिkarmāṇiसङ्गम्saṅgamत्यक्त्वाtyaktvāकरोतिkarotiयःyaḥलिप्यतेlipyateनnaसःsaḥपापेनpāpenaपद्म-पत्रम्padma-patramइवivaअम्भसाambhasā

अन्वय

यः ब्रह्मणि कर्माणि आधाय सङ्गम् त्यक्त्वा करोति, सः पापेन न लिप्यते, अम्भसा पद्मपत्रम् इव ।

Shloka 5.11

कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि । योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये ॥५-११॥

पदच्छेद

कायेनkāyenaमनसाmanasāबुद्ध्याbuddhyāकेवलैःkevalaiḥइन्द्रियैःindriyaiḥअपिapiयोगिनःyoginaḥकर्मkarmaकुर्वन्तिkurvantiसङ्गम्saṅgamत्यक्त्वाtyaktvāआत्म-शुद्धयेātma-śuddhaye

अन्वय

योगिनः सङ्गम् त्यक्त्वा आत्मशुद्धये कायेन मनसा बुद्ध्या केवलैः इन्द्रियैः अपि कर्म कुर्वन्ति ।

Shloka 5.12

युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम् । अयुक्तः कामकारेण फले सक्तो निबध्यते ॥५-१२॥

पदच्छेद

युक्तःyuktaḥकर्म-फलम्karma-phalamत्यक्त्वाtyaktvāशान्तिम्śāntimआप्नोतिāpnotiनैष्ठिकीम्naiṣṭhikīmअयुक्तःayuktaḥकाम-कारेणkāma-kāreṇaफलेphaleसक्तःsaktaḥनिबध्यतेnibadhyate

अन्वय

युक्तः कर्मफलम् त्यक्त्वा नैष्ठिकीम् शान्तिम् आप्नोति । अयुक्तः कामकारेण फले सक्तः [सन्] निबध्यते ।

Shloka 5.13

सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी । नवद्वारे पुरे देही नैव कुर्वन्न कारयन् ॥५-१३॥

पदच्छेद

सर्व-कर्माणिsarva-karmāṇiमनसाmanasāसंन्यस्यsaṃnyasyaआस्तेāsteसुखम्sukhamवशीvaśīनव-द्वारेnava-dvāreपुरेpureदेहीdehīनnaएवevaकुर्वन्kurvanनnaकारयन्kārayan

अन्वय

वशी देही मनसा सर्वकर्माणि संन्यस्य नवद्वारे पुरे सुखम् आस्ते, न एव कुर्वन्, न कारयन् ।

Shloka 5.14

न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः । न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते ॥५-१४॥

पदच्छेद

नnaकर्तृत्वम्kartṛtvamनnaकर्माणिkarmāṇiलोकस्यlokasyaसृजतिsṛjatiप्रभुःprabhuḥनnaकर्म-फल-संयोगम्karma-phala-saṃyogamस्वभावःsvabhāvaḥतुtuप्रवर्ततेpravartate

अन्वय

प्रभुः लोकस्य कर्तृत्वम् न सृजति, कर्माणि न [सृजति], कर्मफलसंयोगम् न [सृजति] । स्वभावः तु प्रवर्तते ।

Shloka 5.15

नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः । अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः ॥५-१५॥

पदच्छेद

नnaआदत्तेādatteकस्यचित्kasyacitपापम्pāpamनnaचcaएवevaसुकृतम्sukṛtamविभुःvibhuḥअज्ञानेनajñānenaआवृतम्āvṛtamज्ञानम्jñānamतेनtenaमुह्यन्तिmuhyantiजन्तवःjantavaḥ

अन्वय

विभुः कस्यचित् पापम् न आदत्ते, सुकृतम् च न एव [आदत्ते] । ज्ञानम् अज्ञानेन आवृतम् [अस्ति]; तेन जन्तवः मुह्यन्ति ।

Shloka 5.16

ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः । तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम् ॥५-१६॥

पदच्छेद

ज्ञानेनjñānenaतुtuतत्tatअज्ञानम्ajñānamयेषाम्yeṣāmनाशितम्nāśitamआत्मनःātmanaḥतेषाम्teṣāmआदित्यवत्ādityavatज्ञानम्jñānamप्रकाशयतिprakāśayatiतत्tatपरम्param

अन्वय

येषाम् आत्मनः तत् अज्ञानम् ज्ञानेन नाशितम् [अस्ति], तेषाम् ज्ञानम् आदित्यवत् तत् परम् प्रकाशयति ।

Shloka 5.17

तद्‌बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः । गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः ॥५-१७॥

पदच्छेद

तद्बुद्धयःtadbuddhayaḥतदात्मानःtadātmānaḥतन्निष्ठाःtanniṣṭhāḥतत्परायणाःtatparāyaṇāḥगच्छन्तिgacchantiअपुनरावृत्तिम्apunarāvṛttimज्ञान-निर्धूत-कल्मषाःjñāna-nirdhūta-kalmaṣāḥ

अन्वय

तद्बुद्धयः तदात्मानः तन्निष्ठाः तत्परायणाः ज्ञाननिर्धूतकल्मषाः [जनाः] अपुनरावृत्तिम् गच्छन्ति ।

Shloka 5.18

विद्याविनयसंपन्ने ब्राह्मणे गवि हस्तिनि । शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥५-१८॥

पदच्छेद

विद्या-विनय-संपन्नेvidyā-vinaya-saṃpanneब्राह्मणेbrāhmaṇeगविgaviहस्तिनिhastiniशुनिśuniचcaएवevaश्वपाकेśvapākeचcaपण्डिताःpaṇḍitāḥसम-दर्शिनःsama-darśinaḥ

अन्वय

पण्डिताः विद्याविनयसम्पन्ने ब्राह्मणे, गवि, हस्तिनि, शुनि च एव श्वपाके च समदर्शिनः [सन्ति] ।

Shloka 5.19

इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः । निर्दोषं हि समं ब्रह्म तस्माद्ब्रह्मणि ते स्थिताः ॥५-१९॥

पदच्छेद

इहihaएवevaतैःtaiḥजितःjitaḥसर्गःsargaḥयेषाम्yeṣāmसाम्येsāmyeस्थितम्sthitamमनःmanaḥनिर्दोषम्nirdoṣamहिhiसमम्samamब्रह्मbrahmaतस्मात्tasmātब्रह्मणिbrahmaṇiतेteस्थिताःsthitāḥ

अन्वय

येषाम् मनः साम्ये स्थितम् [अस्ति], तैः इह एव सर्गः जितः [अस्ति] । हि ब्रह्म निर्दोषम् समम् [अस्ति]; तस्मात् ते ब्रह्मणि स्थिताः [सन्ति] ।

Shloka 5.20

न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम् । स्थिरबुद्धिरसंमूढो ब्रह्मविद्ब्रह्मणि स्थितः ॥५-२०॥

पदच्छेद

नnaप्रहृष्येत्prahṛṣyetप्रियम्priyamप्राप्यprāpyaनnaउद्विजेत्udvijetप्राप्यprāpyaचcaअप्रियम्apriyamस्थिर-बुद्धिःsthira-buddhiḥअसंमूढःasaṃmūḍhaḥब्रह्म-वित्brahma-vitब्रह्मणिbrahmaṇiस्थितःsthitaḥ

अन्वय

स्थिरबुद्धिः असम्मूढः ब्रह्मवित् ब्रह्मणि स्थितः [जनः] प्रियम् प्राप्य न प्रहृष्येत्, अप्रियम् च प्राप्य न उद्विजेत् ।

Shloka 5.21

बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत् सुखम् । स ब्रह्मयोगयुक्तात्मा सुखमक्षयमश्नुते ॥५-२१॥

पदच्छेद

बाह्य-स्पर्शेषुbāhya-sparśeṣuअसक्तात्माasaktātmāविन्दतिvindatiआत्मनिātmaniयत्yatसुखम्sukhamसःsaḥब्रह्म-योग-युक्त-आत्माbrahma-yoga-yukta-ātmāसुखम्sukhamअक्षयम्akṣayamअश्नुतेaśnute

अन्वय

बाह्यस्पर्शेषु असक्तात्मा [जनः] आत्मनि यत् सुखम् [अस्ति तत्] विन्दति । सः ब्रह्मयोगयुक्तात्मा अक्षयम् सुखम् अश्नुते ।

Shloka 5.22

ये हि संस्पर्शजा भोगा दुःखयोनय एव ते । आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः ॥५-२२॥

पदच्छेद

येyeहिhiसंस्पर्शजाःsaṃsparśajāḥभोगाःbhogāḥदुःख-योनयःduḥkha-yonayaḥएवevaतेteआदि-अन्तवन्तःādi-antavantaḥकौन्तेयkaunteyaनnaतेषुteṣuरमतेramateबुधःbudhaḥ

अन्वय

कौन्तेय, ये हि संस्पर्शजाः भोगाः [सन्ति], ते दुःखयोनयः एव आद्यन्तवन्तः [सन्ति] । बुधः तेषु न रमते ।

Shloka 5.23

शक्नोतीहैव यः सोढुं प्राक्शरीरविमोक्षणात् । कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः ॥५-२३॥

पदच्छेद

शक्नोतिśaknotiइहihaएवevaयःyaḥसोढुम्soḍhumप्राक्prākशरीर-विमोक्षणात्śarīra-vimokṣaṇātकाम-क्रोध-उद्भवम्kāma-krodha-udbhavamवेगम्vegamसःsaḥयुक्तःyuktaḥसःsaḥसुखीsukhīनरःnaraḥ

अन्वय

यः इह एव शरीरविमोक्षणात् प्राक् कामक्रोधोद्भवम् वेगम् सोढुम् शक्नोति, सः युक्तः [अस्ति]; सः सुखी नरः [अस्ति] ।

Shloka 5.24

योऽन्तःसुखोऽन्तरारामस्तथान्तर्ज्योतिरेव यः । स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति ॥५-२४॥

पदच्छेद

यःyaḥअन्तःसुखःantaḥsukhaḥअन्तरारामःantarārāmaḥतथाtathāअन्तर्ज्योतिःantarjyotiḥएवevaयःyaḥसःsaḥयोगीyogīब्रह्म-निर्वाणम्brahma-nirvāṇamब्रह्म-भूतःbrahma-bhūtaḥअधिगच्छतिadhigacchati

अन्वय

यः अन्तःसुखः अन्तरारामः [अस्ति], तथा यः अन्तर्ज्योतिः एव [अस्ति], सः योगी ब्रह्मभूतः [सन्] ब्रह्मनिर्वाणम् अधिगच्छति ।

Shloka 5.25

लभन्ते ब्रह्मनिर्वाणमृषयः क्षीणकल्मषाः । छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः ॥५-२५॥

पदच्छेद

लभन्तेlabhanteब्रह्म-निर्वाणम्brahma-nirvāṇamऋषयःṛṣayaḥक्षीण-कल्मषाःkṣīṇa-kalmaṣāḥछिन्न-द्वैधाःchinna-dvaidhāḥयतात्मानःyatātmānaḥसर्व-भूत-हितेsarva-bhūta-hiteरताःratāḥ

अन्वय

क्षीणकल्मषाः छिन्नद्वैधाः यतात्मानः सर्वभूतहिते रताः ऋषयः ब्रह्मनिर्वाणम् लभन्ते ।

Shloka 5.26

कामक्रोधवियुक्तानां यतीनां यतचेतसाम् । अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् ॥५-२६॥

पदच्छेद

काम-क्रोध-वियुक्तानाम्kāma-krodha-viyuktānāmयतीनाम्yatīnāmयत-चेतसाम्yata-cetasāmअभितःabhitaḥब्रह्म-निर्वाणम्brahma-nirvāṇamवर्ततेvartateविदितात्मनाम्viditātmanām

अन्वय

कामक्रोधवियुक्तानाम् यतचेतसाम् विदितात्मनाम् यतीनाम् ब्रह्मनिर्वाणम् अभितः वर्तते ।

Shloka 5.27

स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवोः । प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ ॥५-२७॥

पदच्छेद

स्पर्शान्sparśānकृत्वाkṛtvāबहिःbahiḥबाह्यान्bāhyānचक्षुःcakṣuḥचcaएवevaअन्तरेantareभ्रुवोःbhruvoḥप्राण-अपानौprāṇa-apānauसमौsamauकृत्वाkṛtvāनासा-अभ्यन्तर-चारिणौnāsā-abhyantara-cāriṇau

अन्वय

बाह्यान् स्पर्शान् बहिः कृत्वा, चक्षुः च एव भ्रुवोः अन्तरे [कृत्वा], नासाभ्यन्तरचारिणौ प्राणापानौ समौ कृत्वा, [यतेन्द्रियमनोबुद्धिः मोक्षपरायणः विगतेच्छाभयक्रोधः यः मुनिः अस्ति, सः सदा मुक्तः एव अस्ति] ।

Shloka 5.28

यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः । विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः ॥५-२८॥

पदच्छेद

यत-इन्द्रिय-मनस्-बुद्धिःyata-indriya-manas-buddhiḥमुनिःmuniḥमोक्ष-परायणःmokṣa-parāyaṇaḥविगत-इच्छा-भय-क्रोधःvigata-icchā-bhaya-krodhaḥयःyaḥसदाsadāमुक्तःmuktaḥएवevaसःsaḥ

अन्वय

[बाह्यान् स्पर्शान् बहिः कृत्वा, चक्षुः भ्रुवोः अन्तरे कृत्वा, नासाभ्यन्तरचारिणौ प्राणापानौ समौ कृत्वा], यः यतेन्द्रियमनोबुद्धिः मोक्षपरायणः विगतेच्छाभयक्रोधः मुनिः [अस्ति], सः सदा मुक्तः एव [अस्ति] ।

Shloka 5.29

भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् । सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ॥५-२९॥

पदच्छेद

भोक्तारम्bhoktāramयज्ञ-तपसाम्yajña-tapasāmसर्व-लोक-महेश्वरम्sarva-loka-maheśvaramसुहृदम्suhṛdamसर्व-भूतानाम्sarva-bhūtānāmज्ञात्वाjñātvāमाम्māmशान्तिम्śāntimऋच्छतिṛcchati

अन्वय

माम् यज्ञतपसाम् भोक्तारम् सर्वलोकमहेश्वरम् सर्वभूतानाम् सुहृदम् ज्ञात्वा [ज्ञाता] शान्तिम् ऋच्छति ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Chapters

Chapter 5 · Shlokas

Choose a number to read.

Read the whole chapter →