Sunday Meditation· Open to Everyone

राजविद्याराजगुह्ययोगः

संस्कृत

Shloka 9.1

श्रीभगवानुवाच इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे । ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥९-१॥

पदच्छेद

श्रीभगवान्śrībhagavānउवाचuvācaइदम्idamतुtuतेteगुह्यतमम्guhyatamamप्रवक्ष्यामिpravakṣyāmiअनसूयवेanasūyaveज्ञानम्jñānamविज्ञान-सहितम्vijñāna-sahitamयत्yatज्ञात्वाjñātvāमोक्ष्यसेmokṣyaseअशुभात्aśubhāt

अन्वय

श्रीभगवान् उवाच-अनसूयवे ते इदम् गुह्यतमम् विज्ञानसहितम् ज्ञानम् तु प्रवक्ष्यामि, यत् ज्ञात्वा अशुभात् मोक्ष्यसे ।

Shloka 9.2

राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् । प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् ॥९-२॥

पदच्छेद

राज-विद्याrāja-vidyāराज-गुह्यम्rāja-guhyamपवित्रम्pavitramइदम्idamउत्तमम्uttamamप्रत्यक्ष-अवगमम्pratyakṣa-avagamamधर्म्यम्dharmyamसुसुखम्susukhamकर्तुम्kartumअव्ययम्avyayam

अन्वय

इदम् राजविद्या राजगुह्यम् उत्तमम् पवित्रम् प्रत्यक्षावगमम् धर्म्यम् कर्तुम् सुसुखम् अव्ययम् [अस्ति] ।

Shloka 9.3

अश्रद्दधानाः पुरुषा धर्मस्यास्य परन्तप । अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि ॥९-३॥

पदच्छेद

अश्रद्दधानाःaśraddadhānāḥपुरुषाःpuruṣāḥधर्मस्यdharmasyaअस्यasyaपरन्तपparantapaअप्राप्यaprāpyaमाम्māmनिवर्तन्तेnivartanteमृत्यु-संसार-वर्त्मनिmṛtyu-saṃsāra-vartmani

अन्वय

परन्तप, अस्य धर्मस्य अश्रद्दधानाः पुरुषाः माम् अप्राप्य मृत्युसंसारवर्त्मनि निवर्तन्ते ।

Shloka 9.4

मया ततमिदं सर्वं जगदव्यक्तमूर्तिना । मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः ॥९-४॥

पदच्छेद

मयाmayāततम्tatamइदम्idamसर्वम्sarvamजगत्jagatअव्यक्त-मूर्तिनाavyakta-mūrtināमत्-स्थानिmat-sthāniसर्व-भूतानिsarva-bhūtāniनnaचcaअहम्ahamतेषुteṣuअवस्थितःavasthitaḥ

अन्वय

अव्यक्तमूर्तिना मया इदम् सर्वम् जगत् ततम् [अस्ति] । सर्वभूतानि मत्स्थानि [सन्ति]; अहम् च तेषु अवस्थितः न [अस्मि] ।

Shloka 9.5

न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् । भूतभृन्न च भूतस्थो ममात्मा भूतभावनः ॥९-५॥

पदच्छेद

नnaचcaमत्-स्थानिmat-sthāniभूतानिbhūtāniपश्यpaśyaमेmeयोगम्yogamऐश्वरम्aiśvaramभूत-भृत्bhūta-bhṛtनnaचcaभूत-स्थःbhūta-sthaḥममmamaआत्माātmāभूत-भावनःbhūta-bhāvanaḥ

अन्वय

भूतानि च मत्स्थानि न [सन्ति] । मे ऐश्वरम् योगम् पश्य । मम आत्मा भूतभृत् भूतभावनः [अस्ति], भूतस्थः च न [अस्ति] ।

Shloka 9.6

यथाकाशस्थितो नित्यं वायुः सर्वत्रगो महान् । तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ॥९-६॥

पदच्छेद

यथाyathāआकाश-स्थितःākāśa-sthitaḥनित्यम्nityamवायुःvāyuḥसर्वत्र-गःsarvatra-gaḥमहान्mahānतथाtathāसर्वाणिsarvāṇiभूतानिbhūtāniमत्-स्थानिmat-sthāniइतिitiउपधारयupadhāraya

अन्वय

यथा महान् सर्वत्रगः वायुः नित्यम् आकाशस्थितः [अस्ति], तथा सर्वाणि भूतानि मत्स्थानि [सन्ति] इति उपधारय ।

Shloka 9.7

सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् । कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् ॥९-७॥

पदच्छेद

सर्व-भूतानिsarva-bhūtāniकौन्तेयkaunteyaप्रकृतिम्prakṛtimयान्तिyāntiमामिकाम्māmikāmकल्प-क्षयेkalpa-kṣayeपुनःpunaḥतानिtāniकल्प-आदौkalpa-ādauविसृजामिvisṛjāmiअहम्aham

अन्वय

कौन्तेय, कल्पक्षये सर्वभूतानि मामिकाम् प्रकृतिम् यान्ति । पुनः कल्पादौ अहम् तानि विसृजामि ।

Shloka 9.8

प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः । भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात् ॥९-८॥

पदच्छेद

प्रकृतिम्prakṛtimस्वाम्svāmअवष्टभ्यavaṣṭabhyaविसृजामिvisṛjāmiपुनःpunaḥपुनःpunaḥभूत-ग्रामम्bhūta-grāmamइमम्imamकृत्स्नम्kṛtsnamअवशम्avaśamप्रकृतेःprakṛteḥवशात्vaśāt

अन्वय

स्वाम् प्रकृतिम् अवष्टभ्य प्रकृतेः वशात् अवशम् इमम् कृत्स्नम् भूतग्रामम् पुनः पुनः विसृजामि ।

Shloka 9.9

न च मां तानि कर्माणि निबध्नन्ति धनंजय । उदासीनवदासीनमसक्तं तेषु कर्मसु ॥९-९॥

पदच्छेद

नnaचcaमाम्māmतानिtāniकर्माणिkarmāṇiनिबध्नन्तिnibadhnantiधनंजयdhanaṃjayaउदासीनवत्udāsīnavatआसीनम्āsīnamअसक्तम्asaktamतेषुteṣuकर्मसुkarmasu

अन्वय

धनंजय, तानि कर्माणि उदासीनवत् आसीनम् तेषु कर्मसु असक्तम् माम् न च निबध्नन्ति ।

Shloka 9.10

मयाध्यक्षेण प्रकृतिः सूयते सचराचरम् । हेतुनानेन कौन्तेय जगद्विपरिवर्तते ॥९-१०॥

पदच्छेद

मयाmayāअध्यक्षेणadhyakṣeṇaप्रकृतिःprakṛtiḥसूयतेsūyateस-चर-अचरम्sa-cara-acaramहेतुनाhetunāअनेनanenaकौन्तेयkaunteyaजगत्jagatविपरिवर्ततेviparivartate

अन्वय

अध्यक्षेण मया प्रकृतिः सचराचरम् सूयते । कौन्तेय, अनेन हेतुना जगत् विपरिवर्तते ।

Shloka 9.11

अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् । परं भावमजानन्तो मम भूतमहेश्वरम् ॥९-११॥

पदच्छेद

अवजानन्तिavajānantiमाम्māmमूढाःmūḍhāḥमानुषीम्mānuṣīmतनुम्tanumआश्रितम्āśritamपरम्paramभावम्bhāvamअजानन्तःajānantaḥममmamaभूत-महेश्वरम्bhūta-maheśvaram

अन्वय

मूढाः मम परम् भूतमहेश्वरम् भावम् अजानन्तः मानुषीम् तनुम् आश्रितम् माम् अवजानन्ति ।

Shloka 9.12

मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः । राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः ॥९-१२॥

पदच्छेद

मोघ-आशाःmogha-āśāḥमोघ-कर्माणःmogha-karmāṇaḥमोघ-ज्ञानाःmogha-jñānāḥविचेतसःvicetasaḥराक्षसीम्rākṣasīmआसुरीम्āsurīmचcaएवevaप्रकृतिम्prakṛtimमोहिनीम्mohinīmश्रिताःśritāḥ

अन्वय

मोघाशाः मोघकर्माणः मोघज्ञानाः विचेतसः [जनाः] मोहिनीम् राक्षसीम् आसुरीम् च एव प्रकृतिम् श्रिताः [सन्ति] ।

Shloka 9.13

महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः । भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ॥९-१३॥

पदच्छेद

महात्मानःmahātmānaḥतुtuमाम्māmपार्थpārthaदैवीम्daivīmप्रकृतिम्prakṛtimआश्रिताःāśritāḥभजन्तिbhajantiअनन्य-मनसःananya-manasaḥज्ञात्वाjñātvāभूत-आदिम्bhūta-ādimअव्ययम्avyayam

अन्वय

पार्थ, दैवीम् प्रकृतिम् आश्रिताः महात्मानः तु अनन्यमनसः माम् भूतादिम् अव्ययम् ज्ञात्वा भजन्ति ।

Shloka 9.14

सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः । नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते ॥९-१४॥

पदच्छेद

सततम्satatamकीर्तयन्तःkīrtayantaḥमाम्māmयतन्तःyatantaḥचcaदृढ-व्रताःdṛḍha-vratāḥनमस्यन्तःnamasyantaḥचcaमाम्māmभक्त्याbhaktyāनित्य-युक्ताःnitya-yuktāḥउपासतेupāsate

अन्वय

माम् सततम् कीर्तयन्तः दृढव्रताः यतन्तः च माम् भक्त्या नमस्यन्तः च नित्ययुक्ताः [महात्मानः] उपासते ।

Shloka 9.15

ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते । एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् ॥९-१५॥

पदच्छेद

ज्ञान-यज्ञेनjñāna-yajñenaचcaअपिapiअन्येanyeयजन्तःyajantaḥमाम्māmउपासतेupāsateएकत्वेनekatvenaपृथक्त्वेनpṛthaktvenaबहुधाbahudhāविश्वतोमुखम्viśvatomukham

अन्वय

अन्ये च अपि ज्ञानयज्ञेन यजन्तः विश्वतोमुखम् माम् एकत्वेन पृथक्त्वेन बहुधा उपासते ।

Shloka 9.16

अहं क्रतुरहं यज्ञः स्वधाहमहमौषधम् । मन्त्रोऽहमहमेवाज्यमहमग्निरहं हुतम् ॥९-१६॥

पदच्छेद

अहम्ahamक्रतुःkratuḥअहम्ahamयज्ञःyajñaḥस्वधाsvadhāअहम्ahamअहम्ahamऔषधम्auṣadhamमन्त्रःmantraḥअहम्ahamअहम्ahamएवevaआज्यम्ājyamअहम्ahamअग्निःagniḥअहम्ahamहुतम्hutam

अन्वय

अहम् क्रतुः [अस्मि]; अहम् यज्ञः [अस्मि]; अहम् स्वधा [अस्मि]; अहम् औषधम् [अस्मि]; अहम् मन्त्रः [अस्मि]; अहम् एव आज्यम् [अस्मि]; अहम् अग्निः [अस्मि]; अहम् हुतम् [अस्मि] ।

Shloka 9.17

पिताहमस्य जगतो माता धाता पितामहः । वेद्यं पवित्रमोंकार ऋक्साम यजुरेव च ॥९-१७॥

पदच्छेद

पिताpitāअहम्ahamअस्यasyaजगतःjagataḥमाताmātāधाताdhātāपितामहःpitāmahaḥवेद्यम्vedyamपवित्रम्pavitramओंकारःoṃkāraḥऋक्ṛkसामsāmaयजुःyajuḥएवevaचca

अन्वय

अहम् अस्य जगतः पिता माता धाता पितामहः [अस्मि]; वेद्यम् पवित्रम् ओंकारः ऋक् साम यजुः एव च [अस्मि] ।

Shloka 9.18

गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् । प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम् ॥९-१८॥

पदच्छेद

गतिःgatiḥभर्ताbhartāप्रभुःprabhuḥसाक्षीsākṣīनिवासःnivāsaḥशरणम्śaraṇamसुहृत्suhṛtप्रभवःprabhavaḥप्रलयःpralayaḥस्थानम्sthānamनिधानम्nidhānamबीजम्bījamअव्ययम्avyayam

अन्वय

[अहम्] गतिः भर्ता प्रभुः साक्षी निवासः शरणम् सुहृत् प्रभवः प्रलयः स्थानम् निधानम् अव्ययम् बीजम् [अस्मि] ।

Shloka 9.19

तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च । अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन ॥९-१९॥

पदच्छेद

तपामिtapāmiअहम्ahamअहम्ahamवर्षम्varṣamनिगृह्णामिnigṛhṇāmiउत्सृजामिutsṛjāmiचcaअमृतम्amṛtamचcaएवevaमृत्युःmṛtyuḥचcaसत्satअसत्asatचcaअहम्ahamअर्जुनarjuna

अन्वय

अर्जुन, अहम् तपामि; अहम् वर्षम् निगृह्णामि, उत्सृजामि च । अहम् अमृतम् च एव मृत्युः च सत् असत् च [अस्मि] ।

Shloka 9.20

त्रैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते । ते पुण्यमासाद्य सुरेन्द्रलोक- मश्नन्ति दिव्यान्दिवि देवभोगान् ॥९-२०॥

पदच्छेद

त्रैविद्याःtraividyāḥमाम्māmसोम-पाःsoma-pāḥपूत-पापाःpūta-pāpāḥयज्ञैःyajñaiḥइष्ट्वाiṣṭvāस्वर्-गतिम्svar-gatimप्रार्थयन्तेprārthayanteतेteपुण्यम्puṇyamआसाद्यāsādyaसुरेन्द्र-लोकम्surendra-lokamअश्नन्तिaśnantiदिव्यान्divyānदिविdiviदेव-भोगान्deva-bhogān

अन्वय

त्रैविद्याः सोमपाः पूतपापाः [जनाः] माम् यज्ञैः इष्ट्वा स्वर्गतिम् प्रार्थयन्ते । ते पुण्यम् सुरेन्द्रलोकम् आसाद्य दिवि दिव्यान् देवभोगान् अश्नन्ति ।

Shloka 9.21

ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति । एवं त्रयीधर्ममनुप्रपन्ना गतागतं कामकामा लभन्ते ॥९-२१॥

पदच्छेद

तेteतम्tamभुक्त्वाbhuktvāस्वर्ग-लोकम्svarga-lokamविशालम्viśālamक्षीणेkṣīṇeपुण्येpuṇyeमर्त्य-लोकम्martya-lokamविशन्तिviśantiएवम्evamत्रयी-धर्मम्trayī-dharmamअनुप्रपन्नाःanuprapannāḥगतागतम्gatāgatamकाम-कामाःkāma-kāmāḥलभन्तेlabhante

अन्वय

ते तम् विशालम् स्वर्गलोकम् भुक्त्वा पुण्ये क्षीणे मर्त्यलोकम् विशन्ति । एवम् त्रयीधर्मम् अनुप्रपन्नाः कामकामाः गतागतम् लभन्ते ।

Shloka 9.22

अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते । तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥९-२२॥

पदच्छेद

अनन्याःananyāḥचिन्तयन्तःcintayantaḥमाम्māmयेyeजनाःjanāḥपर्युपासतेparyupāsateतेषाम्teṣāmनित्य-अभियुक्तानाम्nitya-abhiyuktānāmयोग-क्षेमम्yoga-kṣemamवहामिvahāmiअहम्aham

अन्वय

ये अनन्याः जनाः माम् चिन्तयन्तः पर्युपासते, तेषाम् नित्याभियुक्तानाम् योगक्षेमम् अहम् वहामि ।

Shloka 9.23

येऽप्यन्यदेवताभक्ता यजन्ते श्रद्धयान्विताः । तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् ॥९-२३॥

पदच्छेद

येyeअपिapiअन्य-देवता-भक्ताःanya-devatā-bhaktāḥयजन्तेyajanteश्रद्धयाśraddhayāअन्विताःanvitāḥतेteअपिapiमाम्māmएवevaकौन्तेयkaunteyaयजन्तिyajantiअविधि-पूर्वकम्avidhi-pūrvakam

अन्वय

कौन्तेय, ये अपि अन्यदेवताभक्ताः श्रद्धया अन्विताः यजन्ते, ते अपि माम् एव अविधिपूर्वकम् यजन्ति ।

Shloka 9.24

अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च । न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते ॥९-२४॥

पदच्छेद

अहम्ahamहिhiसर्व-यज्ञानाम्sarva-yajñānāmभोक्ताbhoktāचcaप्रभुःprabhuḥएवevaचcaनnaतुtuमाम्māmअभिजानन्तिabhijānantiतत्त्वेनtattvenaअतःataḥच्यवन्तिcyavantiतेte

अन्वय

हि अहम् सर्वयज्ञानाम् भोक्ता च प्रभुः एव च [अस्मि] । ते तु माम् तत्त्वेन न अभिजानन्ति; अतः च्यवन्ति ।

Shloka 9.25

यान्ति देवव्रता देवान्पितॄन्यान्ति पितृव्रताः । भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम् ॥९-२५॥

पदच्छेद

यान्तिyāntiदेव-व्रताःdeva-vratāḥदेवान्devānपितॄन्pitṝnयान्तिyāntiपितृ-व्रताःpitṛ-vratāḥभूतानिbhūtāniयान्तिyāntiभूत-इज्याःbhūta-ijyāḥयान्तिyāntiमद्-याजिनःmad-yājinaḥअपिapiमाम्mām

अन्वय

देवव्रताः देवान् यान्ति; पितृव्रताः पितॄन् यान्ति; भूतेज्याः भूतानि यान्ति; मद्याजिनः अपि माम् यान्ति ।

Shloka 9.26

पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति । तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः ॥९-२६॥

पदच्छेद

पत्रम्patramपुष्पम्puṣpamफलम्phalamतोयम्toyamयःyaḥमेmeभक्त्याbhaktyāप्रयच्छतिprayacchatiतत्tatअहम्ahamभक्ति-उपहृतम्bhakti-upahṛtamअश्नामिaśnāmiप्रयतात्मनःprayatātmanaḥ

अन्वय

यः मे पत्रम् पुष्पम् फलम् तोयम् भक्त्या प्रयच्छति, [तस्य] प्रयतात्मनः भक्त्या उपहृतम् तत् अहम् अश्नामि ।

Shloka 9.27

यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् । यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ॥९-२७॥

पदच्छेद

यत्yatकरोषिkaroṣiयत्yatअश्नासिaśnāsiयत्yatजुहोषिjuhoṣiददासिdadāsiयत्yatयत्yatतपस्यसिtapasyasiकौन्तेयkaunteyaतत्tatकुरुष्वkuruṣvaमद्-अर्पणम्mad-arpaṇam

अन्वय

कौन्तेय, यत् करोषि, यत् अश्नासि, यत् जुहोषि, यत् ददासि, यत् तपस्यसि, तत् मदर्पणम् कुरुष्व ।

Shloka 9.28

शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः । संन्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि ॥९-२८॥

पदच्छेद

शुभ-अशुभ-फलैःśubha-aśubha-phalaiḥएवम्evamमोक्ष्यसेmokṣyaseकर्म-बन्धनैःkarma-bandhanaiḥसंन्यास-योग-युक्तात्माsaṃnyāsa-yoga-yuktātmāविमुक्तःvimuktaḥमाम्māmउपैष्यसिupaiṣyasi

अन्वय

एवम् शुभाशुभफलैः कर्मबन्धनैः मोक्ष्यसे । संन्यासयोगयुक्तात्मा विमुक्तः [सन्] माम् उपैष्यसि ।

Shloka 9.29

समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः । ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् ॥९-२९॥

पदच्छेद

समःsamaḥअहम्ahamसर्व-भूतेषुsarva-bhūteṣuनnaमेmeद्वेष्यःdveṣyaḥअस्तिastiनnaप्रियःpriyaḥयेyeभजन्तिbhajantiतुtuमाम्māmभक्त्याbhaktyāमयिmayiतेteतेषुteṣuचcaअपिapiअहम्aham

अन्वय

अहम् सर्वभूतेषु समः [अस्मि] । मे द्वेष्यः न अस्ति, प्रियः न [अस्ति] । ये तु माम् भक्त्या भजन्ति, ते मयि [सन्ति]; अहम् च अपि तेषु [अस्मि] ।

Shloka 9.30

अपि चेत्सुदुराचारो भजते मामनन्यभाक् । साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः ॥९-३०॥

पदच्छेद

अपिapiचेत्cetसुदुराचारःsudurācāraḥभजतेbhajateमाम्māmअनन्य-भाक्ananya-bhākसाधुःsādhuḥएवevaसःsaḥमन्तव्यःmantavyaḥसम्यक्samyakव्यवसितःvyavasitaḥहिhiसःsaḥ

अन्वय

अनन्यभाक् [जनः] सुदुराचारः अपि चेत् माम् भजते, सः साधुः एव मन्तव्यः [अस्ति]; हि सः सम्यक् व्यवसितः [अस्ति] ।

Shloka 9.31

क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति । कौन्तेय प्रति जानीहि न मे भक्तः प्रणश्यति ॥९-३१॥

पदच्छेद

क्षिप्रम्kṣipramभवतिbhavatiधर्मात्माdharmātmāशश्वत्śaśvatशान्तिम्śāntimनिगच्छतिnigacchatiकौन्तेयkaunteyaप्रतिजानीहिpratijānīhiनnaमेmeभक्तःbhaktaḥप्रणश्यतिpraṇaśyati

अन्वय

[सः] क्षिप्रम् धर्मात्मा भवति, शश्वत् शान्तिम् निगच्छति । कौन्तेय, मे भक्तः न प्रणश्यति इति प्रति जानीहि ।

Shloka 9.32

मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः । स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् ॥९-३२॥

पदच्छेद

माम्māmहिhiपार्थpārthaव्यपाश्रित्यvyapāśrityaयेyeअपिapiस्युःsyuḥपाप-योनयःpāpa-yonayaḥस्त्रियःstriyaḥवैश्याःvaiśyāḥतथाtathāशूद्राःśūdrāḥतेteअपिapiयान्तिyāntiपराम्parāmगतिम्gatim

अन्वय

पार्थ, हि माम् व्यपाश्रित्य ये अपि पापयोनयः स्युः, स्त्रियः वैश्याः तथा शूद्राः, ते अपि पराम् गतिम् यान्ति ।

Shloka 9.33

किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा । अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम् ॥९-३३॥

पदच्छेद

किम्kimपुनःpunaḥब्राह्मणाःbrāhmaṇāḥपुण्याःpuṇyāḥभक्ताःbhaktāḥराजर्षयःrājarṣayaḥतथाtathāअनित्यम्anityamअसुखम्asukhamलोकम्lokamइमम्imamप्राप्यprāpyaभजस्वbhajasvaमाम्mām

अन्वय

पुण्याः ब्राह्मणाः तथा भक्ताः राजर्षयः किं पुनः [पराम् गतिम् यान्ति]? अनित्यम् असुखम् इमम् लोकम् प्राप्य माम् भजस्व ।

Shloka 9.34

मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु । मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः ॥९-३४॥

पदच्छेद

मत्-मनाःmat-manāḥभवbhavaमद्-भक्तःmad-bhaktaḥमद्-याजीmad-yājīमाम्māmनमस्कुरुnamaskuruमाम्māmएवevaएष्यसिeṣyasiयुक्त्वाyuktvāएवम्evamआत्मानम्ātmānamमत्-परायणःmat-parāyaṇaḥ

अन्वय

मन्मनाः मद्भक्तः मद्याजी भव; माम् नमस्कुरु । एवम् आत्मानम् युक्त्वा मत्परायणः [सन्] माम् एव एष्यसि ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Chapters

Chapter 9 · Shlokas

Choose a number to read.

Read the whole chapter →