Sunday Meditation· Open to Everyone

श्रद्धात्रयविभागयोगः

संस्कृत

Shloka 17.1

अर्जुन उवाच ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः । तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः ॥१७-१॥

पदच्छेद

अर्जुनःarjunaḥउवाचuvācaयेyeशास्त्र-विधिम्śāstra-vidhimउत्सृज्यutsṛjyaयजन्तेyajanteश्रद्धयाśraddhayāअन्विताःanvitāḥतेषाम्teṣāmनिष्ठाniṣṭhāतुtuकाkāकृष्णkṛṣṇaसत्त्वम्sattvamआहोāhoरजःrajaḥतमःtamaḥ

अन्वय

अर्जुनः उवाच-कृष्ण, ये श्रद्धया अन्विताः शास्त्रविधिम् उत्सृज्य यजन्ते, तेषाम् तु निष्ठा का [अस्ति]? सत्त्वम् [अस्ति], आहो रजः तमः [वा अस्ति]?

Shloka 17.2

श्रीभगवानुवाच त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा । सात्त्विकी राजसी चैव तामसी चेति तां शृणु ॥१७-२॥

पदच्छेद

श्रीभगवान्śrībhagavānउवाचuvācaत्रिविधाtrividhāभवतिbhavatiश्रद्धाśraddhāदेहिनाम्dehināmसाsāस्वभावजाsvabhāvajāसात्त्विकीsāttvikīराजसीrājasīचcaएवevaतामसीtāmasīचcaइतिitiताम्tāmशृणुśṛṇu

अन्वय

श्रीभगवान् उवाच-देहिनाम् स्वभावजा सा श्रद्धा त्रिविधा भवति-सात्त्विकी राजसी च एव तामसी च इति । ताम् शृणु ।

Shloka 17.3

सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत । श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः ॥१७-३॥

पदच्छेद

सत्त्व-अनुरूपाsattva-anurūpāसर्वस्यsarvasyaश्रद्धाśraddhāभवतिbhavatiभारतbhārataश्रद्धामयःśraddhāmayaḥअयम्ayamपुरुषःpuruṣaḥयःyaḥयत्-श्रद्धःyat-śraddhaḥसःsaḥएवevaसःsaḥ

अन्वय

भारत, सर्वस्य श्रद्धा सत्त्वानुरूपा भवति । अयम् पुरुषः श्रद्धामयः [अस्ति] । यः यच्छ्रद्धः [अस्ति], सः एव सः [अस्ति] ।

Shloka 17.4

यजन्ते सात्त्विका देवान्यक्षरक्षांसि राजसाः । प्रेतान्भूतगणांश्चान्ये यजन्ते तामसा जनाः ॥१७-४॥

पदच्छेद

यजन्तेyajanteसात्त्विकाःsāttvikāḥदेवान्devānयक्ष-रक्षांसिyakṣa-rakṣāṃsiराजसाःrājasāḥप्रेतान्pretānभूत-गणान्bhūta-gaṇānचcaअन्येanyeयजन्तेyajanteतामसाःtāmasāḥजनाःjanāḥ

अन्वय

सात्त्विकाः देवान् यजन्ते; राजसाः यक्षरक्षांसि [यजन्ते]; अन्ये तामसाः जनाः प्रेतान् भूतगणान् च यजन्ते ।

Shloka 17.5

अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः । दम्भाहंकारसंयुक्ताः कामरागबलान्विताः ॥१७-५॥

पदच्छेद

अशास्त्रविहितम्aśāstravihitamघोरम्ghoramतप्यन्तेtapyanteयेyeतपःtapaḥजनाःjanāḥदम्भ-अहंकार-संयुक्ताःdambha-ahaṃkāra-saṃyuktāḥकाम-राग-बल-अन्विताःkāma-rāga-bala-anvitāḥ

अन्वय

ये दम्भाहंकारसंयुक्ताः कामरागबलान्विताः जनाः अशास्त्रविहितम् घोरम् तपः तप्यन्ते, [ते शरीरस्थम् भूतग्रामम् अन्तःशरीरस्थम् माम् च कर्षयन्तः अचेतसः सन्ति; तान् आसुरनिश्चयान् विद्धि] ।

Shloka 17.6

कर्षयन्तः शरीरस्थं भूतग्राममचेतसः । मां चैवान्तःशरीरस्थं तान्विद्ध्यासुरनिश्चयान् ॥१७-६॥

पदच्छेद

कर्षयन्तःkarṣayantaḥशरीरस्थम्śarīrasthamभूत-ग्रामम्bhūta-grāmamअचेतसःacetasaḥमाम्māmचcaएवevaअन्तः-शरीरस्थम्antaḥ-śarīrasthamतान्tānविद्धिviddhiआसुर-निश्चयान्āsura-niścayān

अन्वय

[ये जनाः अशास्त्रविहितम् घोरम् तपः तप्यन्ते, ते] शरीरस्थम् भूतग्रामम् अन्तःशरीरस्थम् माम् च एव कर्षयन्तः अचेतसः [सन्ति]; तान् आसुरनिश्चयान् विद्धि ।

Shloka 17.7

आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः । यज्ञस्तपस्तथा दानं तेषां भेदमिमं शृणु ॥१७-७॥

पदच्छेद

आहारःāhāraḥतुtuअपिapiसर्वस्यsarvasyaत्रिविधःtrividhaḥभवतिbhavatiप्रियःpriyaḥयज्ञःyajñaḥतपःtapaḥतथाtathāदानम्dānamतेषाम्teṣāmभेदम्bhedamइमम्imamशृणुśṛṇu

अन्वय

सर्वस्य प्रियः आहारः तु अपि त्रिविधः भवति । यज्ञः तपः तथा दानम् [अपि त्रिविधम् भवति] । तेषाम् इमम् भेदम् शृणु ।

Shloka 17.8

आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः । रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः ॥१७-८॥

पदच्छेद

आयुः-सत्त्व-बल-आरोग्य-सुख-प्रीति-विवर्धनाःāyuḥ-sattva-bala-ārogya-sukha-prīti-vivardhanāḥरस्याःrasyāḥस्निग्धाःsnigdhāḥस्थिराःsthirāḥहृद्याःhṛdyāḥआहाराःāhārāḥसात्त्विक-प्रियाःsāttvika-priyāḥ

अन्वय

आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः रस्याः स्निग्धाः स्थिराः हृद्याः आहाराः सात्त्विकप्रियाः [सन्ति] ।

Shloka 17.9

कट्‌वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः । आहारा राजसस्येष्टा दुःखशोकामयप्रदाः ॥१७-९॥

पदच्छेद

कटु-अम्ल-लवण-अत्युष्ण-तीक्ष्ण-रूक्ष-विदाहिनःkaṭu-amla-lavaṇa-atyuṣṇa-tīkṣṇa-rūkṣa-vidāhinaḥआहाराःāhārāḥराजसस्यrājasasyaइष्टाःiṣṭāḥदुःख-शोक-आमय-प्रदाःduḥkha-śoka-āmaya-pradāḥ

अन्वय

कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः दुःखशोकामयप्रदाः आहाराः राजसस्य इष्टाः [सन्ति] ।

Shloka 17.10

यातयामं गतरसं पूति पर्युषितं च यत् । उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् ॥१७-१०॥

पदच्छेद

यातयामम्yātayāmamगत-रसम्gata-rasamपूतिpūtiपर्युषितम्paryuṣitamचcaयत्yatउच्छिष्टम्ucchiṣṭamअपिapiचcaअमेध्यम्amedhyamभोजनम्bhojanamतामस-प्रियम्tāmasa-priyam

अन्वय

यत् भोजनम् यातयामम् गतरसम् पूति पर्युषितम् च उच्छिष्टम् अपि च अमेध्यम् [अस्ति], [तत्] तामसप्रियम् [अस्ति] ।

Shloka 17.11

अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते । यष्टव्यमेवेति मनः समाधाय स सात्त्विकः ॥१७-११॥

पदच्छेद

अफल-आकाङ्क्षिभिःaphala-ākāṅkṣibhiḥयज्ञःyajñaḥविधि-दृष्टःvidhi-dṛṣṭaḥयःyaḥइज्यतेijyateयष्टव्यम्yaṣṭavyamएवevaइतिitiमनःmanaḥसमाधायsamādhāyaसःsaḥसात्त्विकःsāttvikaḥ

अन्वय

अफलाकाङ्क्षिभिः यष्टव्यम् एव इति मनः समाधाय यः विधिदृष्टः यज्ञः इज्यते, सः सात्त्विकः [अस्ति] ।

Shloka 17.12

अभिसंधाय तु फलं दम्भार्थमपि चैव यत् । इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् ॥१७-१२॥

पदच्छेद

अभिसंधायabhisaṃdhāyaतुtuफलम्phalamदम्भ-अर्थम्dambha-arthamअपिapiचcaएवevaयत्yatइज्यतेijyateभरत-श्रेष्ठbharata-śreṣṭhaतम्tamयज्ञम्yajñamविद्धिviddhiराजसम्rājasam

अन्वय

भरतश्रेष्ठ, फलम् तु अभिसंधाय दम्भार्थम् अपि च एव यत् [यजनम्] इज्यते, तम् यज्ञम् राजसम् विद्धि ।

Shloka 17.13

विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम् । श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ॥१७-१३॥

पदच्छेद

विधि-हीनम्vidhi-hīnamअसृष्ट-अन्नम्asṛṣṭa-annamमन्त्र-हीनम्mantra-hīnamअदक्षिणम्adakṣiṇamश्रद्धा-विरहितम्śraddhā-virahitamयज्ञम्yajñamतामसम्tāmasamपरिचक्षतेparicakṣate

अन्वय

विधिहीनम् असृष्टान्नम् मन्त्रहीनम् अदक्षिणम् श्रद्धाविरहितम् यज्ञम् तामसम् परिचक्षते ।

Shloka 17.14

देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम् । ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते ॥१७-१४॥

पदच्छेद

देव-द्विज-गुरु-प्राज्ञ-पूजनम्deva-dvija-guru-prājña-pūjanamशौचम्śaucamआर्जवम्ārjavamब्रह्मचर्यम्brahmacaryamअहिंसाahiṃsāचcaशारीरम्śārīramतपःtapaḥउच्यतेucyate

अन्वय

देवद्विजगुरुप्राज्ञपूजनम् शौचम् आर्जवम् ब्रह्मचर्यम् अहिंसा च शारीरम् तपः उच्यते ।

Shloka 17.15

अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् । स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते ॥१७-१५॥

पदच्छेद

अनुद्वेग-करम्anudvega-karamवाक्यम्vākyamसत्यम्satyamप्रिय-हितम्priya-hitamचcaयत्yatस्वाध्याय-अभ्यसनम्svādhyāya-abhyasanamचcaएवevaवाङ्मयम्vāṅmayamतपःtapaḥउच्यतेucyate

अन्वय

यत् वाक्यम् अनुद्वेगकरम् सत्यम् प्रियहितम् च [अस्ति], [तत्] स्वाध्यायाभ्यसनम् च एव वाङ्मयम् तपः उच्यते ।

Shloka 17.16

मनः प्रसादः सौम्यत्वं मौनमात्मविनिग्रहः । भावसंशुद्धिरित्येतत्तपो मानसमुच्यते ॥१७-१६॥

पदच्छेद

मनः-प्रसादःmanaḥ-prasādaḥसौम्यत्वम्saumyatvamमौनम्maunamआत्म-विनिग्रहःātma-vinigrahaḥभाव-संशुद्धिःbhāva-saṃśuddhiḥइतिitiएतत्etatतपःtapaḥमानसम्mānasamउच्यतेucyate

अन्वय

मनःप्रसादः सौम्यत्वम् मौनम् आत्मविनिग्रहः भावसंशुद्धिः इति एतत् मानसम् तपः उच्यते ।

Shloka 17.17

श्रद्धया परया तप्तं तपस्तत्त्रिविधं नरैः । अफलाकाङ्क्षिभिर्युक्तैः सात्त्विकं परिचक्षते ॥१७-१७॥

पदच्छेद

श्रद्धयाśraddhayāपरयाparayāतप्तम्taptamतपःtapaḥतत्tatत्रिविधम्trividhamनरैःnaraiḥअफल-आकाङ्क्षिभिःaphala-ākāṅkṣibhiḥयुक्तैःyuktaiḥसात्त्विकम्sāttvikamपरिचक्षतेparicakṣate

अन्वय

युक्तैः अफलाकाङ्क्षिभिः नरैः परया श्रद्धया तप्तम् तत् त्रिविधम् तपः सात्त्विकम् परिचक्षते ।

Shloka 17.18

सत्कारमानपूजार्थं तपो दम्भेन चैव यत् । क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम् ॥१७-१८॥

पदच्छेद

सत्कार-मान-पूजा-अर्थम्satkāra-māna-pūjā-arthamतपःtapaḥदम्भेनdambhenaचcaएवevaयत्yatक्रियतेkriyateतत्tatइहihaप्रोक्तम्proktamराजसम्rājasamचलम्calamअध्रुवम्adhruvam

अन्वय

यत् तपः सत्कारमानपूजार्थम् दम्भेन च एव क्रियते, तत् इह राजसम् चलम् अध्रुवम् प्रोक्तम् [अस्ति] ।

Shloka 17.19

मूढग्राहेणात्मनो यत्पीडया क्रियते तपः । परस्योत्सादनार्थं वा तत्तामसमुदाहृतम् ॥१७-१९॥

पदच्छेद

मूढ-ग्राहेणmūḍha-grāheṇaआत्मनःātmanaḥयत्yatपीडयाpīḍayāक्रियतेkriyateतपःtapaḥपरस्यparasyaउत्सादन-अर्थम्utsādana-arthamवाvāतत्tatतामसम्tāmasamउदाहृतम्udāhṛtam

अन्वय

यत् तपः मूढग्राहेण आत्मनः पीडया परस्य उत्सादनार्थम् वा क्रियते, तत् तामसम् उदाहृतम् [अस्ति] ।

Shloka 17.20

दातव्यमिति यद्दानं दीयतेऽनुपकारिणे । देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम् ॥१७-२०॥

पदच्छेद

दातव्यम्dātavyamइतिitiयत्yatदानम्dānamदीयतेdīyateअनुपकारिणेanupakāriṇeदेशेdeśeकालेkāleचcaपात्रेpātreचcaतत्tatदानम्dānamसात्त्विकम्sāttvikamस्मृतम्smṛtam

अन्वय

दातव्यम् इति यत् दानम् अनुपकारिणे देशे काले च पात्रे च दीयते, तत् दानम् सात्त्विकम् स्मृतम् [अस्ति] ।

Shloka 17.21

यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः । दीयते च परिक्लिष्टं तद्दानं राजसं स्मृतम् ॥१७-२१॥

पदच्छेद

यत्yatतुtuप्रति-उपकार-अर्थम्prati-upakāra-arthamफलम्phalamउद्दिश्यuddiśyaवाvāपुनःpunaḥदीयतेdīyateचcaपरिक्लिष्टम्parikliṣṭamतत्tatदानम्dānamराजसम्rājasamस्मृतम्smṛtam

अन्वय

यत् दानम् तु प्रत्युपकारार्थम् फलम् उद्दिश्य वा पुनः परिक्लिष्टम् दीयते च, तत् दानम् राजसम् स्मृतम् [अस्ति] ।

Shloka 17.22

अदेशकाले यद्दानमपात्रेभ्यश्च दीयते । असत्कृतमवज्ञातं तत्तामसमुदाहृतम् ॥१७-२२॥

पदच्छेद

अदेशकालेadeśakāleयत्yatदानम्dānamअपात्रेभ्यःapātrebhyaḥचcaदीयतेdīyateअसत्कृतम्asatkṛtamअवज्ञातम्avajñātamतत्tatतामसम्tāmasamउदाहृतम्udāhṛtam

अन्वय

यत् दानम् अदेशकाले अपात्रेभ्यः च असत्कृतम् अवज्ञातम् दीयते, तत् तामसम् उदाहृतम् [अस्ति] ।

Shloka 17.23

ॐतत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः । ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा ॥१७-२३॥

पदच्छेद

ॐoṃतत्tatसत्satइतिitiनिर्देशःnirdeśaḥब्रह्मणःbrahmaṇaḥत्रिविधःtrividhaḥस्मृतःsmṛtaḥब्राह्मणाःbrāhmaṇāḥतेनtenaवेदाःvedāḥचcaयज्ञाःyajñāḥचcaविहिताःvihitāḥपुराpurā

अन्वय

ॐ तत् सत् इति ब्रह्मणः त्रिविधः निर्देशः स्मृतः [अस्ति] । तेन ब्राह्मणाः वेदाः च यज्ञाः च पुरा विहिताः [सन्ति] ।

Shloka 17.24

तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः । प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् ॥१७-२४॥

पदच्छेद

तस्मात्tasmātओम्omइतिitiउदाहृत्यudāhṛtyaयज्ञ-दान-तपः-क्रियाःyajña-dāna-tapaḥ-kriyāḥप्रवर्तन्तेpravartanteविधान-उक्ताःvidhāna-uktāḥसततम्satatamब्रह्म-वादिनाम्brahma-vādinām

अन्वय

तस्मात् ॐ इति उदाहृत्य ब्रह्मवादिनाम् विधानोक्ताः यज्ञदानतपःक्रियाः सततम् प्रवर्तन्ते ।

Shloka 17.25

तदित्यनभिसन्धाय फलं यज्ञतपःक्रियाः । दानक्रियाश्च विविधाः क्रियन्ते मोक्षकाङ्क्षिभिः ॥१७-२५॥

पदच्छेद

तत्tatइतिitiअनभिसन्धायanabhisandhāyaफलम्phalamयज्ञ-तपः-क्रियाःyajña-tapaḥ-kriyāḥदान-क्रियाःdāna-kriyāḥचcaविविधाःvividhāḥक्रियन्तेkriyanteमोक्ष-काङ्क्षिभिःmokṣa-kāṅkṣibhiḥ

अन्वय

मोक्षकाङ्क्षिभिः तत् इति फलम् अनभिसन्धाय यज्ञतपःक्रियाः विविधाः दानक्रियाः च क्रियन्ते ।

Shloka 17.26

सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते । प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते ॥१७-२६॥

पदच्छेद

सद्भावेsadbhāveसाधुभावेsādhubhāveचcaसत्satइतिitiएतत्etatप्रयुज्यतेprayujyateप्रशस्तेpraśasteकर्मणिkarmaṇiतथाtathāसत्-शब्दःsat-śabdaḥपार्थpārthaयुज्यतेyujyate

अन्वय

पार्थ, सद्भावे साधुभावे च सत् इति एतत् प्रयुज्यते । तथा प्रशस्ते कर्मणि सच्छब्दः युज्यते ।

Shloka 17.27

यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते । कर्म चैव तदर्थीयं सदित्येवाभिधीयते ॥१७-२७॥

पदच्छेद

यज्ञेyajñeतपसिtapasiदानेdāneचcaस्थितिःsthitiḥसत्satइतिitiचcaउच्यतेucyateकर्मkarmaचcaएवevaतत्-अर्थीयम्tat-arthīyamसत्satइतिitiएवevaअभिधीयतेabhidhīyate

अन्वय

यज्ञे तपसि दाने च स्थितिः सत् इति च उच्यते । तदर्थीयम् कर्म च एव सत् इति एव अभिधीयते ।

Shloka 17.28

अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् । असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह ॥१७-२८॥

पदच्छेद

अश्रद्धयाaśraddhayāहुतम्hutamदत्तम्dattamतपःtapaḥतप्तम्taptamकृतम्kṛtamचcaयत्yatअसत्asatइतिitiउच्यतेucyateपार्थpārthaनnaचcaतत्tatप्रेत्यpretyaनnaउuइहiha

अन्वय

पार्थ, अश्रद्धया यत् हुतम् दत्तम् तपः तप्तम् कृतम् च [अस्ति], तत् असत् इति उच्यते । तत् प्रेत्य न च [फलाय भवति], इह न उ [फलाय भवति] ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Chapters

Chapter 17 · Shlokas

Choose a number to read.

Read the whole chapter →