Sunday Meditation· Open to Everyone

आत्मसंयमयोगः

संस्कृत

Shloka 6.1

श्रीभगवानुवाच अनाश्रितः कर्मफलं कार्यं कर्म करोति यः । स संन्यासी च योगी च न निरग्निर्न चाक्रियः ॥६-१॥

पदच्छेद

श्री-भगवान्śrī-bhagavānउवाचuvācaअनाश्रितःanāśritaḥकर्म-फलम्karma-phalamकार्यम्kāryamकर्मkarmaकरोतिkarotiयःyaḥसःsaḥसंन्यासीsaṃnyāsīचcaयोगीyogīचcaनnaनिरग्निःniragniḥनnaचcaअक्रियःakriyaḥ

अन्वय

श्रीभगवान् उवाच-यः कर्मफलम् अनाश्रितः कार्यम् कर्म करोति, सः संन्यासी च योगी च [अस्ति]; निरग्निः न [संन्यासी अस्ति], अक्रियः च न [योगी अस्ति] ।

Shloka 6.2

यं संन्यासमिति प्राहुर्योगं तं विद्धि पाण्डव । न ह्यसंन्यस्तसंकल्पो योगी भवति कश्चन ॥६-२॥

पदच्छेद

यम्yamसंन्यासम्saṃnyāsamइतिitiप्राहुःprāhuḥयोगम्yogamतम्tamविद्धिviddhiपाण्डवpāṇḍavaनnaहिhiअसंन्यस्त-संकल्पःasaṃnyasta-saṃkalpaḥयोगीyogīभवतिbhavatiकश्चनkaścana

अन्वय

पाण्डव, यम् संन्यासम् इति प्राहुः, तम् योगम् विद्धि । हि असंन्यस्तसंकल्पः कश्चन योगी न भवति ।

Shloka 6.3

आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते । योगारूढस्य तस्यैव शमः कारणमुच्यते ॥६-३॥

पदच्छेद

आरुरुक्षोःārurukṣoḥमुनेःmuneḥयोगम्yogamकर्मkarmaकारणम्kāraṇamउच्यतेucyateयोग-आरूढस्यyoga-ārūḍhasyaतस्यtasyaएवevaशमःśamaḥकारणम्kāraṇamउच्यतेucyate

अन्वय

योगम् आरुरुक्षोः मुनेः कर्म कारणम् उच्यते । योगारूढस्य तस्य एव शमः कारणम् उच्यते ।

Shloka 6.4

यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते । सर्वसंकल्पसंन्यासी योगारूढस्तदोच्यते ॥६-४॥

पदच्छेद

यदाyadāहिhiनnaइन्द्रिय-अर्थेषुindriya-artheṣuनnaकर्मसुkarmasuअनुषज्जतेanuṣajjateसर्व-संकल्प-संन्यासीsarva-saṃkalpa-saṃnyāsīयोग-आरूढःyoga-ārūḍhaḥतदाtadāउच्यतेucyate

अन्वय

यदा हि [जनः] इन्द्रियार्थेषु न, कर्मसु न अनुषज्जते, तदा सर्वसंकल्पसंन्यासी [सः] योगारूढः उच्यते ।

Shloka 6.5

उद्धरेदात्मनात्मानं नात्मानमवसादयेत् । आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ॥६-५॥

पदच्छेद

उद्धरेत्uddharetआत्मनाātmanāआत्मानम्ātmānamनnaआत्मानम्ātmānamअवसादयेत्avasādayetआत्माātmāएवevaहिhiआत्मनःātmanaḥबन्धुःbandhuḥआत्माātmāएवevaरिपुःripuḥआत्मनःātmanaḥ

अन्वय

[जनः] आत्मना आत्मानम् उद्धरेत्, आत्मानम् न अवसादयेत् । हि आत्मा एव आत्मनः बन्धुः [अस्ति]; आत्मा एव आत्मनः रिपुः [अस्ति] ।

Shloka 6.6

बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जितः । अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् ॥६-६॥

पदच्छेद

बन्धुःbandhuḥआत्माātmāआत्मनःātmanaḥतस्यtasyaयेनyenaआत्माātmāएवevaआत्मनाātmanāजितःjitaḥअनात्मनःanātmanaḥतुtuशत्रुत्वेśatrutveवर्तेतvartetaआत्माātmāएवevaशत्रुवत्śatruvat

अन्वय

येन आत्मना आत्मा एव जितः [अस्ति], तस्य आत्मनः आत्मा बन्धुः [अस्ति] । अनात्मनः तु आत्मा एव शत्रुवत् शत्रुत्वे वर्तेत ।

Shloka 6.7

जितात्मनः प्रशान्तस्य परमात्मा समाहितः । शीतोष्णसुखदुःखेषु तथा मानापमानयोः ॥६-७॥

पदच्छेद

जितात्मनःjitātmanaḥप्रशान्तस्यpraśāntasyaपरमात्माparamātmāसमाहितःsamāhitaḥशीत-उष्ण-सुख-दुःखेषुśīta-uṣṇa-sukha-duḥkheṣuतथाtathāमान-अपमानयोःmāna-apamānayoḥ

अन्वय

जितात्मनः प्रशान्तस्य परमात्मा शीतोष्णसुखदुःखेषु तथा मानापमानयोः समाहितः [अस्ति] ।

Shloka 6.8

ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः । युक्त इत्युच्यते योगी समलोष्टाश्मकाञ्चनः ॥६-८॥

पदच्छेद

ज्ञान-विज्ञान-तृप्त-आत्माjñāna-vijñāna-tṛpta-ātmāकूटस्थःkūṭasthaḥविजित-इन्द्रियःvijita-indriyaḥयुक्तःyuktaḥइतिitiउच्यतेucyateयोगीyogīसम-लोष्ट-अश्म-काञ्चनःsama-loṣṭa-aśma-kāñcanaḥ

अन्वय

ज्ञानविज्ञानतृप्तात्मा कूटस्थः विजितेन्द्रियः समलोष्टाश्मकाञ्चनः योगी युक्तः इति उच्यते ।

Shloka 6.9

सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु । साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते ॥६-९॥

पदच्छेद

सुहृद्-मित्र-अरि-उदासीन-मध्यस्थ-द्वेष्य-बन्धुषुsuhṛd-mitra-ari-udāsīna-madhyastha-dveṣya-bandhuṣuसाधुषुsādhuṣuअपिapiचcaपापेषुpāpeṣuसम-बुद्धिःsama-buddhiḥविशिष्यतेviśiṣyate

अन्वय

सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु, साधुषु अपि च पापेषु समबुद्धिः [जनः] विशिष्यते ।

Shloka 6.10

योगी युञ्जीत सततमात्मानं रहसि स्थितः । एकाकी यतचित्तात्मा निराशीरपरिग्रहः ॥६-१०॥

पदच्छेद

योगीyogīयुञ्जीतyuñjītaसततम्satatamआत्मानम्ātmānamरहसिrahasiस्थितःsthitaḥएकाकीekākīयत-चित्त-आत्माyata-citta-ātmāनिराशीःnirāśīḥअपरिग्रहःaparigrahaḥ

अन्वय

रहसि स्थितः एकाकी यतचित्तात्मा निराशीः अपरिग्रहः योगी सततम् आत्मानम् युञ्जीत ।

Shloka 6.11

शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः । नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् ॥६-११॥

पदच्छेद

शुचौśucauदेशेdeśeप्रतिष्ठाप्यpratiṣṭhāpyaस्थिरम्sthiramआसनम्āsanamआत्मनःātmanaḥनnaअतिatiउच्छ्रितम्ucchritamनnaअतिatiनीचम्nīcamचैल-अजिन-कुश-उत्तरम्caila-ajina-kuśa-uttaram

अन्वय

शुचौ देशे आत्मनः स्थिरम् आसनम् न अत्युच्छ्रितम् न अतिनीचम् चैलाजिनकुशोत्तरम् प्रतिष्ठाप्य, [तत्र आसने उपविश्य योगम् युञ्ज्यात्] ।

Shloka 6.12

तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः । उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये ॥६-१२॥

पदच्छेद

तत्रtatraएकाग्रम्ekāgramमनःmanaḥकृत्वाkṛtvāयत-चित्त-इन्द्रिय-क्रियःyata-citta-indriya-kriyaḥउपविश्यupaviśyaआसनेāsaneयुञ्ज्यात्yuñjyātयोगम्yogamआत्म-विशुद्धयेātma-viśuddhaye

अन्वय

[शुचौ देशे आत्मनः स्थिरम् आसनम् प्रतिष्ठाप्य], तत्र आसने उपविश्य मनः एकाग्रम् कृत्वा यतचित्तेन्द्रियक्रियः [योगी] आत्मविशुद्धये योगम् युञ्ज्यात् ।

Shloka 6.13

समं कायशिरोग्रीवं धारयन्नचलं स्थिरः । सम्प्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् ॥६-१३॥

पदच्छेद

समम्samamकाय-शिरस्-ग्रीवम्kāya-śiras-grīvamधारयन्dhārayanअचलम्acalamस्थिरःsthiraḥसम्प्रेक्ष्यsamprekṣyaनासिका-अग्रम्nāsikā-agramस्वम्svamदिशःdiśaḥचcaअनवलोकयन्anavalokayan

अन्वय

स्थिरः [योगी] कायशिरोग्रीवम् समम् अचलम् धारयन् स्वम् नासिकाग्रम् सम्प्रेक्ष्य दिशः च अनवलोकयन्, [प्रशान्तात्मा विगतभीः ब्रह्मचारिव्रते स्थितः मनः संयम्य मच्चित्तः युक्तः मत्परः आसीत] ।

Shloka 6.14

प्रशान्तात्मा विगतभीर्ब्रह्मचारिव्रते स्थितः । मनः संयम्य मच्चित्तो युक्त आसीत मत्परः ॥६-१४॥

पदच्छेद

प्रशान्तात्माpraśāntātmāविगत-भीःvigata-bhīḥब्रह्मचारि-व्रतेbrahmacāri-vrateस्थितःsthitaḥमनःmanaḥसंयम्यsaṃyamyaमच्चित्तःmaccittaḥयुक्तःyuktaḥआसीतāsītaमत्परःmatparaḥ

अन्वय

[कायशिरोग्रीवम् समम् अचलम् धारयन् स्वम् नासिकाग्रम् सम्प्रेक्ष्य दिशः च अनवलोकयन्], प्रशान्तात्मा विगतभीः ब्रह्मचारिव्रते स्थितः [योगी] मनः संयम्य मच्चित्तः युक्तः मत्परः आसीत ।

Shloka 6.15

युञ्जन्नेवं सदात्मानं योगी नियतमानसः । शान्तिं निर्वाणपरमां मत्संस्थामधिगच्छति ॥६-१५॥

पदच्छेद

युञ्जन्yuñjanएवम्evamसदाsadāआत्मानम्ātmānamयोगीyogīनियत-मानसःniyata-mānasaḥशान्तिम्śāntimनिर्वाण-परमाम्nirvāṇa-paramāmमत्संस्थाम्matsaṃsthāmअधिगच्छतिadhigacchati

अन्वय

एवम् सदा आत्मानम् युञ्जन् नियतमानसः योगी निर्वाणपरमाम् मत्संस्थाम् शान्तिम् अधिगच्छति ।

Shloka 6.16

नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नतः । न चाति स्वप्नशीलस्य जाग्रतो नैव चार्जुन ॥६-१६॥

पदच्छेद

नnaअतिatiअश्नतःaśnataḥतुtuयोगःyogaḥअस्तिastiनnaचcaएकान्तम्ekāntamअनश्नतःanaśnataḥनnaचcaअति-स्वप्नशीलस्यati-svapnaśīlasyaजाग्रतःjāgrataḥनnaएवevaचcaअर्जुनarjuna

अन्वय

अर्जुन, अत्यश्नतः तु योगः न अस्ति, एकान्तम् अनश्नतः च न [अस्ति], अतिस्वप्नशीलस्य च न [अस्ति], जाग्रतः च न एव [अस्ति] ।

Shloka 6.17

युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु । युक्तस्वप्नावबोधस्य योगो भवति दुःखहा ॥६-१७॥

पदच्छेद

युक्त-आहार-विहारस्यyukta-āhāra-vihārasyaयुक्त-चेष्टस्यyukta-ceṣṭasyaकर्मसुkarmasuयुक्त-स्वप्न-अवबोधस्यyukta-svapna-avabodhasyaयोगःyogaḥभवतिbhavatiदुःखहाduḥkhahā

अन्वय

युक्ताहारविहारस्य कर्मसु युक्तचेष्टस्य युक्तस्वप्नावबोधस्य [जनस्य] योगः दुःखहा भवति ।

Shloka 6.18

यदा विनियतं चित्तमात्मन्येवावतिष्ठते । निःस्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा ॥६-१८॥

पदच्छेद

यदाyadāविनियतम्viniyatamचित्तम्cittamआत्मनिātmaniएवevaअवतिष्ठतेavatiṣṭhateनिःस्पृहःniḥspṛhaḥसर्व-कामेभ्यःsarva-kāmebhyaḥयुक्तःyuktaḥइतिitiउच्यतेucyateतदाtadā

अन्वय

यदा विनियतम् चित्तम् आत्मनि एव अवतिष्ठते, तदा सर्वकामेभ्यः निःस्पृहः [जनः] युक्तः इति उच्यते ।

Shloka 6.19

यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता । योगिनो यतचित्तस्य युञ्जतो योगमात्मनः ॥६-१९॥

पदच्छेद

यथाyathāदीपःdīpaḥनिवातस्थःnivātasthaḥनnaइङ्गतेiṅgateसाsāउपमाupamāस्मृताsmṛtāयोगिनःyoginaḥयत-चित्तस्यyata-cittasyaयुञ्जतःyuñjataḥयोगम्yogamआत्मनःātmanaḥ

अन्वय

यथा निवातस्थः दीपः न इङ्गते, सा उपमा यतचित्तस्य आत्मनः योगम् युञ्जतः योगिनः स्मृता [अस्ति] ।

Shloka 6.20

यत्रोपरमते चित्तं निरुद्धं योगसेवया । यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति ॥६-२०॥

पदच्छेद

यत्रyatraउपरमतेuparamateचित्तम्cittamनिरुद्धम्niruddhamयोग-सेवयाyoga-sevayāयत्रyatraचcaएवevaआत्मनाātmanāआत्मानम्ātmānamपश्यन्paśyanआत्मनिātmaniतुष्यतिtuṣyati

अन्वय

यत्र योगसेवया निरुद्धम् चित्तम् उपरमते, यत्र च एव [योगी] आत्मना आत्मानम् पश्यन् आत्मनि तुष्यति, [तम् योगसंज्ञितम् दुःखसंयोगवियोगम् विद्यात्] ।

Shloka 6.21

सुखमात्यन्तिकं यत्तद् बुद्धिग्राह्यमतीन्द्रियम् । वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः ॥६-२१॥

पदच्छेद

सुखम्sukhamआत्यन्तिकम्ātyantikamयत्yatतत्tatबुद्धि-ग्राह्यम्buddhi-grāhyamअतीन्द्रियम्atīndriyamवेत्तिvettiयत्रyatraनnaचcaएवevaअयम्ayamस्थितःsthitaḥचलतिcalatiतत्त्वतःtattvataḥ

अन्वय

यत्र [योगी] यत् बुद्धिग्राह्यम् अतीन्द्रियम् आत्यन्तिकम् सुखम् [अस्ति], तत् वेत्ति, यत्र स्थितः च एव अयम् तत्त्वतः न चलति, [तम् योगसंज्ञितम् दुःखसंयोगवियोगम् विद्यात्] ।

Shloka 6.22

यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः । यस्मिन्स्थितो न दुःखेन गुरुणापि विचाल्यते ॥६-२२॥

पदच्छेद

यम्yamलब्ध्वाlabdhvāचcaअपरम्aparamलाभम्lābhamमन्यतेmanyateनnaअधिकम्adhikamततःtataḥयस्मिन्yasminस्थितःsthitaḥनnaदुःखेनduḥkhenaगुरुणाguruṇāअपिapiविचाल्यतेvicālyate

अन्वय

यम् लब्ध्वा च [योगी] ततः अधिकम् अपरम् लाभम् न मन्यते, यस्मिन् स्थितः गुरुणा दुःखेन अपि न विचाल्यते, [तम् योगसंज्ञितम् दुःखसंयोगवियोगम् विद्यात्] ।

Shloka 6.23

तं विद्याद्‌दुःखसंयोगवियोगं योगसंज्ञितम् । स निश्चयेन योक्तव्यो योगोऽनिर्विण्णचेतसा ॥६-२३॥

पदच्छेद

तम्tamविद्यात्vidyātदुःख-संयोग-वियोगम्duḥkha-saṃyoga-viyogamयोग-संज्ञितम्yoga-saṃjñitamसःsaḥनिश्चयेनniścayenaयोक्तव्यःyoktavyaḥयोगःyogaḥअनिर्विण्ण-चेतसाanirviṇṇa-cetasā

अन्वय

[पूर्वोक्तम्] तम् दुःखसंयोगवियोगम् योगसंज्ञितम् विद्यात् । सः योगः अनिर्विण्णचेतसा निश्चयेन योक्तव्यः [अस्ति] ।

Shloka 6.24

संकल्पप्रभवान्कामांस्त्यक्त्वा सर्वानशेषतः । मनसैवेन्द्रियग्रामं विनियम्य समन्ततः ॥६-२४॥

पदच्छेद

संकल्प-प्रभवान्saṃkalpa-prabhavānकामान्kāmānत्यक्त्वाtyaktvāसर्वान्sarvānअशेषतःaśeṣataḥमनसाmanasāएवevaइन्द्रिय-ग्रामम्indriya-grāmamविनियम्यviniyamyaसमन्ततःsamantataḥ

अन्वय

संकल्पप्रभवान् सर्वान् कामान् अशेषतः त्यक्त्वा, मनसा एव इन्द्रियग्रामम् समन्ततः विनियम्य, [धृतिगृहीतया बुद्ध्या शनैः शनैः उपरमेत्] ।

Shloka 6.25

शनैः शनैरुपरमेद्‌बुद्ध्या धृतिगृहीतया । आत्मसंस्थं मनः कृत्वा न किंचिदपि चिन्तयेत् ॥६-२५॥

पदच्छेद

शनैःśanaiḥशनैःśanaiḥउपरमेत्uparametबुद्ध्याbuddhyāधृति-गृहीतयाdhṛti-gṛhītayāआत्म-संस्थम्ātma-saṃsthamमनःmanaḥकृत्वाkṛtvāनnaकिंचित्kiṃcitअपिapiचिन्तयेत्cintayet

अन्वय

[संकल्पप्रभवान् सर्वान् कामान् अशेषतः त्यक्त्वा मनसा एव इन्द्रियग्रामम् समन्ततः विनियम्य], धृतिगृहीतया बुद्ध्या शनैः शनैः उपरमेत् । मनः आत्मसंस्थम् कृत्वा किञ्चित् अपि न चिन्तयेत् ।

Shloka 6.26

यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् । ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् ॥६-२६॥

पदच्छेद

यतःyataḥयतःyataḥनिश्चरतिniścaratiमनःmanaḥचञ्चलम्cañcalamअस्थिरम्asthiramततःtataḥततःtataḥनियम्यniyamyaएतत्etatआत्मनिātmaniएवevaवशम्vaśamनयेत्nayet

अन्वय

चञ्चलम् अस्थिरम् मनः यतः यतः निश्चरति, ततः ततः एतत् नियम्य आत्मनि एव वशम् नयेत् ।

Shloka 6.27

प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् । उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् ॥६-२७॥

पदच्छेद

प्रशान्त-मनसम्praśānta-manasamहिhiएनम्enamयोगिनम्yoginamसुखम्sukhamउत्तमम्uttamamउपैतिupaitiशान्त-रजसम्śānta-rajasamब्रह्म-भूतम्brahma-bhūtamअकल्मषम्akalmaṣam

अन्वय

हि उत्तमम् सुखम् प्रशान्तमनसम् शान्तरजसम् ब्रह्मभूतम् अकल्मषम् एनम् योगिनम् उपैति ।

Shloka 6.28

युञ्जन्नेवं सदात्मानं योगी विगतकल्मषः । सुखेन ब्रह्मसंस्पर्शमत्यन्तं सुखमश्नुते ॥६-२८॥

पदच्छेद

युञ्जन्yuñjanएवम्evamसदाsadāआत्मानम्ātmānamयोगीyogīविगत-कल्मषःvigata-kalmaṣaḥसुखेनsukhenaब्रह्म-संस्पर्शम्brahma-saṃsparśamअत्यन्तम्atyantamसुखम्sukhamअश्नुतेaśnute

अन्वय

एवम् सदा आत्मानम् युञ्जन् विगतकल्मषः योगी ब्रह्मसंस्पर्शम् अत्यन्तम् सुखम् सुखेन अश्नुते ।

Shloka 6.29

सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि । ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः ॥६-२९॥

पदच्छेद

सर्व-भूत-स्थम्sarva-bhūta-sthamआत्मानम्ātmānamसर्व-भूतानिsarva-bhūtāniचcaआत्मनिātmaniईक्षतेīkṣateयोग-युक्त-आत्माyoga-yukta-ātmāसर्वत्रsarvatraसम-दर्शनःsama-darśanaḥ

अन्वय

योगयुक्तात्मा सर्वत्र समदर्शनः [योगी] सर्वभूतस्थम् आत्मानम्, आत्मनि च सर्वभूतानि ईक्षते ।

Shloka 6.30

यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति । तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥६-३०॥

पदच्छेद

यःyaḥमाम्māmपश्यतिpaśyatiसर्वत्रsarvatraसर्वम्sarvamचcaमयिmayiपश्यतिpaśyatiतस्यtasyaअहम्ahamनnaप्रणश्यामिpraṇaśyāmiसःsaḥचcaमेmeनnaप्रणश्यतिpraṇaśyati

अन्वय

यः माम् सर्वत्र पश्यति, सर्वम् च मयि पश्यति, तस्य अहम् न प्रणश्यामि; सः च मे न प्रणश्यति ।

Shloka 6.31

सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः । सर्वथा वर्तमानोऽपि स योगी मयि वर्तते ॥६-३१॥

पदच्छेद

सर्व-भूत-स्थितम्sarva-bhūta-sthitamयःyaḥमाम्māmभजतिbhajatiएकत्वम्ekatvamआस्थितःāsthitaḥसर्वथाsarvathāवर्तमानःvartamānaḥअपिapiसःsaḥयोगीyogīमयिmayiवर्ततेvartate

अन्वय

यः एकत्वम् आस्थितः सर्वभूतस्थितम् माम् भजति, सः योगी सर्वथा वर्तमानः अपि मयि वर्तते ।

Shloka 6.32

आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन । सुखं वा यदि वा दुःखं स योगी परमो मतः ॥६-३२॥

पदच्छेद

आत्म-औपम्येनātma-aupamyenaसर्वत्रsarvatraसमम्samamपश्यतिpaśyatiयःyaḥअर्जुनarjunaसुखम्sukhamवाvāयदिyadiवाvāदुःखम्duḥkhamसःsaḥयोगीyogīपरमःparamaḥमतःmataḥ

अन्वय

अर्जुन, यः आत्मौपम्येन सर्वत्र सुखम् वा यदि वा दुःखम् समम् पश्यति, सः योगी परमः मतः [अस्ति] ।

Shloka 6.33

अर्जुन उवाच योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन । एतस्याहं न पश्यामि चञ्चलत्वात्स्थितिं स्थिराम् ॥६-३३॥

पदच्छेद

अर्जुनःarjunaḥउवाचuvācaयःyaḥअयम्ayamयोगःyogaḥत्वयाtvayāप्रोक्तःproktaḥसाम्येनsāmyenaमधुसूदनmadhusūdanaएतस्यetasyaअहम्ahamनnaपश्यामिpaśyāmiचञ्चलत्वात्cañcalatvātस्थितिम्sthitimस्थिराम्sthirām

अन्वय

अर्जुनः उवाच-मधुसूदन, यः अयम् योगः त्वया साम्येन प्रोक्तः [अस्ति], एतस्य स्थिराम् स्थितिम् अहम् चञ्चलत्वात् न पश्यामि ।

Shloka 6.34

चञ्चलं हि मनः कृष्ण प्रमाथि बलवद्‌दृढम् । तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् ॥६-३४॥

पदच्छेद

चञ्चलम्cañcalamहिhiमनःmanaḥकृष्णkṛṣṇaप्रमाथिpramāthiबलवत्balavatदृढम्dṛḍhamतस्यtasyaअहम्ahamनिग्रहम्nigrahamमन्येmanyeवायोःvāyoḥइवivaसुदुष्करम्suduṣkaram

अन्वय

कृष्ण, हि मनः चञ्चलम् प्रमाथि बलवत् दृढम् [अस्ति] । अहम् तस्य निग्रहम् वायोः इव सुदुष्करम् मन्ये ।

Shloka 6.35

श्रीभगवानुवाच असंशयं महाबाहो मनो दुर्निग्रहं चलम् । अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ॥६-३५॥

पदच्छेद

श्री-भगवान्śrī-bhagavānउवाचuvācaअसंशयम्asaṃśayamमहाबाहोmahābāhoमनःmanaḥदुर्निग्रहम्durnigrahamचलम्calamअभ्यासेनabhyāsenaतुtuकौन्तेयkaunteyaवैराग्येणvairāgyeṇaचcaगृह्यतेgṛhyate

अन्वय

श्रीभगवान् उवाच-महाबाहो, असंशयम् मनः दुर्निग्रहम् चलम् [अस्ति] । कौन्तेय, अभ्यासेन तु वैराग्येण च [तत्] गृह्यते ।

Shloka 6.36

असंयतात्मना योगो दुष्प्राप इति मे मतिः । वश्यात्मना तु यतता शक्योऽवाप्तुमुपायतः ॥६-३६॥

पदच्छेद

असंयत-आत्मनाasaṃyata-ātmanāयोगःyogaḥदुष्प्रापःduṣprāpaḥइतिitiमेmeमतिःmatiḥवश्य-आत्मनाvaśya-ātmanāतुtuयतताyatatāशक्यःśakyaḥअवाप्तुम्avāptumउपायतःupāyataḥ

अन्वय

असंयतात्मना योगः दुष्प्रापः इति मे मतिः [अस्ति] । वश्यात्मना तु यतता [योगः] उपायतः अवाप्तुम् शक्यः [अस्ति] ।

Shloka 6.37

अर्जुन उवाच अयतिः श्रद्धयोपेतो योगाच्चलितमानसः । अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति ॥६-३७॥

पदच्छेद

अर्जुनःarjunaḥउवाचuvācaअयतिःayatiḥश्रद्धयाśraddhayāउपेतःupetaḥयोगात्yogātचलित-मानसःcalita-mānasaḥअप्राप्यaprāpyaयोग-संसिद्धिम्yoga-saṃsiddhimकाम्kāmगतिम्gatimकृष्णkṛṣṇaगच्छतिgacchati

अन्वय

अर्जुनः उवाच-कृष्ण, श्रद्धया उपेतः अयतिः योगात् चलितमानसः [जनः] योगसंसिद्धिम् अप्राप्य काम् गतिम् गच्छति?

Shloka 6.38

कच्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यति । अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि ॥६-३८॥

पदच्छेद

कच्चित्kaccitनnaउभय-विभ्रष्टःubhaya-vibhraṣṭaḥछिन्न-अभ्रम्chinna-abhramइवivaनश्यतिnaśyatiअप्रतिष्ठःapratiṣṭhaḥमहाबाहोmahābāhoविमूढःvimūḍhaḥब्रह्मणःbrahmaṇaḥपथिpathi

अन्वय

महाबाहो, उभयविभ्रष्टः अप्रतिष्ठः ब्रह्मणः पथि विमूढः [सः] छिन्नाभ्रम् इव कच्चित् न नश्यति?

Shloka 6.39

एतन्मे संशयं कृष्ण छेत्तुमर्हस्यशेषतः । त्वदन्यः संशयस्यास्य छेत्ता न ह्युपपद्यते ॥६-३९॥

पदच्छेद

एतत्etatमेmeसंशयम्saṃśayamकृष्णkṛṣṇaछेत्तुम्chettumअर्हसिarhasiअशेषतःaśeṣataḥत्वदन्यःtvadanyaḥसंशयस्यsaṃśayasyaअस्यasyaछेत्ताchettāनnaहिhiउपपद्यतेupapadyate

अन्वय

कृष्ण, मे एतत् संशयम् अशेषतः छेत्तुम् अर्हसि । हि त्वदन्यः अस्य संशयस्य छेत्ता न उपपद्यते ।

Shloka 6.40

श्रीभगवानुवाच पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते । न हि कल्याणकृत्कश्चिद्‌दुर्गतिं तात गच्छति ॥६-४०॥

पदच्छेद

श्री-भगवान्śrī-bhagavānउवाचuvācaपार्थpārthaनnaएवevaइहihaनnaअमुत्रamutraविनाशःvināśaḥतस्यtasyaविद्यतेvidyateनnaहिhiकल्याण-कृत्kalyāṇa-kṛtकश्चित्kaścitदुर्गतिम्durgatimतातtātaगच्छतिgacchati

अन्वय

श्रीभगवान् उवाच-पार्थ, तस्य इह न एव, अमुत्र न [च] विनाशः विद्यते । हि तात, कश्चित् कल्याणकृत् दुर्गतिम् न गच्छति ।

Shloka 6.41

प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वतीः समाः । शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते ॥६-४१॥

पदच्छेद

प्राप्यprāpyaपुण्य-कृताम्puṇya-kṛtāmलोकान्lokānउषित्वाuṣitvāशाश्वतीःśāśvatīḥसमाःsamāḥशुचीनाम्śucīnāmश्रीमताम्śrīmatāmगेहेgeheयोग-भ्रष्टःyoga-bhraṣṭaḥअभिजायतेabhijāyate

अन्वय

योगभ्रष्टः पुण्यकृताम् लोकान् प्राप्य शाश्वतीः समाः उषित्वा शुचीनाम् श्रीमताम् गेहे अभिजायते ।

Shloka 6.42

अथवा योगिनामेव कुले भवति धीमताम् । एतद्धि दुर्लभतरं लोके जन्म यदीदृशम् ॥६-४२॥

पदच्छेद

अथवाathavāयोगिनाम्yogināmएवevaकुलेkuleभवतिbhavatiधीमताम्dhīmatāmएतत्etatहिhiदुर्लभतरम्durlabhataramलोकेlokeजन्मjanmaयत्yatईदृशम्īdṛśam

अन्वय

अथवा [योगभ्रष्टः] धीमताम् योगिनाम् एव कुले भवति । हि यत् ईदृशम् जन्म [अस्ति], एतत् लोके दुर्लभतरम् [अस्ति] ।

Shloka 6.43

तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् । यतते च ततो भूयः संसिद्धौ कुरुनन्दन ॥६-४३॥

पदच्छेद

तत्रtatraतम्tamबुद्धि-संयोगम्buddhi-saṃyogamलभतेlabhateपौर्व-देहिकम्paurva-dehikamयततेyatateचcaततःtataḥभूयःbhūyaḥसंसिद्धौsaṃsiddhauकुरुनन्दनkurunandana

अन्वय

कुरुनन्दन, तत्र [सः] तम् पौर्वदेहिकम् बुद्धिसंयोगम् लभते; ततः च संसिद्धौ भूयः यतते ।

Shloka 6.44

पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि सः । जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते ॥६-४४॥

पदच्छेद

पूर्व-अभ्यासेनpūrva-abhyāsenaतेनtenaएवevaह्रियतेhriyateहिhiअवशःavaśaḥअपिapiसःsaḥजिज्ञासुःjijñāsuḥअपिapiयोगस्यyogasyaशब्द-ब्रह्मśabda-brahmaअतिवर्ततेativartate

अन्वय

हि सः अवशः अपि तेन पूर्वाभ्यासेन एव ह्रियते । योगस्य जिज्ञासुः अपि शब्दब्रह्म अतिवर्तते ।

Shloka 6.45

प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्बिषः । अनेकजन्मसंसिद्धस्ततो याति परां गतिम् ॥६-४५॥

पदच्छेद

प्रयत्नात्prayatnātयतमानःyatamānaḥतुtuयोगीyogīसंशुद्ध-किल्बिषःsaṃśuddha-kilbiṣaḥअनेक-जन्म-संसिद्धःaneka-janma-saṃsiddhaḥततःtataḥयातिyātiपराम्parāmगतिम्gatim

अन्वय

प्रयत्नात् यतमानः तु संशुद्धकिल्बिषः अनेकजन्मसंसिद्धः योगी ततः पराम् गतिम् याति ।

Shloka 6.46

तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः । कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन ॥६-४६॥

पदच्छेद

तपस्विभ्यःtapasvibhyaḥअधिकःadhikaḥयोगीyogīज्ञानिभ्यःjñānibhyaḥअपिapiमतःmataḥअधिकःadhikaḥकर्मिभ्यःkarmibhyaḥचcaअधिकःadhikaḥयोगीyogīतस्मात्tasmātयोगीyogīभवbhavaअर्जुनarjuna

अन्वय

योगी तपस्विभ्यः अधिकः, ज्ञानिभ्यः अपि अधिकः मतः [अस्ति]; योगी कर्मिभ्यः च अधिकः [अस्ति] । तस्मात् अर्जुन, योगी भव ।

Shloka 6.47

योगिनामपि सर्वेषां मद्गतेनान्तरात्मना । श्रद्धावान् भजते यो मां स मे युक्ततमो मतः ॥६-४७॥

पदच्छेद

योगिनाम्yogināmअपिapiसर्वेषाम्sarveṣāmमद्गतेनmadgatenaअन्तरात्मनाantarātmanāश्रद्धावान्śraddhāvānभजतेbhajateयःyaḥमाम्māmसःsaḥमेmeयुक्ततमःyuktatamaḥमतःmataḥ

अन्वय

सर्वेषाम् योगिनाम् अपि यः श्रद्धावान् मद्गतेन अन्तरात्मना माम् भजते, सः मे युक्ततमः मतः [अस्ति] ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Chapters

Chapter 6 · Shlokas

Choose a number to read.

Read the whole chapter →