Sunday Meditation· Open to Everyone

कर्मयोगः

संस्कृत

Shloka 3.1

अर्जुन उवाच ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन । तत्किं कर्मणि घोरे मां नियोजयसि केशव ॥३-१॥

पदच्छेद

अर्जुनःarjunaḥउवाचuvācaज्यायसीjyāyasīचेत्cetकर्मणःkarmaṇaḥतेteमताmatāबुद्धिःbuddhiḥजनार्दनjanārdanaतत्tatकिम्kimकर्मणिkarmaṇiघोरेghoreमाम्māmनियोजयसिniyojayasiकेशवkeśava

अन्वय

अर्जुनः उवाच—जनार्दन, चेत् ते बुद्धिः कर्मणः ज्यायसी मता [अस्ति], तत् केशव, माम् घोरे कर्मणि किम् नियोजयसि ।

Shloka 3.2

व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे । तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् ॥३-२॥

पदच्छेद

व्यामिश्रेणvyāmiśreṇaइवivaवाक्येनvākyenaबुद्धिम्buddhimमोहयसिmohayasiइवivaमेmeतत्tatएकम्ekamवदvadaनिश्चित्यniścityaयेनyenaश्रेयःśreyaḥअहम्ahamआप्नुयाम्āpnuyām

अन्वय

[त्वम्] व्यामिश्रेण इव वाक्येन मे बुद्धिम् मोहयसि इव । तत् निश्चित्य एकम् वद, येन अहम् श्रेयः आप्नुयाम् ।

Shloka 3.3

श्रीभगवानुवाच लोकेऽस्मिन्द्विविधा निष्ठा पुरा प्रोक्ता मयानघ । ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनाम् ॥३-३॥

पदच्छेद

श्री-भगवान्śrī-bhagavānउवाचuvācaलोकेlokeअस्मिन्asminद्विविधाdvividhāनिष्ठाniṣṭhāपुराpurāप्रोक्ताproktāमयाmayāअनघanaghaज्ञान-योगेनjñāna-yogenaसांख्यानाम्sāṃkhyānāmकर्म-योगेनkarma-yogenaयोगिनाम्yoginām

अन्वय

श्रीभगवान् उवाच—अनघ, अस्मिन् लोके द्विविधा निष्ठा मया पुरा प्रोक्ता—साङ्ख्यानाम् ज्ञानयोगेन [निष्ठा], योगिनाम् कर्मयोगेन [निष्ठा] ।

Shloka 3.4

न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते । न च संन्यसनादेव सिद्धिं समधिगच्छति ॥३-४॥

पदच्छेद

नnaकर्मणाम्karmaṇāmअनारम्भात्anārambhātनैष्कर्म्यम्naiṣkarmyamपुरुषःpuruṣaḥअश्नुतेaśnuteनnaचcaसंन्यसनात्saṃnyasanātएवevaसिद्धिम्siddhimसमधिगच्छतिsamadhigacchati

अन्वय

पुरुषः कर्मणाम् अनारम्भात् नैष्कर्म्यम् न अश्नुते; संन्यसनात् एव च सिद्धिम् न समधिगच्छति ।

Shloka 3.5

न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् । कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः ॥३-५॥

पदच्छेद

नnaहिhiकश्चित्kaścitक्षणम्kṣaṇamअपिapiजातुjātuतिष्ठतिtiṣṭhatiअकर्म-कृत्akarma-kṛtकार्यतेkāryateहिhiअवशःavaśaḥकर्मkarmaसर्वःsarvaḥप्रकृति-जैःprakṛti-jaiḥगुणैःguṇaiḥ

अन्वय

कश्चित् हि जातु क्षणम् अपि अकर्मकृत् न तिष्ठति । सर्वः हि अवशः प्रकृतिजैः गुणैः कर्म कार्यते ।

Shloka 3.6

कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् । इन्द्रियार्थान्विमूढात्मा मिथ्याचारः स उच्यते ॥३-६॥

पदच्छेद

कर्मेन्द्रियाणिkarmendriyāṇiसंयम्यsaṃyamyaयःyaḥआस्तेāsteमनसाmanasāस्मरन्smaranइन्द्रिय-अर्थान्indriya-arthānविमूढात्माvimūḍhātmāमिथ्याचारःmithyācāraḥसःsaḥउच्यतेucyate

अन्वय

यः विमूढात्मा कर्मेन्द्रियाणि संयम्य मनसा इन्द्रियार्थान् स्मरन् आस्ते, सः मिथ्याचारः उच्यते ।

Shloka 3.7

यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन । कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते ॥३-७॥

पदच्छेद

यःyaḥतुtuइन्द्रियाणिindriyāṇiमनसाmanasāनियम्यniyamyaआरभतेārabhateअर्जुनarjunaकर्मेन्द्रियैःkarmendriyaiḥकर्म-योगम्karma-yogamअसक्तःasaktaḥसःsaḥविशिष्यतेviśiṣyate

अन्वय

अर्जुन, यः तु मनसा इन्द्रियाणि नियम्य असक्तः कर्मेन्द्रियैः कर्मयोगम् आरभते, सः विशिष्यते ।

Shloka 3.8

नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः । शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मणः ॥३-८॥

पदच्छेद

नियतम्niyatamकुरुkuruकर्मkarmaत्वम्tvamकर्मkarmaज्यायःjyāyaḥहिhiअकर्मणःakarmaṇaḥशरीर-यात्राśarīra-yātrāअपिapiचcaतेteनnaप्रसिद्ध्येत्prasiddhyetअकर्मणःakarmaṇaḥ

अन्वय

त्वम् नियतम् कर्म कुरु; हि कर्म अकर्मणः ज्यायः [अस्ति] । अकर्मणः ते शरीरयात्रा अपि च न प्रसिद्ध्येत् ।

Shloka 3.9

यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः । तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर ॥३-९॥

पदच्छेद

यज्ञार्थात्yajñārthātकर्मणःkarmaṇaḥअन्यत्रanyatraलोकःlokaḥअयम्ayamकर्म-बन्धनःkarma-bandhanaḥतत्-अर्थम्tat-arthamकर्मkarmaकौन्तेयkaunteyaमुक्त-सङ्गःmukta-saṅgaḥसमाचरsamācara

अन्वय

यज्ञार्थात् कर्मणः अन्यत्र अयम् लोकः कर्मबन्धनः [अस्ति] । कौन्तेय, मुक्तसङ्गः तदर्थम् कर्म समाचर ।

Shloka 3.10

सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः । अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् ॥३-१०॥

पदच्छेद

सह-यज्ञाःsaha-yajñāḥप्रजाःprajāḥसृष्ट्वाsṛṣṭvāपुराpurāउवाचuvācaप्रजापतिःprajāpatiḥअनेनanenaप्रसविष्यध्वम्prasaviṣyadhvamएषःeṣaḥवःvaḥअस्तुastuइष्ट-काम-धुक्iṣṭa-kāma-dhuk

अन्वय

प्रजापतिः सहयज्ञाः प्रजाः सृष्ट्वा पुरा उवाच—अनेन [यज्ञेन] प्रसविष्यध्वम्; एषः वः इष्टकामधुक् अस्तु ।

Shloka 3.11

देवान्भावयतानेन ते देवा भावयन्तु वः । परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ॥३-११॥

पदच्छेद

देवान्devānभावयतbhāvayataअनेनanenaतेteदेवाःdevāḥभावयन्तुbhāvayantuवःvaḥपरस्परम्parasparamभावयन्तःbhāvayantaḥश्रेयःśreyaḥपरम्paramअवाप्स्यथavāpsyatha

अन्वय

अनेन [यज्ञेन] देवान् भावयत; ते देवाः वः भावयन्तु । परस्परम् भावयन्तः [यूयम्] परम् श्रेयः अवाप्स्यथ ।

Shloka 3.12

इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः । तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः ॥३-१२॥

पदच्छेद

इष्टान्iṣṭānभोगान्bhogānहिhiवःvaḥदेवाःdevāḥदास्यन्तेdāsyanteयज्ञ-भाविताःyajña-bhāvitāḥतैःtaiḥदत्तान्dattānअप्रदायapradāyaएभ्यःebhyaḥयःyaḥभुङ्क्तेbhuṅkteस्तेनःstenaḥएवevaसःsaḥ

अन्वय

यज्ञभाविताः देवाः हि वः इष्टान् भोगान् दास्यन्ते । यः तैः दत्तान् [भोगान्] एभ्यः अप्रदाय भुङ्क्ते, सः स्तेनः एव [अस्ति] ।

Shloka 3.13

यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः । भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात् ॥३-१३॥

पदच्छेद

यज्ञ-शिष्ट-अशिनःyajña-śiṣṭa-aśinaḥसन्तःsantaḥमुच्यन्तेmucyanteसर्व-किल्बिषैःsarva-kilbiṣaiḥभुञ्जतेbhuñjateतेteतुtuअघम्aghamपापाःpāpāḥयेyeपचन्तिpacantiआत्म-कारणात्ātma-kāraṇāt

अन्वय

यज्ञशिष्टाशिनः सन्तः सर्वकिल्बिषैः मुच्यन्ते । ये आत्मकारणात् पचन्ति, ते पापाः तु अघम् भुञ्जते ।

Shloka 3.14

अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसम्भवः । यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः ॥३-१४॥

पदच्छेद

अन्नात्annātभवन्तिbhavantiभूतानिbhūtāniपर्जन्यात्parjanyātअन्न-सम्भवःanna-sambhavaḥयज्ञात्yajñātभवतिbhavatiपर्जन्यःparjanyaḥयज्ञःyajñaḥकर्म-समुद्भवःkarma-samudbhavaḥ

अन्वय

अन्नात् भूतानि भवन्ति; पर्जन्यात् अन्नसम्भवः [भवति]; यज्ञात् पर्जन्यः भवति; यज्ञः कर्मसमुद्भवः [अस्ति] ।

Shloka 3.15

कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् । तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ॥३-१५॥

पदच्छेद

कर्मkarmaब्रह्म-उद्भवम्brahma-udbhavamविद्धिviddhiब्रह्मbrahmaअक्षर-समुद्भवम्akṣara-samudbhavamतस्मात्tasmātसर्व-गतम्sarva-gatamब्रह्मbrahmaनित्यम्nityamयज्ञेyajñeप्रतिष्ठितम्pratiṣṭhitam

अन्वय

कर्म ब्रह्मोद्भवम् विद्धि; ब्रह्म अक्षरसमुद्भवम् [विद्धि] । तस्मात् सर्वगतम् ब्रह्म नित्यम् यज्ञे प्रतिष्ठितम् [अस्ति] ।

Shloka 3.16

एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः । अघायुरिन्द्रियारामो मोघं पार्थ स जीवति ॥३-१६॥

पदच्छेद

एवम्evamप्रवर्तितम्pravartitamचक्रम्cakramनnaअनुवर्तयतिanuvartayatiइहihaयःyaḥअघायुःaghāyuḥइन्द्रिय-आरामःindriya-ārāmaḥमोघम्moghamपार्थpārthaसःsaḥजीवतिjīvati

अन्वय

पार्थ, यः इह एवम् प्रवर्तितम् चक्रम् न अनुवर्तयति, सः अघायुः इन्द्रियारामः मोघम् जीवति ।

Shloka 3.17

यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः । आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते ॥३-१७॥

पदच्छेद

यःyaḥतुtuआत्म-रतिःātma-ratiḥएवevaस्यात्syātआत्म-तृप्तःātma-tṛptaḥचcaमानवःmānavaḥआत्मनिātmaniएवevaचcaसन्तुष्टःsantuṣṭaḥतस्यtasyaकार्यम्kāryamनnaविद्यतेvidyate

अन्वय

यः तु मानवः आत्मरतिः एव स्यात्, आत्मतृप्तः च, आत्मनि एव च सन्तुष्टः [स्यात्], तस्य कार्यम् न विद्यते ।

Shloka 3.18

नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन । न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः ॥३-१८॥

पदच्छेद

नnaएवevaतस्यtasyaकृतेनkṛtenaअर्थःarthaḥनnaअकृतेनakṛtenaइहihaकश्चनkaścanaनnaचcaअस्यasyaसर्व-भूतेषुsarva-bhūteṣuकश्चित्kaścitअर्थ-व्यपाश्रयःartha-vyapāśrayaḥ

अन्वय

इह तस्य कृतेन कश्चन अर्थः न एव [अस्ति], अकृतेन न [अस्ति]; अस्य सर्वभूतेषु कश्चित् अर्थव्यपाश्रयः न च [अस्ति] ।

Shloka 3.19

तस्मादसक्तः सततं कार्यं कर्म समाचर । असक्तो ह्याचरन्कर्म परमाप्नोति पूरुषः ॥३-१९॥

पदच्छेद

तस्मात्tasmātअसक्तःasaktaḥसततम्satatamकार्यम्kāryamकर्मkarmaसमाचरsamācaraअसक्तःasaktaḥहिhiआचरन्ācaranकर्मkarmaपरम्paramआप्नोतिāpnotiपूरुषःpūruṣaḥ

अन्वय

तस्मात् असक्तः सततम् कार्यम् कर्म समाचर । हि असक्तः कर्म आचरन् पूरुषः परम् आप्नोति ।

Shloka 3.20

कर्मणैव हि संसिद्धिमास्थिता जनकादयः । लोकसंग्रहमेवापि संपश्यन्कर्तुमर्हसि ॥३-२०॥

पदच्छेद

कर्मणाkarmaṇāएवevaहिhiसंसिद्धिम्saṃsiddhimआस्थिताःāsthitāḥजनक-आदयःjanaka-ādayaḥलोक-संग्रहम्loka-saṃgrahamएवevaअपिapiसंपश्यन्saṃpaśyanकर्तुम्kartumअर्हसिarhasi

अन्वय

जनकादयः हि कर्मणा एव संसिद्धिम् आस्थिताः [सन्ति] । लोकसङ्ग्रहम् एव अपि सम्पश्यन् [त्वम् कर्म] कर्तुम् अर्हसि ।

Shloka 3.21

यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः । स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥३-२१॥

पदच्छेद

यत्yatयत्yatआचरतिācaratiश्रेष्ठःśreṣṭhaḥतत्tatतत्tatएवevaइतरःitaraḥजनःjanaḥसःsaḥयत्yatप्रमाणम्pramāṇamकुरुतेkuruteलोकःlokaḥतत्tatअनुवर्ततेanuvartate

अन्वय

श्रेष्ठः यत् यत् आचरति, इतरः जनः तत् तत् एव [आचरति] । सः यत् प्रमाणम् कुरुते, लोकः तत् अनुवर्तते ।

Shloka 3.22

न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किंचन । नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि ॥३-२२॥

पदच्छेद

नnaमेmeपार्थpārthaअस्तिastiकर्तव्यम्kartavyamत्रिषुtriṣuलोकेषुlokeṣuकिंचनkiṃcanaनnaअनवाप्तम्anavāptamअवाप्तव्यम्avāptavyamवर्तेvarteएवevaचcaकर्मणिkarmaṇi

अन्वय

पार्थ, त्रिषु लोकेषु मे किञ्चन कर्तव्यम् न अस्ति; अनवाप्तम् अवाप्तव्यम् [किञ्चित्] न [अस्ति] । कर्मणि एव च वर्ते ।

Shloka 3.23

यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः । मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥३-२३॥

पदच्छेद

यदिyadiहिhiअहम्ahamनnaवर्तेयम्varteyamजातुjātuकर्मणिkarmaṇiअतन्द्रितःatandritaḥममmamaवर्त्मvartmaअनुवर्तन्तेanuvartanteमनुष्याःmanuṣyāḥपार्थpārthaसर्वशःsarvaśaḥ

अन्वय

पार्थ, यदि हि अहम् जातु अतन्द्रितः कर्मणि न वर्तेयम्, [इमे लोकाः उत्सीदेयुः] । मनुष्याः सर्वशः मम वर्त्म अनुवर्तन्ते ।

Shloka 3.24

उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् । संकरस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः ॥३-२४॥

पदच्छेद

उत्सीदेयुःutsīdeyuḥइमेimeलोकाःlokāḥनnaकुर्याम्kuryāmकर्मkarmaचेत्cetअहम्ahamसंकरस्यsaṃkarasyaचcaकर्ताkartāस्याम्syāmउपहन्याम्upahanyāmइमाःimāḥप्रजाःprajāḥ

अन्वय

अहम् चेत् कर्म न कुर्याम्, इमे लोकाः उत्सीदेयुः; सङ्करस्य च कर्ता स्याम्; इमाः प्रजाः उपहन्याम् ।

Shloka 3.25

सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत । कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसंग्रहम् ॥३-२५॥

पदच्छेद

सक्ताःsaktāḥकर्मणिkarmaṇiअविद्वांसःavidvāṃsaḥयथाyathāकुर्वन्तिkurvantiभारतbhārataकुर्यात्kuryātविद्वान्vidvānतथाtathāअसक्तःasaktaḥचिकीर्षुःcikīrṣuḥलोक-संग्रहम्loka-saṃgraham

अन्वय

भारत, यथा अविद्वांसः कर्मणि सक्ताः कुर्वन्ति, तथा विद्वान् असक्तः लोकसङ्ग्रहम् चिकीर्षुः कुर्यात् ।

Shloka 3.26

न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् । जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन् ॥३-२६॥

पदच्छेद

नnaबुद्धि-भेदम्buddhi-bhedamजनयेत्janayetअज्ञानाम्ajñānāmकर्म-सङ्गिनाम्karma-saṅgināmजोषयेत्joṣayetसर्व-कर्माणिsarva-karmāṇiविद्वान्vidvānयुक्तःyuktaḥसमाचरन्samācaran

अन्वय

युक्तः विद्वान् समाचरन् कर्मसङ्गिनाम् अज्ञानाम् बुद्धिभेदम् न जनयेत्; सर्वकर्माणि जोषयेत् ।

Shloka 3.27

प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः । अहंकारविमूढात्मा कर्ताहमिति मन्यते ॥३-२७॥

पदच्छेद

प्रकृतेःprakṛteḥक्रियमाणानिkriyamāṇāniगुणैःguṇaiḥकर्माणिkarmāṇiसर्वशःsarvaśaḥअहंकार-विमूढात्माahaṃkāra-vimūḍhātmāकर्ताkartāअहम्ahamइतिitiमन्यतेmanyate

अन्वय

प्रकृतेः गुणैः सर्वशः कर्माणि क्रियमाणानि [सन्ति] । अहङ्कारविमूढात्मा [पुरुषः] अहम् कर्ता इति मन्यते ।

Shloka 3.28

तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः । गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते ॥३-२८॥

पदच्छेद

तत्त्व-वित्tattva-vitतुtuमहा-बाहोmahā-bāhoगुण-कर्म-विभागयोःguṇa-karma-vibhāgayoḥगुणाःguṇāḥगुणेषुguṇeṣuवर्तन्तेvartanteइतिitiमत्वाmatvāनnaसज्जतेsajjate

अन्वय

महाबाहो, गुणकर्मविभागयोः तत्त्ववित् तु गुणाः गुणेषु वर्तन्ते इति मत्वा न सज्जते ।

Shloka 3.29

प्रकृतेर्गुणसंमूढाः सज्जन्ते गुणकर्मसु । तानकृत्स्नविदो मन्दान्कृत्स्नविन्न विचालयेत् ॥३-२९॥

पदच्छेद

प्रकृतेःprakṛteḥगुण-संमूढाःguṇa-saṃmūḍhāḥसज्जन्तेsajjanteगुण-कर्मसुguṇa-karmasuतान्tānअकृत्स्न-विदःakṛtsna-vidaḥमन्दान्mandānकृत्स्न-वित्kṛtsna-vitनnaविचालयेत्vicālayet

अन्वय

प्रकृतेः गुणसम्मूढाः [जनाः] गुणकर्मसु सज्जन्ते । कृत्स्नवित् तान् अकृत्स्नविदः मन्दान् न विचालयेत् ।

Shloka 3.30

मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा । निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः ॥३-३०॥

पदच्छेद

मयिmayiसर्वाणिsarvāṇiकर्माणिkarmāṇiसंन्यस्यsaṃnyasyaअध्यात्म-चेतसाadhyātma-cetasāनिराशीःnirāśīḥनिर्ममःnirmamaḥभूत्वाbhūtvāयुध्यस्वyudhyasvaविगत-ज्वरःvigata-jvaraḥ

अन्वय

अध्यात्मचेतसा सर्वाणि कर्माणि मयि संन्यस्य निराशीः निर्ममः भूत्वा विगतज्वरः युध्यस्व ।

Shloka 3.31

ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः । श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः ॥३-३१॥

पदच्छेद

येyeमेmeमतम्matamइदम्idamनित्यम्nityamअनुतिष्ठन्तिanutiṣṭhantiमानवाःmānavāḥश्रद्धावन्तःśraddhāvantaḥअनसूयन्तःanasūyantaḥमुच्यन्तेmucyanteतेteअपिapiकर्मभिःkarmabhiḥ

अन्वय

ये मानवाः श्रद्धावन्तः अनसूयन्तः मे इदम् मतम् नित्यम् अनुतिष्ठन्ति, ते अपि कर्मभिः मुच्यन्ते ।

Shloka 3.32

ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् । सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतसः ॥३-३२॥

पदच्छेद

येyeतुtuएतत्etatअभ्यसूयन्तःabhyasūyantaḥनnaअनुतिष्ठन्तिanutiṣṭhantiमेmeमतम्matamसर्व-ज्ञान-विमूढान्sarva-jñāna-vimūḍhānतान्tānविद्धिviddhiनष्टान्naṣṭānअचेतसःacetasaḥ

अन्वय

ये तु अभ्यसूयन्तः मे एतत् मतम् न अनुतिष्ठन्ति, तान् सर्वज्ञानविमूढान् अचेतसः नष्टान् विद्धि ।

Shloka 3.33

सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि । प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति ॥३-३३॥

पदच्छेद

सदृशम्sadṛśamचेष्टतेceṣṭateस्वस्याःsvasyāḥप्रकृतेःprakṛteḥज्ञानवान्jñānavānअपिapiप्रकृतिम्prakṛtimयान्तिyāntiभूतानिbhūtāniनिग्रहःnigrahaḥकिम्kimकरिष्यतिkariṣyati

अन्वय

ज्ञानवान् अपि स्वस्याः प्रकृतेः सदृशम् चेष्टते । भूतानि प्रकृतिम् यान्ति; निग्रहः किम् करिष्यति ।

Shloka 3.34

इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ । तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ ॥३-३४॥

पदच्छेद

इन्द्रियस्यindriyasyaइन्द्रियस्यindriyasyaअर्थेartheराग-द्वेषौrāga-dveṣauव्यवस्थितौvyavasthitauतयोःtayoḥनnaवशम्vaśamआगच्छेत्āgacchetतौtauहिhiअस्यasyaपरिपन्थिनौparipanthinau

अन्वय

इन्द्रियस्य इन्द्रियस्य अर्थे रागद्वेषौ व्यवस्थितौ [स्तः] । तयोः वशम् न आगच्छेत्; तौ हि अस्य परिपन्थिनौ [स्तः] ।

Shloka 3.35

श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् । स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ॥३-३५॥

पदच्छेद

श्रेयान्śreyānस्व-धर्मःsva-dharmaḥविगुणःviguṇaḥपर-धर्मात्para-dharmātसु-अनुष्ठितात्su-anuṣṭhitātस्व-धर्मेsva-dharmeनिधनम्nidhanamश्रेयःśreyaḥपर-धर्मःpara-dharmaḥभयावहःbhayāvahaḥ

अन्वय

विगुणः स्वधर्मः स्वनुष्ठितात् परधर्मात् श्रेयान् [अस्ति] । स्वधर्मे निधनम् श्रेयः [अस्ति]; परधर्मः भयावहः [अस्ति] ।

Shloka 3.36

अर्जुन उवाच अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः । अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः ॥३-३६॥

पदच्छेद

अर्जुनःarjunaḥउवाचuvācaअथathaकेनkenaप्रयुक्तःprayuktaḥअयम्ayamपापम्pāpamचरतिcaratiपूरुषःpūruṣaḥअनिच्छन्anicchanअपिapiवार्ष्णेयvārṣṇeyaबलात्balātइवivaनियोजितःniyojitaḥ

अन्वय

अर्जुनः उवाच—वार्ष्णेय, अथ अयम् पूरुषः अनिच्छन् अपि बलात् इव नियोजितः केन प्रयुक्तः पापम् चरति ।

Shloka 3.37

श्रीभगवानुवाच काम एष क्रोध एष रजोगुणसमुद्भवः । महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् ॥३-३७॥

पदच्छेद

श्री-भगवान्śrī-bhagavānउवाचuvācaकामःkāmaḥएषःeṣaḥक्रोधःkrodhaḥएषःeṣaḥरजो-गुण-समुद्भवःrajo-guṇa-samudbhavaḥमहाशनःmahāśanaḥमहापाप्माmahāpāpmāविद्धिviddhiएनम्enamइहihaवैरिणम्vairiṇam

अन्वय

श्रीभगवान् उवाच—एषः कामः, एषः क्रोधः [अस्ति]; रजोगुणसमुद्भवः महाशनः महापाप्मा [एषः अस्ति] । इह एनम् वैरिणम् विद्धि ।

Shloka 3.38

धूमेनाव्रियते वह्निर्यथादर्शो मलेन च । यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम् ॥३-३८॥

पदच्छेद

धूमेनdhūmenaआव्रियतेāvriyateवह्निःvahniḥयथाyathāआदर्शःādarśaḥमलेनmalenaचcaयथाyathāउल्बेनulbenaआवृतःāvṛtaḥगर्भःgarbhaḥतथाtathāतेनtenaइदम्idamआवृतम्āvṛtam

अन्वय

यथा धूमेन वह्निः आव्रियते, आदर्शः मलेन च [आव्रियते], यथा उल्बेन गर्भः आवृतः [अस्ति], तथा तेन इदम् आवृतम् [अस्ति] ।

Shloka 3.39

आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा । कामरूपेण कौन्तेय दुष्पूरेणानलेन च ॥३-३९॥

पदच्छेद

आवृतम्āvṛtamज्ञानम्jñānamएतेनetenaज्ञानिनःjñāninaḥनित्य-वैरिणाnitya-vairiṇāकाम-रूपेणkāma-rūpeṇaकौन्तेयkaunteyaदुष्पूरेणduṣpūreṇaअनलेनanalenaचca

अन्वय

कौन्तेय, ज्ञानिनः ज्ञानम् एतेन नित्यवैरिणा कामरूपेण दुष्पूरेण अनलेन च आवृतम् [अस्ति] ।

Shloka 3.40

इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते । एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम् ॥३-४०॥

पदच्छेद

इन्द्रियाणिindriyāṇiमनःmanaḥबुद्धिःbuddhiḥअस्यasyaअधिष्ठानम्adhiṣṭhānamउच्यतेucyateएतैःetaiḥविमोहयतिvimohayatiएषःeṣaḥज्ञानम्jñānamआवृत्यāvṛtyaदेहिनम्dehinam

अन्वय

अस्य इन्द्रियाणि मनः बुद्धिः अधिष्ठानम् उच्यते । एषः एतैः ज्ञानम् आवृत्य देहिनम् विमोहयति ।

Shloka 3.41

तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ । पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनम् ॥३-४१॥

पदच्छेद

तस्मात्tasmātत्वम्tvamइन्द्रियाणिindriyāṇiआदौādauनियम्यniyamyaभरतर्षभbharatarṣabhaपाप्मानम्pāpmānamप्रजहिprajahiहिhiएनम्enamज्ञान-विज्ञान-नाशनम्jñāna-vijñāna-nāśanam

अन्वय

तस्मात् भरतर्षभ, त्वम् आदौ इन्द्रियाणि नियम्य हि एनम् ज्ञानविज्ञाननाशनम् पाप्मानम् प्रजहि ।

Shloka 3.42

इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः । मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ॥३-४२॥

पदच्छेद

इन्द्रियाणिindriyāṇiपराणिparāṇiआहुःāhuḥइन्द्रियेभ्यःindriyebhyaḥपरम्paramमनःmanaḥमनसःmanasaḥतुtuपराparāबुद्धिःbuddhiḥयःyaḥबुद्धेःbuddheḥपरतःparataḥतुtuसःsaḥ

अन्वय

इन्द्रियाणि पराणि आहुः; इन्द्रियेभ्यः मनः परम् [अस्ति]; मनसः तु बुद्धिः परा [अस्ति]; यः तु बुद्धेः परतः [अस्ति], सः [आत्मा अस्ति] ।

Shloka 3.43

एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना । जहि शत्रुं महाबाहो कामरूपं दुरासदम् ॥३-४३॥

पदच्छेद

एवम्evamबुद्धेःbuddheḥपरम्paramबुद्ध्वाbuddhvāसंस्तभ्यsaṃstabhyaआत्मानम्ātmānamआत्मनाātmanāजहिjahiशत्रुम्śatrumमहा-बाहोmahā-bāhoकाम-रूपम्kāma-rūpamदुरासदम्durāsadam

अन्वय

एवम् बुद्धेः परम् बुद्ध्वा आत्मना आत्मानम् संस्तभ्य, महाबाहो, कामरूपम् दुरासदम् शत्रुम् जहि ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Chapters

Chapter 3 · Shlokas

Choose a number to read.

Read the whole chapter →