Sunday Meditation· Open to Everyone

विश्वरूपदर्शनयोगः

संस्कृत

Shloka 11.1

अर्जुन उवाच मदनुग्रहाय परमं गुह्यमध्यात्मसंज्ञितम् । यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम ॥११-१॥

पदच्छेद

अर्जुनःarjunaḥउवाचuvācaमत्-अनुग्रहायmat-anugrahāyaपरमम्paramamगुह्यम्guhyamअध्यात्मसंज्ञितम्adhyātmasaṃjñitamयत्yatत्वयाtvayāउक्तम्uktamवचःvacaḥतेनtenaमोहःmohaḥअयम्ayamविगतःvigataḥममmama

अन्वय

अर्जुनः उवाच-मदनुग्रहाय त्वया यत् परमम् गुह्यम् अध्यात्मसंज्ञितम् वचः उक्तम् [अस्ति], तेन मम अयम् मोहः विगतः [अस्ति] ।

Shloka 11.2

भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया । त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम् ॥११-२॥

पदच्छेद

भवाप्ययौbhavāpyayauहिhiभूतानाम्bhūtānāmश्रुतौśrutauविस्तरशःvistaraśaḥमयाmayāत्वत्तःtvattaḥकमलपत्राक्षkamalapatrākṣaमाहात्म्यम्māhātmyamअपिapiचcaअव्ययम्avyayam

अन्वय

कमलपत्राक्ष, हि भूतानाम् भवाप्ययौ त्वत्तः विस्तरशः मया श्रुतौ [स्तः]; अव्ययम् माहात्म्यम् अपि च [श्रुतम् अस्ति] ।

Shloka 11.3

एवमेतद्यथात्थ त्वमात्मानं परमेश्वर । द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम ॥११-३॥

पदच्छेद

एवम्evamएतत्etatयथाyathāआत्थātthaत्वम्tvamआत्मानम्ātmānamपरमेश्वरparameśvaraद्रष्टुम्draṣṭumइच्छामिicchāmiतेteरूपम्rūpamऐश्वरम्aiśvaramपुरुषोत्तमpuruṣottama

अन्वय

परमेश्वर, त्वम् आत्मानम् यथा आत्थ, एतत् एवम् [अस्ति] । पुरुषोत्तम, ते ऐश्वरम् रूपम् द्रष्टुम् इच्छामि ।

Shloka 11.4

मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो । योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम् ॥११-४॥

पदच्छेद

मन्यसेmanyaseयदिyadiतत्tatशक्यम्śakyamमयाmayāद्रष्टुम्draṣṭumइतिitiप्रभोprabhoयोगेश्वरyogeśvaraततःtataḥमेmeत्वम्tvamदर्शयdarśayaआत्मानम्ātmānamअव्ययम्avyayam

अन्वय

प्रभो, तत् मया द्रष्टुम् शक्यम् इति यदि मन्यसे, ततः योगेश्वर, त्वम् मे अव्ययम् आत्मानम् दर्शय ।

Shloka 11.5

श्रीभगवानुवाच पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः । नानाविधानि दिव्यानि नानावर्णाकृतीनि च ॥११-५॥

पदच्छेद

श्रीभगवान्śrībhagavānउवाचuvācaपश्यpaśyaमेmeपार्थpārthaरूपाणिrūpāṇiशतशःśataśaḥअथathaसहस्रशःsahasraśaḥनानाविधानिnānāvidhāniदिव्यानिdivyāniनानावर्णाकृतीनिnānāvarṇākṛtīniचca

अन्वय

श्रीभगवान् उवाच-पार्थ, मे शतशः अथ सहस्रशः नानाविधानि दिव्यानि नानावर्णाकृतीनि रूपाणि पश्य ।

Shloka 11.6

पश्यादित्यान्वसून्रुद्रानश्विनौ मरुतस्तथा । बहून्यदृष्टपूर्वाणि पश्याश्चर्याणि भारत ॥११-६॥

पदच्छेद

पश्यpaśyaआदित्यान्ādityānवसून्vasūnरुद्रान्rudrānअश्विनौaśvinauमरुतःmarutaḥतथाtathāबहूनिbahūniअदृष्टपूर्वाणिadṛṣṭapūrvāṇiपश्यpaśyaआश्चर्याणिāścaryāṇiभारतbhārata

अन्वय

भारत, आदित्यान् वसून् रुद्रान् अश्विनौ तथा मरुतः पश्य । बहूनि अदृष्टपूर्वाणि आश्चर्याणि पश्य ।

Shloka 11.7

इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरम् । मम देहे गुडाकेश यच्चान्यद् द्रष्टुमिच्छसि ॥११-७॥

पदच्छेद

इहihaएकस्थम्ekasthamजगत्jagatकृत्स्नम्kṛtsnamपश्यpaśyaअद्यadyaसचराचरम्sacarācaramममmamaदेहेdeheगुडाकेशguḍākeśaयत्yatचcaअन्यत्anyatद्रष्टुम्draṣṭumइच्छसिicchasi

अन्वय

गुडाकेश, अद्य इह मम देहे एकस्थम् सचराचरम् कृत्स्नम् जगत् पश्य, यत् च अन्यत् द्रष्टुम् इच्छसि [तत् पश्य] ।

Shloka 11.8

न तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा । दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम् ॥११-८॥

पदच्छेद

नnaतुtuमाम्māmशक्यसेśakyaseद्रष्टुम्draṣṭumअनेनanenaएवevaस्वचक्षुषाsvacakṣuṣāदिव्यम्divyamददामिdadāmiतेteचक्षुःcakṣuḥपश्यpaśyaमेmeयोगम्yogamऐश्वरम्aiśvaram

अन्वय

अनेन एव स्वचक्षुषा तु माम् द्रष्टुम् न शक्यसे । ते दिव्यम् चक्षुः ददामि; मे ऐश्वरम् योगम् पश्य ।

Shloka 11.9

सञ्जय उवाच एवमुक्त्वा ततो राजन्महायोगेश्वरो हरिः । दर्शयामास पार्थाय परमं रूपमैश्वरम् ॥११-९॥

पदच्छेद

सञ्जयःsañjayaḥउवाचuvācaएवम्evamउक्त्वाuktvāततःtataḥराजन्rājanमहायोगेश्वरःmahāyogeśvaraḥहरिःhariḥदर्शयामासdarśayāmāsaपार्थायpārthāyaपरमम्paramamरूपम्rūpamऐश्वरम्aiśvaram

अन्वय

सञ्जयः उवाच-राजन्, ततः एवम् उक्त्वा महायोगेश्वरः हरिः पार्थाय परमम् ऐश्वरम् रूपम् दर्शयामास ।

Shloka 11.10

अनेकवक्त्रनयनमनेकाद्भुतदर्शनम् । अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम् ॥११-१०॥

पदच्छेद

अनेक-वक्त्र-नयनम्aneka-vaktra-nayanamअनेक-अद्भुत-दर्शनम्aneka-adbhuta-darśanamअनेक-दिव्य-आभरणम्aneka-divya-ābharaṇamदिव्य-अनेक-उद्यत-आयुधम्divya-aneka-udyata-āyudham

अन्वय

अनेकवक्त्रनयनम् अनेकाद्भुतदर्शनम् अनेकदिव्याभरणम् दिव्यानेकोद्यतायुधम् [देवम् अनन्तम् विश्वतोमुखम् आत्मानम् हरिः दर्शयामास] ।

Shloka 11.11

दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् । सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम् ॥११-११॥

पदच्छेद

दिव्य-माल्य-अम्बर-धरम्divya-mālya-ambara-dharamदिव्य-गन्ध-अनुलेपनम्divya-gandha-anulepanamसर्व-आश्चर्यमयम्sarva-āścaryamayamदेवम्devamअनन्तम्anantamविश्वतोमुखम्viśvatomukham

अन्वय

[अनेकवक्त्रनयनम् अनेकाद्भुतदर्शनम् अनेकदिव्याभरणम् दिव्यानेकोद्यतायुधम्], दिव्यमाल्याम्बरधरम् दिव्यगन्धानुलेपनम् सर्वाश्चर्यमयम् देवम् अनन्तम् विश्वतोमुखम् [आत्मानम् हरिः दर्शयामास] ।

Shloka 11.12

दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता । यदि भाः सदृशी सा स्याद्भासस्तस्य महात्मनः ॥११-१२॥

पदच्छेद

दिविdiviसूर्यसहस्रस्यsūryasahasrasyaभवेत्bhavetयुगपत्yugapatउत्थिताutthitāयदिyadiभाःbhāḥसदृशीsadṛśīसाsāस्यात्syātभासःbhāsaḥतस्यtasyaमहात्मनःmahātmanaḥ

अन्वय

यदि दिवि सूर्यसहस्रस्य भाः युगपत् उत्थिता भवेत्, सा तस्य महात्मनः भासः सदृशी स्यात् ।

Shloka 11.13

तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा । अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा ॥११-१३॥

पदच्छेद

तत्रtatraएकस्थम्ekasthamजगत्jagatकृत्स्नम्kṛtsnamप्रविभक्तम्pravibhaktamअनेकधाanekadhāअपश्यत्apaśyatदेवदेवस्यdevadevasyaशरीरेśarīreपाण्डवःpāṇḍavaḥतदाtadā

अन्वय

तदा पाण्डवः तत्र देवदेवस्य शरीरे एकस्थम् अनेकधा प्रविभक्तम् कृत्स्नम् जगत् अपश्यत् ।

Shloka 11.14

ततः स विस्मयाविष्टो हृष्टरोमा धनंजयः । प्रणम्य शिरसा देवं कृताञ्जलिरभाषत ॥११-१४॥

पदच्छेद

ततःtataḥसःsaḥविस्मयाविष्टःvismayāviṣṭaḥहृष्टरोमाhṛṣṭaromāधनञ्जयःdhanañjayaḥप्रणम्यpraṇamyaशिरसाśirasāदेवम्devamकृताञ्जलिःkṛtāñjaliḥअभाषतabhāṣata

अन्वय

ततः विस्मयाविष्टः हृष्टरोमा सः धनंजयः शिरसा देवम् प्रणम्य कृताञ्जलिः [सन्] अभाषत ।

Shloka 11.15

अर्जुन उवाच पश्यामि देवांस्तव देव देहे सर्वांस्तथा भूतविशेषसंघान् । ब्रह्माणमीशं कमलासनस्थ- मृषींश्च सर्वानुरगांश्च दिव्यान् ॥११-१५॥

पदच्छेद

अर्जुनःarjunaḥउवाचuvācaपश्यामिpaśyāmiदेवान्devānतवtavaदेवdevaदेहेdeheसर्वान्sarvānतथाtathāभूत-विशेष-संघान्bhūta-viśeṣa-saṃghānब्रह्माणम्brahmāṇamईशम्īśamकमलासनस्थम्kamalāsanasthamऋषीन्ṛṣīnचcaसर्वान्sarvānउरगान्uragānचcaदिव्यान्divyān

अन्वय

अर्जुनः उवाच-देव, तव देहे सर्वान् देवान् तथा भूतविशेषसंघान् ब्रह्माणम् ईशम् कमलासनस्थम् सर्वान् ऋषीन् च दिव्यान् उरगान् च पश्यामि ।

Shloka 11.16

अनेकबाहूदरवक्त्रनेत्रं पश्यामि त्वां सर्वतोऽनन्तरूपम् । नान्तं न मध्यं न पुनस्तवादिं पश्यामि विश्वेश्वर विश्वरूप ॥११-१६॥

पदच्छेद

अनेक-बाहु-उदर-वक्त्र-नेत्रम्aneka-bāhu-udara-vaktra-netramपश्यामिpaśyāmiत्वाम्tvāmसर्वतःsarvataḥअनन्तरूपम्anantarūpamनnaअन्तम्antamनnaमध्यम्madhyamनnaपुनःpunaḥतवtavaआदिम्ādimपश्यामिpaśyāmiविश्वेश्वरviśveśvaraविश्वरूपviśvarūpa

अन्वय

विश्वेश्वर, विश्वरूप, त्वाम् अनेकबाहूदरवक्त्रनेत्रम् सर्वतः अनन्तरूपम् पश्यामि । तव अन्तम् न, मध्यम् न, पुनः आदिम् न पश्यामि ।

Shloka 11.17

किरीटिनं गदिनं चक्रिणं च तेजोराशिं सर्वतो दीप्तिमन्तम् । पश्यामि त्वां दुर्निरीक्ष्यं समन्ता- द्दीप्तानलार्कद्युतिमप्रमेयम् ॥११-१७॥

पदच्छेद

किरीटिनम्kirīṭinamगदिनम्gadinamचक्रिणम्cakriṇamचcaतेजोराशिम्tejorāśimसर्वतःsarvataḥदीप्तिमन्तम्dīptimantamपश्यामिpaśyāmiत्वाम्tvāmदुर्निरीक्ष्यम्durnirīkṣyamसमन्तात्samantātदीप्त-अनल-अर्क-द्युतिम्dīpta-anala-arka-dyutimअप्रमेयम्aprameyam

अन्वय

त्वाम् किरीटिनम् गदिनम् चक्रिणम् च तेजोराशिम् सर्वतः दीप्तिमन्तम् समन्तात् दुर्निरीक्ष्यम् दीप्तानलार्कद्युतिम् अप्रमेयम् पश्यामि ।

Shloka 11.18

त्वमक्षरं परमं वेदितव्यं त्वमस्य विश्वस्य परं निधानम् । त्वमव्ययः शाश्वतधर्मगोप्ता सनातनस्त्वं पुरुषो मतो मे ॥११-१८॥

पदच्छेद

त्वम्tvamअक्षरम्akṣaramपरमम्paramamवेदितव्यम्veditavyamत्वम्tvamअस्यasyaविश्वस्यviśvasyaपरम्paramनिधानम्nidhānamत्वम्tvamअव्ययःavyayaḥशाश्वत-धर्म-गोप्ताśāśvata-dharma-goptāसनातनःsanātanaḥत्वम्tvamपुरुषःpuruṣaḥमतःmataḥमेme

अन्वय

त्वम् परमम् वेदितव्यम् अक्षरम् [असि]; त्वम् अस्य विश्वस्य परम् निधानम् [असि] । त्वम् अव्ययः शाश्वतधर्मगोप्ता [असि]; त्वम् सनातनः पुरुषः मे मतः [असि] ।

Shloka 11.19

अनादिमध्यान्तमनन्तवीर्य- मनन्तबाहुं शशिसूर्यनेत्रम् । पश्यामि त्वां दीप्तहुताशवक्त्रं स्वतेजसा विश्वमिदं तपन्तम् ॥११-१९॥

पदच्छेद

अनादिमध्यान्तम्anādimadhyāntamअनन्तवीर्यम्anantavīryamअनन्तबाहुम्anantabāhumशशि-सूर्य-नेत्रम्śaśi-sūrya-netramपश्यामिpaśyāmiत्वाम्tvāmदीप्त-हुताश-वक्त्रम्dīpta-hutāśa-vaktramस्वतेजसाsvatejasāविश्वम्viśvamइदम्idamतपन्तम्tapantam

अन्वय

त्वाम् अनादिमध्यान्तम् अनन्तवीर्यम् अनन्तबाहुम् शशिसूर्यनेत्रम् दीप्तहुताशवक्त्रम् स्वतेजसा इदम् विश्वम् तपन्तम् पश्यामि ।

Shloka 11.20

द्यावापृथिव्योरिदमन्तरं हि व्याप्तं त्वयैकेन दिशश्च सर्वाः । दृष्ट्वाद्भुतं रूपमुग्रं तवेदं लोकत्रयं प्रव्यथितं महात्मन् ॥११-२०॥

पदच्छेद

द्यावापृथिव्योःdyāvāpṛthivyoḥइदम्idamअन्तरम्antaramहिhiव्याप्तम्vyāptamत्वयाtvayāएकेनekenaदिशःdiśaḥचcaसर्वाःsarvāḥदृष्ट्वाdṛṣṭvāअद्भुतम्adbhutamरूपम्rūpamउग्रम्ugramतवtavaइदम्idamलोकत्रयम्lokatrayamप्रव्यथितम्pravyathitamमहात्मन्mahātman

अन्वय

हि त्वया एकेन इदम् द्यावापृथिव्योः अन्तरम् सर्वाः दिशः च व्याप्तम् [अस्ति] । महात्मन्, तव इदम् अद्भुतम् उग्रम् रूपम् दृष्ट्वा लोकत्रयम् प्रव्यथितम् [अस्ति] ।

Shloka 11.21

अमी हि त्वां सुरसंघा विशन्ति केचिद्भीताः प्राञ्जलयो गृणन्ति । स्वस्तीत्युक्त्वा महर्षिसिद्धसंघाः स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः ॥११-२१॥

पदच्छेद

अमीamīहिhiत्वाम्tvāmसुरसंघाःsurasaṃghāḥविशन्तिviśantiकेचित्kecitभीताःbhītāḥप्राञ्जलयःprāñjalayaḥगृणन्तिgṛṇantiस्वस्तिsvastiइतिitiउक्त्वाuktvāमहर्षि-सिद्ध-संघाःmaharṣi-siddha-saṃghāḥस्तुवन्तिstuvantiत्वाम्tvāmस्तुतिभिःstutibhiḥपुष्कलाभिःpuṣkalābhiḥ

अन्वय

हि अमी सुरसंघाः त्वाम् विशन्ति । केचित् भीताः प्राञ्जलयः [सन्तः] गृणन्ति । महर्षिसिद्धसंघाः स्वस्ति इति उक्त्वा पुष्कलाभिः स्तुतिभिः त्वाम् स्तुवन्ति ।

Shloka 11.22

रुद्रादित्या वसवो ये च साध्या विश्वेऽश्विनौ मरुतश्चोष्मपाश्च । गन्धर्वयक्षासुरसिद्धसंघा वीक्षन्ते त्वां विस्मिताश्चैव सर्वे ॥११-२२॥

पदच्छेद

रुद्र-आदित्याःrudra-ādityāḥवसवःvasavaḥयेyeचcaसाध्याःsādhyāḥविश्वेviśveअश्विनौaśvinauमरुतःmarutaḥचcaउष्मपाःuṣmapāḥचcaगन्धर्व-यक्ष-असुर-सिद्ध-संघाःgandharva-yakṣa-asura-siddha-saṃghāḥवीक्षन्तेvīkṣanteत्वाम्tvāmविस्मिताःvismitāḥचcaएवevaसर्वेsarve

अन्वय

रुद्रादित्याः वसवः ये च साध्याः [सन्ति], विश्वे अश्विनौ मरुतः च उष्मपाः च गन्धर्वयक्षासुरसिद्धसंघाः च एव सर्वे विस्मिताः [सन्तः] त्वाम् वीक्षन्ते ।

Shloka 11.23

रूपं महत्ते बहुवक्त्रनेत्रं महाबाहो बहुबाहूरुपादम् । बहूदरं बहुदंष्ट्राकरालं दृष्ट्वा लोकाः प्रव्यथितास्तथाहम् ॥११-२३॥

पदच्छेद

रूपम्rūpamमहत्mahatतेteबहु-वक्त्र-नेत्रम्bahu-vaktra-netramमहाबाहोmahābāhoबहु-बाहु-ऊरु-पादम्bahu-bāhu-ūru-pādamबहु-उदरम्bahu-udaramबहु-दंष्ट्रा-करालम्bahu-daṃṣṭrā-karālamदृष्ट्वाdṛṣṭvāलोकाःlokāḥप्रव्यथिताःpravyathitāḥतथाtathāअहम्aham

अन्वय

महाबाहो, ते महत् बहुवक्त्रनेत्रम् बहुबाहूरुपादम् बहूदरम् बहुदंष्ट्राकरालम् रूपम् दृष्ट्वा लोकाः प्रव्यथिताः [सन्ति]; तथा अहम् [प्रव्यथितः अस्मि] ।

Shloka 11.24

नभःस्पृशं दीप्तमनेकवर्णं व्यात्ताननं दीप्तविशालनेत्रम् । दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा धृतिं न विन्दामि शमं च विष्णो ॥११-२४॥

पदच्छेद

नभःस्पृशम्nabhaḥspṛśamदीप्तम्dīptamअनेकवर्णम्anekavarṇamव्यात्ताननम्vyāttānanamदीप्त-विशाल-नेत्रम्dīpta-viśāla-netramदृष्ट्वाdṛṣṭvāहिhiत्वाम्tvāmप्रव्यथित-अन्तरात्माpravyathita-antarātmāधृतिम्dhṛtimनnaविन्दामिvindāmiशमम्śamamचcaविष्णोviṣṇo

अन्वय

विष्णो, हि त्वाम् नभःस्पृशम् दीप्तम् अनेकवर्णम् व्यात्ताननम् दीप्तविशालनेत्रम् दृष्ट्वा प्रव्यथितान्तरात्मा [सन्] धृतिम् शमम् च न विन्दामि ।

Shloka 11.25

दंष्ट्राकरालानि च ते मुखानि दृष्ट्वैव कालानलसन्निभानि । दिशो न जाने न लभे च शर्म प्रसीद देवेश जगन्निवास ॥११-२५॥

पदच्छेद

दंष्ट्राकरालानिdaṃṣṭrākarālāniचcaतेteमुखानिmukhāniदृष्ट्वाdṛṣṭvāएवevaकाल-अनल-सन्निभानिkāla-anala-sannibhāniदिशःdiśaḥनnaजानेjāneनnaलभेlabheचcaशर्मśarmaप्रसीदprasīdaदेवेशdeveśaजगन्निवासjagannivāsa

अन्वय

ते दंष्ट्राकरालानि कालानलसन्निभानि मुखानि दृष्ट्वा एव दिशः न जाने, शर्म च न लभे । देवेश, जगन्निवास, प्रसीद ।

Shloka 11.26

अमी च त्वां धृतराष्ट्रस्य पुत्राः सर्वे सहैवावनिपालसंघैः । भीष्मो द्रोणः सूतपुत्रस्तथासौ सहास्मदीयैरपि योधमुख्यैः ॥११-२६॥

पदच्छेद

अमीamīचcaत्वाम्tvāmधृतराष्ट्रस्यdhṛtarāṣṭrasyaपुत्राःputrāḥसर्वेsarveसहsahaएवevaअवनिपालसंघैःavanipālasaṃghaiḥभीष्मःbhīṣmaḥद्रोणःdroṇaḥसूतपुत्रःsūtaputraḥतथाtathāअसौasauसहsahaअस्मदीयैःasmadīyaiḥअपिapiयोधमुख्यैःyodhamukhyaiḥ

अन्वय

अमी सर्वे धृतराष्ट्रस्य पुत्राः अवनिपालसंघैः सह एव च, भीष्मः द्रोणः तथा असौ सूतपुत्रः अस्मदीयैः योधमुख्यैः अपि सह [त्वरामाणाः त्वाम् ते भयानकानि दंष्ट्राकरालानि वक्त्राणि विशन्ति] ।

Shloka 11.27

वक्त्राणि ते त्वरमाणा विशन्ति दंष्ट्राकरालानि भयानकानि । केचिद्विलग्ना दशनान्तरेषु संदृश्यन्ते चूर्णितैरुत्तमाङ्गैः ॥११-२७॥

पदच्छेद

वक्त्राणिvaktrāṇiतेteत्वरमाणाःtvaramāṇāḥविशन्तिviśantiदंष्ट्राकरालानिdaṃṣṭrākarālāniभयानकानिbhayānakāniकेचित्kecitविलग्नाःvilagnāḥदशनान्तरेषुdaśanāntareṣuसंदृश्यन्तेsaṃdṛśyanteचूर्णितैःcūrṇitaiḥउत्तमाङ्गैःuttamāṅgaiḥ

अन्वय

[अमी सर्वे धृतराष्ट्रस्य पुत्राः भीष्मः द्रोणः असौ सूतपुत्रः अवनिपालसंघैः अस्मदीयैः योधमुख्यैः च सह] त्वरमाणाः ते दंष्ट्राकरालानि भयानकानि वक्त्राणि विशन्ति । केचित् दशनान्तरेषु विलग्नाः चूर्णितैः उत्तमाङ्गैः संदृश्यन्ते ।

Shloka 11.28

यथा नदीनां बहवोऽम्बुवेगाः समुद्रमेवाभिमुखा द्रवन्ति । तथा तवामी नरलोकवीरा विशन्ति वक्त्राण्यभिविज्वलन्ति ॥११-२८॥

पदच्छेद

यथाyathāनदीनाम्nadīnāmबहवःbahavaḥअम्बुवेगाःambuvegāḥसमुद्रम्samudramएवevaअभिमुखाःabhimukhāḥद्रवन्तिdravantiतथाtathāतवtavaअमीamīनरलोकवीराःnaralokavīrāḥविशन्तिviśantiवक्त्राणिvaktrāṇiअभिविज्वलन्तिabhivijvalanti

अन्वय

यथा नदीनाम् बहवः अम्बुवेगाः समुद्रम् एव अभिमुखाः द्रवन्ति, तथा अमी नरलोकवीराः तव अभिविज्वलन्ति वक्त्राणि विशन्ति ।

Shloka 11.29

यथा प्रदीप्तं ज्वलनं पतङ्गा विशन्ति नाशाय समृद्धवेगाः । तथैव नाशाय विशन्ति लोका- स्तवापि वक्त्राणि समृद्धवेगाः ॥११-२९॥

पदच्छेद

यथाyathāप्रदीप्तम्pradīptamज्वलनम्jvalanamपतङ्गाःpataṅgāḥविशन्तिviśantiनाशायnāśāyaसमृद्धवेगाःsamṛddhavegāḥतथाtathāएवevaनाशायnāśāyaविशन्तिviśantiलोकाःlokāḥतवtavaअपिapiवक्त्राणिvaktrāṇiसमृद्धवेगाःsamṛddhavegāḥ

अन्वय

यथा समृद्धवेगाः पतङ्गाः नाशाय प्रदीप्तम् ज्वलनम् विशन्ति, तथा एव समृद्धवेगाः लोकाः अपि नाशाय तव वक्त्राणि विशन्ति ।

Shloka 11.30

लेलिह्यसे ग्रसमानः समन्ता- ल्लोकान्समग्रान्वदनैर्ज्वलद्भिः । तेजोभिरापूर्य जगत्समग्रं भासस्तवोग्राः प्रतपन्ति विष्णो ॥११-३०॥

पदच्छेद

लेलिह्यसेlelihyaseग्रसमानःgrasamānaḥसमन्तात्samantātलोकान्lokānसमग्रान्samagrānवदनैःvadanaiḥज्वलद्भिःjvaladbhiḥतेजोभिःtejobhiḥआपूर्यāpūryaजगत्jagatसमग्रम्samagramभासःbhāsaḥतवtavaउग्राःugrāḥप्रतपन्तिpratapantiविष्णोviṣṇo

अन्वय

ज्वलद्भिः वदनैः समन्तात् समग्रान् लोकान् ग्रसमानः [त्वम्] लेलिह्यसे । विष्णो, तव उग्राः भासः तेजोभिः समग्रम् जगत् आपूर्य प्रतपन्ति ।

Shloka 11.31

आख्याहि मे को भवानुग्ररूपो नमोऽस्तु ते देववर प्रसीद । विज्ञातुमिच्छामि भवन्तमाद्यं न हि प्रजानामि तव प्रवृत्तिम् ॥११-३१॥

पदच्छेद

आख्याहिākhyāhiमेmeकःkaḥभवान्bhavānउग्ररूपःugrarūpaḥनमःnamaḥअस्तुastuतेteदेववरdevavaraप्रसीदprasīdaविज्ञातुम्vijñātumइच्छामिicchāmiभवन्तम्bhavantamआद्यम्ādyamनnaहिhiप्रजानामिprajānāmiतवtavaप्रवृत्तिम्pravṛttim

अन्वय

देववर, मे आख्याहि-उग्ररूपः भवान् कः [अस्ति]? ते नमः अस्तु; प्रसीद । आद्यम् भवन्तम् विज्ञातुम् इच्छामि; हि तव प्रवृत्तिम् न प्रजानामि ।

Shloka 11.32

श्रीभगवानुवाच कालोऽस्मि लोकक्षयकृत्प्रवृद्धो लोकान्समाहर्तुमिह प्रवृत्तः । ऋतेऽपि त्वां न भविष्यन्ति सर्वे येऽवस्थिताः प्रत्यनीकेषु योधाः ॥११-३२॥

पदच्छेद

श्रीभगवान्śrībhagavānउवाचuvācaकालःkālaḥअस्मिasmiलोक-क्षय-कृत्loka-kṣaya-kṛtप्रवृद्धःpravṛddhaḥलोकान्lokānसमाहर्तुम्samāhartumइहihaप्रवृत्तःpravṛttaḥऋतेṛteअपिapiत्वाम्tvāmनnaभविष्यन्तिbhaviṣyantiसर्वेsarveयेyeअवस्थिताःavasthitāḥप्रत्यनीकेषुpratyanīkeṣuयोधाःyodhāḥ

अन्वय

श्रीभगवान् उवाच-प्रवृद्धः लोकक्षयकृत् कालः अस्मि; इह लोकान् समाहर्तुम् प्रवृत्तः [अस्मि] । ये योधाः प्रत्यनीकेषु अवस्थिताः [सन्ति], ते सर्वे त्वाम् ऋते अपि न भविष्यन्ति ।

Shloka 11.33

तस्मात्त्वमुत्तिष्ठ यशो लभस्व जित्वा शत्रून् भुङ्क्ष्व राज्यं समृद्धम् । मयैवैते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन् ॥११-३३॥

पदच्छेद

तस्मात्tasmātत्वम्tvamउत्तिष्ठuttiṣṭhaयशःyaśaḥलभस्वlabhasvaजित्वाjitvāशत्रून्śatrūnभुङ्क्ष्वbhuṅkṣvaराज्यम्rājyamसमृद्धम्samṛddhamमयाmayāएवevaएतेeteनिहताःnihatāḥपूर्वम्pūrvamएवevaनिमित्तमात्रम्nimittamātramभवbhavaसव्यसाचिन्savyasācin

अन्वय

तस्मात् त्वम् उत्तिष्ठ; यशः लभस्व; शत्रून् जित्वा समृद्धम् राज्यम् भुङ्क्ष्व । एते मया एव पूर्वम् एव निहताः [सन्ति]; सव्यसाचिन्, निमित्तमात्रम् भव ।

Shloka 11.34

द्रोणं च भीष्मं च जयद्रथं च कर्णं तथान्यानपि योधवीरान् । मया हतांस्त्वं जहि मा व्यथिष्ठा युध्यस्व जेतासि रणे सपत्नान् ॥११-३४॥

पदच्छेद

द्रोणम्droṇamचcaभीष्मम्bhīṣmamचcaजयद्रथम्jayadrathamचcaकर्णम्karṇamतथाtathāअन्यान्anyānअपिapiयोधवीरान्yodhavīrānमयाmayāहतान्hatānत्वम्tvamजहिjahiमाmāव्यथिष्ठाःvyathiṣṭhāḥयुध्यस्वyudhyasvaजेताjetāअसिasiरणेraṇeसपत्नान्sapatnān

अन्वय

मया हतान् द्रोणम् च भीष्मम् च जयद्रथम् च कर्णम् तथा अन्यान् योधवीरान् अपि त्वम् जहि । मा व्यथिष्ठाः; युध्यस्व; रणे सपत्नान् जेता असि ।

Shloka 11.35

सञ्जय उवाच एतच्छ्रुत्वा वचनं केशवस्य कृताञ्जलिर्वेपमानः किरीटी । नमस्कृत्वा भूय एवाह कृष्णं सगद्गदं भीतभीतः प्रणम्य ॥११-३५॥

पदच्छेद

सञ्जयःsañjayaḥउवाचuvācaएतत्etatश्रुत्वाśrutvāवचनम्vacanamकेशवस्यkeśavasyaकृताञ्जलिःkṛtāñjaliḥवेपमानःvepamānaḥकिरीटीkirīṭīनमस्कृत्वाnamaskṛtvāभूयःbhūyaḥएवevaआहāhaकृष्णम्kṛṣṇamसगद्गदम्sagadgadamभीतभीतःbhītabhītaḥप्रणम्यpraṇamya

अन्वय

सञ्जयः उवाच-केशवस्य एतत् वचनम् श्रुत्वा कृताञ्जलिः वेपमानः भीतभीतः किरीटी प्रणम्य कृष्णम् नमस्कृत्वा भूयः एव सगद्गदम् आह ।

Shloka 11.36

अर्जुन उवाच स्थाने हृषीकेश तव प्रकीर्त्या जगत्प्रहृष्यत्यनुरज्यते च । रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्धसंघाः ॥११-३६॥

पदच्छेद

अर्जुनःarjunaḥउवाचuvācaस्थानेsthāneहृषीकेशhṛṣīkeśaतवtavaप्रकीर्त्याprakīrtyāजगत्jagatप्रहृष्यतिprahṛṣyatiअनुरज्यतेanurajyateचcaरक्षांसिrakṣāṃsiभीतानिbhītāniदिशःdiśaḥद्रवन्तिdravantiसर्वेsarveनमस्यन्तिnamasyantiचcaसिद्धसंघाःsiddhasaṃghāḥ

अन्वय

अर्जुनः उवाच-हृषीकेश, स्थाने तव प्रकीर्त्या जगत् प्रहृष्यति अनुरज्यते च; भीतानि रक्षांसि दिशः द्रवन्ति; सर्वे सिद्धसंघाः च नमस्यन्ति ।

Shloka 11.37

कस्माच्च ते न नमेरन्महात्मन् गरीयसे ब्रह्मणोऽप्यादिकर्त्रे । अनन्त देवेश जगन्निवास त्वमक्षरं सदसत्तत्परं यत् ॥११-३७॥

पदच्छेद

कस्मात्kasmātचcaतेteनnaनमेरन्nameranमहात्मन्mahātmanगरीयसेgarīyaseब्रह्मणःbrahmaṇaḥअपिapiआदिकर्त्रेādikartreअनन्तanantaदेवेशdeveśaजगन्निवासjagannivāsaत्वम्tvamअक्षरम्akṣaramसत्satअसत्asatतत्परम्tatparamयत्yat

अन्वय

महात्मन्, ब्रह्मणः अपि गरीयसे आदिकर्त्रे ते [सिद्धसङ्घाः] कस्मात् च न नमेरन्? अनन्त, देवेश, जगन्निवास, त्वम् अक्षरम् [असि]; सत् असत् [च त्वम् असि]; यत् तत्परम् [अस्ति, तत् अपि त्वम् असि] ।

Shloka 11.38

त्वमादिदेवः पुरुषः पुराण- स्त्वमस्य विश्वस्य परं निधानम् । वेत्तासि वेद्यं च परं च धाम त्वया ततं विश्वमनन्तरूप ॥११-३८॥

पदच्छेद

त्वम्tvamआदिदेवःādidevaḥपुरुषःpuruṣaḥपुराणःpurāṇaḥत्वम्tvamअस्यasyaविश्वस्यviśvasyaपरम्paramनिधानम्nidhānamवेत्ताvettāअसिasiवेद्यम्vedyamचcaपरम्paramचcaधामdhāmaत्वयाtvayāततम्tatamविश्वम्viśvamअनन्तरूपanantarūpa

अन्वय

त्वम् आदिदेवः पुराणः पुरुषः [असि]; त्वम् अस्य विश्वस्य परम् निधानम् [असि] । वेत्ता असि, वेद्यम् च परम् धाम च [असि] । अनन्तरूप, त्वया विश्वम् ततम् [अस्ति] ।

Shloka 11.39

वायुर्यमोऽग्निर्वरुणः शशाङ्कः प्रजापतिस्त्वं प्रपितामहश्च । नमो नमस्तेऽस्तु सहस्रकृत्वः पुनश्च भूयोऽपि नमो नमस्ते ॥११-३९॥

पदच्छेद

वायुःvāyuḥयमःyamaḥअग्निःagniḥवरुणःvaruṇaḥशशाङ्कःśaśāṅkaḥप्रजापतिःprajāpatiḥत्वम्tvamप्रपितामहःprapitāmahaḥचcaनमःnamaḥनमःnamaḥतेteअस्तुastuसहस्रकृत्वःsahasrakṛtvaḥपुनःpunaḥचcaभूयःbhūyaḥअपिapiनमःnamaḥनमःnamaḥतेte

अन्वय

त्वम् वायुः यमः अग्निः वरुणः शशाङ्कः प्रजापतिः प्रपितामहः च [असि] । ते सहस्रकृत्वः नमः नमः अस्तु; पुनः च भूयः अपि ते नमः नमः [अस्तु] ।

Shloka 11.40

नमः पुरस्तादथ पृष्ठतस्ते नमोऽस्तु ते सर्वत एव सर्व । अनन्तवीर्यामितविक्रमस्त्वं सर्वं समाप्नोषि ततोऽसि सर्वः ॥११-४०॥

पदच्छेद

नमःnamaḥपुरस्तात्purastātअथathaपृष्ठतःpṛṣṭhataḥतेteनमःnamaḥअस्तुastuतेteसर्वतःsarvataḥएवevaसर्वsarvaअनन्तवीर्यanantavīryaअमितविक्रमःamitavikramaḥत्वम्tvamसर्वम्sarvamसमाप्नोषिsamāpnoṣiततःtataḥअसिasiसर्वःsarvaḥ

अन्वय

सर्व, ते पुरस्तात् नमः [अस्तु], अथ पृष्ठतः [नमः अस्तु]; ते सर्वतः एव नमः अस्तु । अनन्तवीर्य, त्वम् अमितविक्रमः [असि]; सर्वम् समाप्नोषि, ततः सर्वः असि ।

Shloka 11.41

सखेति मत्वा प्रसभं यदुक्तं हे कृष्ण हे यादव हे सखेति । अजानता महिमानं तवेदं मया प्रमादात्प्रणयेन वापि ॥११-४१॥

पदच्छेद

सखाsakhāइतिitiमत्वाmatvāप्रसभम्prasabhamयत्yatउक्तम्uktamहेheकृष्णkṛṣṇaहेheयादवyādavaहेheसखेsakheइतिitiअजानताajānatāमहिमानम्mahimānamतवtavaइदम्idamमयाmayāप्रमादात्pramādātप्रणयेनpraṇayenaवाvāअपिapi

अन्वय

तव इदम् महिमानम् अजानता मया सखा इति मत्वा प्रमादात् प्रणयेन वा अपि हे कृष्ण, हे यादव, हे सखे इति यत् प्रसभम् उक्तम् [अस्ति], [तत् अहम् त्वाम् क्षामये] ।

Shloka 11.42

यच्चावहासार्थमसत्कृतोऽसि विहारशय्यासनभोजनेषु । एकोऽथवाप्यच्युत तत्समक्षं तत्क्षामये त्वामहमप्रमेयम् ॥११-४२॥

पदच्छेद

यत्yatचcaअवहासार्थम्avahāsārthamअसत्कृतःasatkṛtaḥअसिasiविहार-शय्या-आसन-भोजनेषुvihāra-śayyā-āsana-bhojaneṣuएकःekaḥअथवाathavāअपिapiअच्युतacyutaतत्समक्षम्tatsamakṣamतत्tatक्षामयेkṣāmayeत्वाम्tvāmअहम्ahamअप्रमेयम्aprameyam

अन्वय

अच्युत, विहारशय्यासनभोजनेषु एकः अथवा अपि तत्समक्षम् यत् च [मया] अवहासार्थम् असत्कृतः असि, तत् [तथा पूर्वोक्तम् अपराधजातम्] अहम् अप्रमेयम् त्वाम् क्षामये ।

Shloka 11.43

पितासि लोकस्य चराचरस्य त्वमस्य पूज्यश्च गुरुर्गरीयान् । न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो लोकत्रयेऽप्यप्रतिमप्रभाव ॥११-४३॥

पदच्छेद

पिताpitāअसिasiलोकस्यlokasyaचराचरस्यcarācarasyaत्वम्tvamअस्यasyaपूज्यःpūjyaḥचcaगुरुःguruḥगरीयान्garīyānनnaत्वत्समःtvatsamaḥअस्तिastiअभ्यधिकःabhyadhikaḥकुतःkutaḥअन्यःanyaḥलोकत्रयेlokatrayeअपिapiअप्रतिमप्रभावapratimaprabhāva

अन्वय

त्वम् अस्य चराचरस्य लोकस्य पिता असि; पूज्यः च गरीयान् गुरुः [असि] । अप्रतिमप्रभाव, लोकत्रये अपि त्वत्समः न अस्ति; अन्यः अभ्यधिकः कुतः [स्यात्]?

Shloka 11.44

तस्मात्प्रणम्य प्रणिधाय कायं प्रसादये त्वामहमीशमीड्यम् । पितेव पुत्रस्य सखेव सख्युः प्रियः प्रियायार्हसि देव सोढुम् ॥११-४४॥

पदच्छेद

तस्मात्tasmātप्रणम्यpraṇamyaप्रणिधायpraṇidhāyaकायम्kāyamप्रसादयेprasādayeत्वाम्tvāmअहम्ahamईशम्īśamईड्यम्īḍyamपिताpitāइवivaपुत्रस्यputrasyaसखाsakhāइवivaसख्युःsakhyuḥप्रियःpriyaḥप्रियायाःpriyāyāḥअर्हसिarhasiदेवdevaसोढुम्soḍhum

अन्वय

तस्मात् कायम् प्रणिधाय प्रणम्य अहम् ईड्यम् ईशम् त्वाम् प्रसादये । देव, पिता पुत्रस्य [अपराधम्] इव, सखा सख्युः [अपराधम्] इव, प्रियः प्रियायाः [अपराधम्] इव [मम अपराधम्] सोढुम् अर्हसि ।

Shloka 11.45

अदृष्टपूर्वं हृषितोऽस्मि दृष्ट्वा भयेन च प्रव्यथितं मनो मे । तदेव मे दर्शय देव रूपं प्रसीद देवेश जगन्निवास ॥११-४५॥

पदच्छेद

अदृष्टपूर्वम्adṛṣṭapūrvamहृषितःhṛṣitaḥअस्मिasmiदृष्ट्वाdṛṣṭvāभयेनbhayenaचcaप्रव्यथितम्pravyathitamमनःmanaḥमेmeतत्tatएवevaमेmeदर्शयdarśayaदेवdevaरूपम्rūpamप्रसीदprasīdaदेवेशdeveśaजगन्निवासjagannivāsa

अन्वय

अदृष्टपूर्वम् [रूपम्] दृष्ट्वा हृषितः अस्मि; मे मनः भयेन च प्रव्यथितम् [अस्ति] । देव, तत् एव रूपम् मे दर्शय; देवेश, जगन्निवास, प्रसीद ।

Shloka 11.46

किरीटिनं गदिनं चक्रहस्त- मिच्छामि त्वां द्रष्टुमहं तथैव । तेनैव रूपेण चतुर्भुजेन सहस्रबाहो भव विश्वमूर्ते ॥११-४६॥

पदच्छेद

किरीटिनम्kirīṭinamगदिनम्gadinamचक्रहस्तम्cakrahastamइच्छामिicchāmiत्वाम्tvāmद्रष्टुम्draṣṭumअहम्ahamतथाtathāएवevaतेनtenaएवevaरूपेणrūpeṇaचतुर्भुजेनcaturbhujenaसहस्रबाहोsahasrabāhoभवbhavaविश्वमूर्तेviśvamūrte

अन्वय

सहस्रबाहो, विश्वमूर्ते, त्वाम् तथा एव किरीटिनम् गदिनम् चक्रहस्तम् द्रष्टुम् अहम् इच्छामि । तेन एव चतुर्भुजेन रूपेण भव ।

Shloka 11.47

श्रीभगवानुवाच मया प्रसन्नेन तवार्जुनेदं रूपं परं दर्शितमात्मयोगात् । तेजोमयं विश्वमनन्तमाद्यं यन्मे त्वदन्येन न दृष्टपूर्वम् ॥११-४७॥

पदच्छेद

श्रीभगवान्śrībhagavānउवाचuvācaमयाmayāप्रसन्नेनprasannenaतवtavaअर्जुनarjunaइदम्idamरूपम्rūpamपरम्paramदर्शितम्darśitamआत्मयोगात्ātmayogātतेजोमयम्tejomayamविश्वम्viśvamअनन्तम्anantamआद्यम्ādyamयत्yatमेmeत्वत्tvatअन्येनanyenaनnaदृष्टपूर्वम्dṛṣṭapūrvam

अन्वय

श्रीभगवान् उवाच-अर्जुन, प्रसन्नेन मया आत्मयोगात् तव इदम् परम् तेजोमयम् विश्वम् अनन्तम् आद्यम् रूपम् दर्शितम् [अस्ति], यत् मे त्वदन्येन न दृष्टपूर्वम् [अस्ति] ।

Shloka 11.48

न वेदयज्ञाध्ययनैर्न दानै- र्न च क्रियाभिर्न तपोभिरुग्रैः । एवंरूपः शक्य अहं नृलोके द्रष्टुं त्वदन्येन कुरुप्रवीर ॥११-४८॥

पदच्छेद

नnaवेद-यज्ञ-अध्ययनैःveda-yajña-adhyayanaiḥनnaदानैःdānaiḥनnaचcaक्रियाभिःkriyābhiḥनnaतपोभिःtapobhiḥउग्रैःugraiḥएवम्evamरूपःrūpaḥशक्यःśakyaḥअहम्ahamनृलोकेnṛlokeद्रष्टुम्draṣṭumत्वत्tvatअन्येनanyenaकुरुप्रवीरkurupravīra

अन्वय

कुरुप्रवीर, एवंरूपः अहम् नृलोके त्वदन्येन वेदयज्ञाध्ययनैः न, दानैः न, क्रियाभिः च न, उग्रैः तपोभिः न द्रष्टुम् शक्यः [अस्मि] ।

Shloka 11.49

मा ते व्यथा मा च विमूढभावो दृष्ट्वा रूपं घोरमीदृङ्ममेदम् । व्यपेतभीः प्रीतमनाः पुनस्त्वं तदेव मे रूपमिदं प्रपश्य ॥११-४९॥

पदच्छेद

माmāतेteव्यथाvyathāमाmāचcaविमूढभावःvimūḍhabhāvaḥदृष्ट्वाdṛṣṭvāरूपम्rūpamघोरम्ghoramईदृक्īdṛkममmamaइदम्idamव्यपेतभीःvyapetabhīḥप्रीतमनाःprītamanāḥपुनःpunaḥत्वम्tvamतत्tatएवevaमेmeरूपम्rūpamइदम्idamप्रपश्यprapaśya

अन्वय

मम इदम् ईदृक् घोरम् रूपम् दृष्ट्वा ते व्यथा मा [अस्तु], विमूढभावः च मा [अस्तु] । व्यपेतभीः प्रीतमनाः [सन्] पुनः त्वम् तत् एव मे इदम् रूपम् प्रपश्य ।

Shloka 11.50

सञ्जय उवाच इत्यर्जुनं वासुदेवस्तथोक्त्वा स्वकं रूपं दर्शयामास भूयः । आश्वासयामास च भीतमेनं भूत्वा पुनः सौम्यवपुर्महात्मा ॥११-५०॥

पदच्छेद

सञ्जयःsañjayaḥउवाचuvācaइतिitiअर्जुनम्arjunamवासुदेवःvāsudevaḥतथाtathāउक्त्वाuktvāस्वकम्svakamरूपम्rūpamदर्शयामासdarśayāmāsaभूयःbhūyaḥआश्वासयामासāśvāsayāmāsaचcaभीतम्bhītamएनम्enamभूत्वाbhūtvāपुनःpunaḥसौम्यवपुःsaumyavapuḥमहात्माmahātmā

अन्वय

सञ्जयः उवाच-वासुदेवः इति अर्जुनम् तथा उक्त्वा भूयः स्वकम् रूपम् दर्शयामास । महात्मा पुनः सौम्यवपुः भूत्वा भीतम् एनम् आश्वासयामास च ।

Shloka 11.51

अर्जुन उवाच दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन । इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः ॥११-५१॥

पदच्छेद

अर्जुनःarjunaḥउवाचuvācaदृष्ट्वाdṛṣṭvāइदम्idamमानुषम्mānuṣamरूपम्rūpamतवtavaसौम्यम्saumyamजनार्दनjanārdanaइदानीम्idānīmअस्मिasmiसंवृत्तःsaṃvṛttaḥसचेताःsacetāḥप्रकृतिम्prakṛtimगतःgataḥ

अन्वय

अर्जुनः उवाच-जनार्दन, तव इदम् सौम्यम् मानुषम् रूपम् दृष्ट्वा इदानीम् सचेताः संवृत्तः प्रकृतिम् गतः अस्मि ।

Shloka 11.52

श्रीभगवानुवाच सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम । देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः ॥११-५२॥

पदच्छेद

श्रीभगवान्śrībhagavānउवाचuvācaसुदुर्दर्शम्sudurdarśamइदम्idamरूपम्rūpamदृष्टवान्dṛṣṭavānअसिasiयत्yatममmamaदेवाःdevāḥअपिapiअस्यasyaरूपस्यrūpasyaनित्यम्nityamदर्शनकाङ्क्षिणःdarśanakāṅkṣiṇaḥ

अन्वय

श्रीभगवान् उवाच-यत् मम इदम् रूपम् दृष्टवान् असि, [तत्] सुदुर्दर्शम् [अस्ति] । देवाः अपि अस्य रूपस्य नित्यम् दर्शनकाङ्क्षिणः [सन्ति] ।

Shloka 11.53

नाहं वेदैर्न तपसा न दानेन न चेज्यया । शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा ॥११-५३॥

पदच्छेद

नnaअहम्ahamवेदैःvedaiḥनnaतपसाtapasāनnaदानेनdānenaनnaचcaइज्ययाijyayāशक्यःśakyaḥएवम्evamविधःvidhaḥद्रष्टुम्draṣṭumदृष्टवान्dṛṣṭavānअसिasiमाम्māmयथाyathā

अन्वय

माम् यथा दृष्टवान् असि, एवंविधः अहम् वेदैः न, तपसा न, दानेन न, इज्यया च न द्रष्टुम् शक्यः [अस्मि] ।

Shloka 11.54

भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन । ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परंतप ॥११-५४॥

पदच्छेद

भक्त्याbhaktyāतुtuअनन्ययाananyayāशक्यःśakyaḥअहम्ahamएवम्evamविधःvidhaḥअर्जुनarjunaज्ञातुम्jñātumद्रष्टुम्draṣṭumचcaतत्त्वेनtattvenaप्रवेष्टुम्praveṣṭumचcaपरन्तपparantapa

अन्वय

अर्जुन, परन्तप, एवंविधः अहम् अनन्यया भक्त्या तु तत्त्वेन ज्ञातुम् द्रष्टुम् च प्रवेष्टुम् च शक्यः [अस्मि] ।

Shloka 11.55

मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः । निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव ॥११-५५॥

पदच्छेद

मत्-कर्मकृत्mat-karmakṛtमत्परमःmatparamaḥमत्-भक्तःmat-bhaktaḥसङ्गवर्जितःsaṅgavarjitaḥनिर्वैरःnirvairaḥसर्वभूतेषुsarvabhūteṣuयःyaḥसःsaḥमाम्māmएतिetiपाण्डवpāṇḍava

अन्वय

पाण्डव, यः मत्कर्मकृत् मत्परमः मद्भक्तः सङ्गवर्जितः सर्वभूतेषु निर्वैरः [अस्ति], सः माम् एति ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Chapters

Chapter 11 · Shlokas

Choose a number to read.

Read the whole chapter →