Sunday Meditation· Open to Everyone

दैवासुरसम्पद्विभागयोगः

संस्कृत

Shloka 16.1

श्रीभगवानुवाच अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः । दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ॥१६-१॥

पदच्छेद

श्रीभगवान्śrībhagavānउवाचuvācaअभयम्abhayamसत्त्व-संशुद्धिःsattva-saṃśuddhiḥज्ञान-योग-व्यवस्थितिःjñāna-yoga-vyavasthitiḥदानम्dānamदमःdamaḥचcaयज्ञःyajñaḥचcaस्वाध्यायःsvādhyāyaḥतपःtapaḥआर्जवम्ārjavam

अन्वय

श्रीभगवान् उवाच-अभयम् सत्त्वसंशुद्धिः ज्ञानयोगव्यवस्थितिः दानम् दमः च यज्ञः च स्वाध्यायः तपः आर्जवम् [भारत, दैवीम् संपदम् अभिजातस्य भवन्ति] ।

Shloka 16.2

अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् । दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम् ॥१६-२॥

पदच्छेद

अहिंसाahiṃsāसत्यम्satyamअक्रोधःakrodhaḥत्यागःtyāgaḥशान्तिःśāntiḥअपैशुनम्apaiśunamदयाdayāभूतेषुbhūteṣuअलोलुप्त्वम्aloluptvamमार्दवम्mārdavamह्रीःhrīḥअचापलम्acāpalam

अन्वय

अहिंसा सत्यम् अक्रोधः त्यागः शान्तिः अपैशुनम् भूतेषु दया अलोलुप्त्वम् मार्दवम् ह्रीः अचापलम् [भारत, दैवीम् संपदम् अभिजातस्य भवन्ति] ।

Shloka 16.3

तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता । भवन्ति संपदं दैवीमभिजातस्य भारत ॥१६-३॥

पदच्छेद

तेजःtejaḥक्षमाkṣamāधृतिःdhṛtiḥशौचम्śaucamअद्रोहःadrohaḥनnaअतिमानिताatimānitāभवन्तिbhavantiसंपदम्saṃpadamदैवीम्daivīmअभिजातस्यabhijātasyaभारतbhārata

अन्वय

भारत, तेजः क्षमा धृतिः शौचम् अद्रोहः न अतिमानिता [च, पूर्वोक्ताः गुणाः च] दैवीम् संपदम् अभिजातस्य भवन्ति ।

Shloka 16.4

दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च । अज्ञानं चाभिजातस्य पार्थ संपदमासुरीम् ॥१६-४॥

पदच्छेद

दम्भःdambhaḥदर्पःdarpaḥअभिमानःabhimānaḥचcaक्रोधःkrodhaḥपारुष्यम्pāruṣyamएवevaचcaअज्ञानम्ajñānamचcaअभिजातस्यabhijātasyaपार्थpārthaसंपदम्saṃpadamआसुरीम्āsurīm

अन्वय

पार्थ, दम्भः दर्पः अभिमानः च क्रोधः पारुष्यम् एव च अज्ञानम् च आसुरीम् संपदम् अभिजातस्य [भवन्ति] ।

Shloka 16.5

दैवी संपद्विमोक्षाय निबन्धायासुरी मता । मा शुचः संपदं दैवीमभिजातोऽसि पाण्डव ॥१६-५॥

पदच्छेद

दैवीdaivīसंपत्saṃpatविमोक्षायvimokṣāyaनिबन्धायnibandhāyaआसुरीāsurīमताmatāमाmāशुचःśucaḥसंपदम्saṃpadamदैवीम्daivīmअभिजातःabhijātaḥअसिasiपाण्डवpāṇḍava

अन्वय

दैवी संपत् विमोक्षाय [मता अस्ति]; आसुरी [संपत्] निबन्धाय मता [अस्ति] । पाण्डव, मा शुचः; [त्वम्] दैवीम् संपदम् अभिजातः असि ।

Shloka 16.6

द्वौ भूतसर्गौ लोकेऽस्मिन्दैव आसुर एव च । दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृणु ॥१६-६॥

पदच्छेद

द्वौdvauभूत-सर्गौbhūta-sargauलोकेlokeअस्मिन्asminदैवःdaivaḥआसुरःāsuraḥएवevaचcaदैवःdaivaḥविस्तरशःvistaraśaḥप्रोक्तःproktaḥआसुरम्āsuramपार्थpārthaमेmeशृणुśṛṇu

अन्वय

पार्थ, अस्मिन् लोके द्वौ भूतसर्गौ [स्तः]-दैवः आसुरः एव च । दैवः विस्तरशः प्रोक्तः [अस्ति]; आसुरम् मे शृणु ।

Shloka 16.7

प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः । न शौचं नापि चाचारो न सत्यं तेषु विद्यते ॥१६-७॥

पदच्छेद

प्रवृत्तिम्pravṛttimचcaनिवृत्तिम्nivṛttimचcaजनाःjanāḥनnaविदुःviduḥआसुराःāsurāḥनnaशौचम्śaucamनnaअपिapiचcaआचारःācāraḥनnaसत्यम्satyamतेषुteṣuविद्यतेvidyate

अन्वय

आसुराः जनाः प्रवृत्तिम् च निवृत्तिम् च न विदुः । तेषु शौचम् न [विद्यते], आचारः अपि च न [विद्यते], सत्यम् न विद्यते ।

Shloka 16.8

असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् । अपरस्परसंभूतं किमन्यत्कामहैतुकम् ॥१६-८॥

पदच्छेद

असत्यम्asatyamअप्रतिष्ठम्apratiṣṭhamतेteजगत्jagatआहुःāhuḥअनीश्वरम्anīśvaramअपरस्पर-संभूतम्aparaspara-saṃbhūtamकिम्kimअन्यत्anyatकाम-हैतुकम्kāma-haitukam

अन्वय

ते जगत् असत्यम् अप्रतिष्ठम् अनीश्वरम् अपरस्परसंभूतम् कामहैतुकम् [इति] आहुः । किम् अन्यत् [जगतः कारणम् अस्ति इति आहुः] ।

Shloka 16.9

एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः । प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः ॥१६-९॥

पदच्छेद

एताम्etāmदृष्टिम्dṛṣṭimअवष्टभ्यavaṣṭabhyaनष्टात्मानःnaṣṭātmānaḥअल्प-बुद्धयःalpa-buddhayaḥप्रभवन्तिprabhavantiउग्र-कर्माणःugra-karmāṇaḥक्षयायkṣayāyaजगतःjagataḥअहिताःahitāḥ

अन्वय

नष्टात्मानः अल्पबुद्धयः उग्रकर्माणः अहिताः एताम् दृष्टिम् अवष्टभ्य जगतः क्षयाय प्रभवन्ति ।

Shloka 16.10

काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः । मोहाद्‌गृहीत्वासद्ग्राहान्प्रवर्तन्तेऽशुचिव्रताः ॥१६-१०॥

पदच्छेद

कामम्kāmamआश्रित्यāśrityaदुष्पूरम्duṣpūramदम्भ-मान-मद-अन्विताःdambha-māna-mada-anvitāḥमोहात्mohātगृहीत्वाgṛhītvāअसद्ग्राहान्asadgrāhānप्रवर्तन्तेpravartanteअशुचि-व्रताःaśuci-vratāḥ

अन्वय

दम्भमानमदान्विताः अशुचिव्रताः दुष्पूरम् कामम् आश्रित्य मोहात् असद्ग्राहान् गृहीत्वा प्रवर्तन्ते ।

Shloka 16.11

चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिताः । कामोपभोगपरमा एतावदिति निश्चिताः ॥१६-११॥

पदच्छेद

चिन्ताम्cintāmअपरिमेयाम्aparimeyāmचcaप्रलयान्ताम्pralayāntāmउपाश्रिताःupāśritāḥकाम-उपभोग-परमाःkāma-upabhoga-paramāḥएतावत्etāvatइतिitiनिश्चिताःniścitāḥ

अन्वय

अपरिमेयाम् प्रलयान्ताम् चिन्ताम् च उपाश्रिताः कामोपभोगपरमाः एतावत् इति निश्चिताः [ते अन्यायेन कामभोगार्थम् अर्थसञ्चयान् ईहन्ते] ।

Shloka 16.12

आशापाशशतैर्बद्धाः कामक्रोधपरायणाः । ईहन्ते कामभोगार्थमन्यायेनार्थसञ्चयान् ॥१६-१२॥

पदच्छेद

आशा-पाश-शतैःāśā-pāśa-śataiḥबद्धाःbaddhāḥकाम-क्रोध-परायणाःkāma-krodha-parāyaṇāḥईहन्तेīhanteकाम-भोग-अर्थम्kāma-bhoga-arthamअन्यायेनanyāyenaअर्थ-सञ्चयान्artha-sañcayān

अन्वय

[अपरिमेयाम् प्रलयान्ताम् चिन्ताम् उपाश्रिताः कामोपभोगपरमाः एतावत् इति निश्चिताः], आशापाशशतैः बद्धाः कामक्रोधपरायणाः कामभोगार्थम् अन्यायेन अर्थसञ्चयान् ईहन्ते ।

Shloka 16.13

इदमद्य मया लब्धमिमं प्राप्स्ये मनोरथम् । इदमस्तीदमपि मे भविष्यति पुनर्धनम् ॥१६-१३॥

पदच्छेद

इदम्idamअद्यadyaमयाmayāलब्धम्labdhamइमम्imamप्राप्स्येprāpsyeमनोरथम्manorathamइदम्idamअस्तिastiइदम्idamअपिapiमेmeभविष्यतिbhaviṣyatiपुनःpunaḥधनम्dhanam

अन्वय

अद्य मया इदम् लब्धम् [अस्ति]; इमम् मनोरथम् प्राप्स्ये । इदम् अस्ति; पुनः इदम् अपि धनम् मे भविष्यति [इति ते चिन्तयन्ति] ।

Shloka 16.14

असौ मया हतः शत्रुर्हनिष्ये चापरानपि । ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी ॥१६-१४॥

पदच्छेद

असौasauमयाmayāहतःhataḥशत्रुःśatruḥहनिष्येhaniṣyeचcaअपरान्aparānअपिapiईश्वरःīśvaraḥअहम्ahamअहम्ahamभोगीbhogīसिद्धःsiddhaḥअहम्ahamबलवान्balavānसुखीsukhī

अन्वय

असौ शत्रुः मया हतः [अस्ति]; अपरान् अपि हनिष्ये च । अहम् ईश्वरः [अस्मि]; अहम् भोगी [अस्मि]; अहम् सिद्धः बलवान् सुखी [अस्मि इति ते चिन्तयन्ति] ।

Shloka 16.15

आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया । यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः ॥१६-१५॥

पदच्छेद

आढ्यःāḍhyaḥअभिजनवान्abhijanavānअस्मिasmiकःkaḥअन्यःanyaḥअस्तिastiसदृशःsadṛśaḥमयाmayāयक्ष्येyakṣyeदास्यामिdāsyāmiमोदिष्येmodiṣyeइतिitiअज्ञान-विमोहिताःajñāna-vimohitāḥ

अन्वय

[अहम्] आढ्यः अभिजनवान् अस्मि; मया सदृशः अन्यः कः अस्ति? यक्ष्ये, दास्यामि, मोदिष्ये इति अज्ञानविमोहिताः [ते कामभोगेषु प्रसक्ताः अशुचौ नरके पतन्ति] ।

Shloka 16.16

अनेकचित्तविभ्रान्ता मोहजालसमावृताः । प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ ॥१६-१६॥

पदच्छेद

अनेक-चित्त-विभ्रान्ताःaneka-citta-vibhrāntāḥमोह-जाल-समावृताःmoha-jāla-samāvṛtāḥप्रसक्ताःprasaktāḥकाम-भोगेषुkāma-bhogeṣuपतन्तिpatantiनरकेnarakeअशुचौaśucau

अन्वय

[इति अज्ञानविमोहिताः], अनेकचित्तविभ्रान्ताः मोहजालसमावृताः कामभोगेषु प्रसक्ताः अशुचौ नरके पतन्ति ।

Shloka 16.17

आत्मसंभाविताः स्तब्धा धनमानमदान्विताः । यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम् ॥१६-१७॥

पदच्छेद

आत्म-संभाविताःātma-saṃbhāvitāḥस्तब्धाःstabdhāḥधन-मान-मद-अन्विताःdhana-māna-mada-anvitāḥयजन्तेyajanteनाम-यज्ञैःnāma-yajñaiḥतेteदम्भेनdambhenaअविधिपूर्वकम्avidhipūrvakam

अन्वय

ते आत्मसंभाविताः स्तब्धाः धनमानमदान्विताः दम्भेन अविधिपूर्वकम् नामयज्ञैः यजन्ते ।

Shloka 16.18

अहंकारं बलं दर्पं कामं क्रोधं च संश्रिताः । मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः ॥१६-१८॥

पदच्छेद

अहंकारम्ahaṃkāramबलम्balamदर्पम्darpamकामम्kāmamक्रोधम्krodhamचcaसंश्रिताःsaṃśritāḥमाम्māmआत्म-पर-देहेषुātma-para-deheṣuप्रद्विषन्तःpradviṣantaḥअभ्यसूयकाःabhyasūyakāḥ

अन्वय

अहंकारम् बलम् दर्पम् कामम् क्रोधम् च संश्रिताः, आत्मपरदेहेषु माम् प्रद्विषन्तः अभ्यसूयकाः [ये सन्ति, तान् अहम् आसुरीषु एव योनिषु अजस्रम् क्षिपामि] ।

Shloka 16.19

तानहं द्विषतः क्रूरान्संसारेषु नराधमान् । क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ॥१६-१९॥

पदच्छेद

तान्tānअहम्ahamद्विषतःdviṣataḥक्रूरान्krūrānसंसारेषुsaṃsāreṣuनराधमान्narādhamānक्षिपामिkṣipāmiअजस्रम्ajasramअशुभान्aśubhānआसुरीषुāsurīṣuएवevaयोनिषुyoniṣu

अन्वय

अहम् तान् द्विषतः क्रूरान् नराधमान् अशुभान् संसारेषु आसुरीषु एव योनिषु अजस्रम् क्षिपामि ।

Shloka 16.20

आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि । मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ॥१६-२०॥

पदच्छेद

आसुरीम्āsurīmयोनिम्yonimआपन्नाःāpannāḥमूढाःmūḍhāḥजन्मनिjanmaniजन्मनिjanmaniमाम्māmअप्राप्यaprāpyaएवevaकौन्तेयkaunteyaततःtataḥयान्तिyāntiअधमाम्adhamāmगतिम्gatim

अन्वय

कौन्तेय, जन्मनि जन्मनि आसुरीम् योनिम् आपन्नाः मूढाः माम् अप्राप्य एव ततः अधमाम् गतिम् यान्ति ।

Shloka 16.21

त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः । कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् ॥१६-२१॥

पदच्छेद

त्रिविधम्trividhamनरकस्यnarakasyaइदम्idamद्वारम्dvāramनाशनम्nāśanamआत्मनःātmanaḥकामःkāmaḥक्रोधःkrodhaḥतथाtathāलोभःlobhaḥतस्मात्tasmātएतत्etatत्रयम्trayamत्यजेत्tyajet

अन्वय

कामः क्रोधः तथा लोभः [इति] इदम् आत्मनः नाशनम् नरकस्य त्रिविधम् द्वारम् [अस्ति] । तस्मात् एतत् त्रयम् त्यजेत् ।

Shloka 16.22

एतैर्विमुक्तः कौन्तेय तमोद्वारैस्त्रिभिर्नरः । आचरत्यात्मनः श्रेयस्ततो याति परां गतिम् ॥१६-२२॥

पदच्छेद

एतैःetaiḥविमुक्तःvimuktaḥकौन्तेयkaunteyaतमस्-द्वारैःtamas-dvāraiḥत्रिभिःtribhiḥनरःnaraḥआचरतिācaratiआत्मनःātmanaḥश्रेयःśreyaḥततःtataḥयातिyātiपराम्parāmगतिम्gatim

अन्वय

कौन्तेय, एतैः त्रिभिः तमोद्वारैः विमुक्तः नरः आत्मनः श्रेयः आचरति; ततः पराम् गतिम् याति ।

Shloka 16.23

यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः । न स सिद्धिमवाप्नोति न सुखं न परां गतिम् ॥१६-२३॥

पदच्छेद

यःyaḥशास्त्र-विधिम्śāstra-vidhimउत्सृज्यutsṛjyaवर्ततेvartateकामकारतःkāmakārataḥनnaसःsaḥसिद्धिम्siddhimअवाप्नोतिavāpnotiनnaसुखम्sukhamनnaपराम्parāmगतिम्gatim

अन्वय

यः शास्त्रविधिम् उत्सृज्य कामकारतः वर्तते, सः सिद्धिम् न अवाप्नोति, सुखम् न [अवाप्नोति], पराम् गतिम् न [अवाप्नोति] ।

Shloka 16.24

तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ । ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि ॥१६-२४॥

पदच्छेद

तस्मात्tasmātशास्त्रम्śāstramप्रमाणम्pramāṇamतेteकार्य-अकार्य-व्यवस्थितौkārya-akārya-vyavasthitauज्ञात्वाjñātvāशास्त्र-विधानोक्तम्śāstra-vidhānoktamकर्मkarmaकर्तुम्kartumइहihaअर्हसिarhasi

अन्वय

तस्मात् कार्याकार्यव्यवस्थितौ शास्त्रम् ते प्रमाणम् [अस्ति] । शास्त्रविधानोक्तम् कर्म ज्ञात्वा इह [तत् कर्म] कर्तुम् अर्हसि ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Chapters

Chapter 16 · Shlokas

Choose a number to read.

Read the whole chapter →