Sunday Meditation· Open to Everyone

विभूतियोगः

संस्कृत

Shloka 10.1

श्रीभगवानुवाच भूय एव महाबाहो शृणु मे परमं वचः । यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ॥१०-१॥

पदच्छेद

श्रीभगवान्śrībhagavānउवाचuvācaभूयःbhūyaḥएवevaमहाबाहोmahābāhoशृणुśṛṇuमेmeपरमम्paramamवचःvacaḥयत्yatतेteअहम्ahamप्रीयमाणायprīyamāṇāyaवक्ष्यामिvakṣyāmiहित-काम्ययाhita-kāmyayā

अन्वय

श्रीभगवान् उवाच-महाबाहो, भूयः एव मे परमम् वचः शृणु, यत् अहम् ते प्रीयमाणाय हितकाम्यया वक्ष्यामि ।

Shloka 10.2

न मे विदुः सुरगणाः प्रभवं न महर्षयः । अहमादिर्हि देवानां महर्षीणां च सर्वशः ॥१०-२॥

पदच्छेद

नnaमेmeविदुःviduḥसुर-गणाःsura-gaṇāḥप्रभवम्prabhavamनnaमहर्षयःmaharṣayaḥअहम्ahamआदिःādiḥहिhiदेवानाम्devānāmमहर्षीणाम्maharṣīṇāmचcaसर्वशःsarvaśaḥ

अन्वय

सुरगणाः मे प्रभवम् न विदुः; महर्षयः न [विदुः] । हि अहम् सर्वशः देवानाम् महर्षीणाम् च आदिः [अस्मि] ।

Shloka 10.3

यो मामजमनादिं च वेत्ति लोकमहेश्वरम् । असंमूढः स मर्त्येषु सर्वपापैः प्रमुच्यते ॥१०-३॥

पदच्छेद

यःyaḥमाम्māmअजम्ajamअनादिम्anādimचcaवेत्तिvettiलोक-महेश्वरम्loka-maheśvaramअसंमूढःasaṃmūḍhaḥसःsaḥमर्त्येषुmartyeṣuसर्व-पापैःsarva-pāpaiḥप्रमुच्यतेpramucyate

अन्वय

यः माम् अजम् अनादिम् च लोकमहेश्वरम् वेत्ति, सः मर्त्येषु असंमूढः [सन्] सर्वपापैः प्रमुच्यते ।

Shloka 10.4

बुद्धिर्ज्ञानमसंमोहः क्षमा सत्यं दमः शमः । सुखं दुःखं भवोऽभावो भयं चाभयमेव च ॥१०-४॥

पदच्छेद

बुद्धिःbuddhiḥज्ञानम्jñānamअसंमोहःasaṃmohaḥक्षमाkṣamāसत्यम्satyamदमःdamaḥशमःśamaḥसुखम्sukhamदुःखम्duḥkhamभवःbhavaḥअभावःabhāvaḥभयम्bhayamचcaअभयम्abhayamएवevaचca

अन्वय

बुद्धिः ज्ञानम् असंमोहः क्षमा सत्यम् दमः शमः सुखम् दुःखम् भवः अभावः भयम् च अभयम् एव च [इति भावाः भूतानाम् मत्तः एव पृथग्विधाः भवन्ति] ।

Shloka 10.5

अहिंसा समता तुष्टिस्तपो दानं यशोऽयशः । भवन्ति भावा भूतानां मत्त एव पृथग्विधाः ॥१०-५॥

पदच्छेद

अहिंसाahiṃsāसमताsamatāतुष्टिःtuṣṭiḥतपःtapaḥदानम्dānamयशःyaśaḥअयशःayaśaḥभवन्तिbhavantiभावाःbhāvāḥभूतानाम्bhūtānāmमत्तःmattaḥएवevaपृथग्विधाःpṛthagvidhāḥ

अन्वय

अहिंसा समता तुष्टिः तपः दानम् यशः अयशः [च], [बुद्धिः ज्ञानम् असंमोहः क्षमा सत्यम् दमः शमः सुखम् दुःखम् भवः अभावः भयम् अभयम् च इति] पृथग्विधाः भूतानाम् भावाः मत्तः एव भवन्ति ।

Shloka 10.6

महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा । मद्भावा मानसा जाता येषां लोक इमाः प्रजाः ॥१०-६॥

पदच्छेद

महर्षयःmaharṣayaḥसप्तsaptaपूर्वेpūrveचत्वारःcatvāraḥमनवःmanavaḥतथाtathāमद्-भावाःmad-bhāvāḥमानसाःmānasāḥजाताःjātāḥयेषाम्yeṣāmलोकेlokeइमाःimāḥप्रजाःprajāḥ

अन्वय

पूर्वे सप्त महर्षयः तथा चत्वारः मनवः मद्भावाः मानसाः जाताः [सन्ति], येषाम् लोके इमाः प्रजाः [सन्ति] ।

Shloka 10.7

एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः । सोऽविकम्पेन योगेन युज्यते नात्र संशयः ॥१०-७॥

पदच्छेद

एताम्etāmविभूतिम्vibhūtimयोगम्yogamचcaममmamaयःyaḥवेत्तिvettiतत्त्वतःtattvataḥसःsaḥअविकम्पेनavikampenaयोगेनyogenaयुज्यतेyujyateनnaअत्रatraसंशयःsaṃśayaḥ

अन्वय

यः मम एताम् विभूतिम् योगम् च तत्त्वतः वेत्ति, सः अविकम्पेन योगेन युज्यते । अत्र संशयः न [अस्ति] ।

Shloka 10.8

अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते । इति मत्वा भजन्ते मां बुधा भावसमन्विताः ॥१०-८॥

पदच्छेद

अहम्ahamसर्वस्यsarvasyaप्रभवःprabhavaḥमत्तःmattaḥसर्वम्sarvamप्रवर्ततेpravartateइतिitiमत्वाmatvāभजन्तेbhajanteमाम्māmबुधाःbudhāḥभाव-समन्विताःbhāva-samanvitāḥ

अन्वय

अहम् सर्वस्य प्रभवः [अस्मि]; मत्तः सर्वम् प्रवर्तते इति मत्वा भावसमन्विताः बुधाः माम् भजन्ते ।

Shloka 10.9

मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम् । कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च ॥१०-९॥

पदच्छेद

मत्-चित्ताःmat-cittāḥमद्-गत-प्राणाःmad-gata-prāṇāḥबोधयन्तःbodhayantaḥपरस्परम्parasparamकथयन्तःkathayantaḥचcaमाम्māmनित्यम्nityamतुष्यन्तिtuṣyantiचcaरमन्तिramantiचca

अन्वय

मच्चित्ताः मद्गतप्राणाः [बुधाः] परस्परम् बोधयन्तः माम् च नित्यम् कथयन्तः तुष्यन्ति च रमन्ति च ।

Shloka 10.10

तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् । ददामि बुद्धियोगं तं येन मामुपयान्ति ते ॥१०-१०॥

पदच्छेद

तेषाम्teṣāmसतत-युक्तानाम्satata-yuktānāmभजताम्bhajatāmप्रीति-पूर्वकम्prīti-pūrvakamददामिdadāmiबुद्धि-योगम्buddhi-yogamतम्tamयेनyenaमाम्māmउपयान्तिupayāntiतेte

अन्वय

तेषाम् सततयुक्तानाम् प्रीतिपूर्वकम् भजताम् तम् बुद्धियोगम् ददामि, येन ते माम् उपयान्ति ।

Shloka 10.11

तेषामेवानुकम्पार्थमहमज्ञानजं तमः । नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ॥१०-११॥

पदच्छेद

तेषाम्teṣāmएवevaअनुकम्पा-अर्थम्anukampā-arthamअहम्ahamअज्ञान-जम्ajñāna-jamतमःtamaḥनाशयामिnāśayāmiआत्म-भाव-स्थःātma-bhāva-sthaḥज्ञान-दीपेनjñāna-dīpenaभास्वताbhāsvatā

अन्वय

तेषाम् एव अनुकम्पार्थम् अहम् आत्मभावस्थः [सन्] भास्वता ज्ञानदीपेन अज्ञानजम् तमः नाशयामि ।

Shloka 10.12

अर्जुन उवाच परं ब्रह्म परं धाम पवित्रं परमं भवान् । पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम् ॥१०-१२॥

पदच्छेद

अर्जुनःarjunaḥउवाचuvācaपरम्paramब्रह्मbrahmaपरम्paramधामdhāmaपवित्रम्pavitramपरमम्paramamभवान्bhavānपुरुषम्puruṣamशाश्वतम्śāśvatamदिव्यम्divyamआदि-देवम्ādi-devamअजम्ajamविभुम्vibhum

अन्वय

अर्जुनः उवाच-भवान् परम् ब्रह्म परम् धाम परमम् पवित्रम् [अस्ति] । [सर्वे ऋषयः] त्वाम् शाश्वतम् दिव्यम् पुरुषम् आदिदेवम् अजम् विभुम् [आहुः] ।

Shloka 10.13

आहुस्त्वामृषयः सर्वे देवर्षिर्नारदस्तथा । असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे ॥१०-१३॥

पदच्छेद

आहुःāhuḥत्वाम्tvāmऋषयःṛṣayaḥसर्वेsarveदेवर्षिःdevarṣiḥनारदःnāradaḥतथाtathāअसितःasitaḥदेवलःdevalaḥव्यासःvyāsaḥस्वयम्svayamचcaएवevaब्रवीषिbravīṣiमेme

अन्वय

सर्वे ऋषयः तथा देवर्षिः नारदः असितः देवलः व्यासः [च] त्वाम् [शाश्वतम् दिव्यम् पुरुषम् आदिदेवम् अजम् विभुम्] आहुः । स्वयम् च एव [त्वम्] मे ब्रवीषि ।

Shloka 10.14

सर्वमेतदृतं मन्ये यन्मां वदसि केशव । न हि ते भगवन्व्यक्तिं विदुर्देवा न दानवाः ॥१०-१४॥

पदच्छेद

सर्वम्sarvamएतत्etatऋतम्ṛtamमन्येmanyeयत्yatमाम्māmवदसिvadasiकेशवkeśavaनnaहिhiतेteभगवन्bhagavanव्यक्तिम्vyaktimविदुःviduḥदेवाःdevāḥनnaदानवाःdānavāḥ

अन्वय

केशव, यत् माम् वदसि, एतत् सर्वम् ऋतम् मन्ये । भगवन्, हि देवाः ते व्यक्तिम् न विदुः; दानवाः न [विदुः] ।

Shloka 10.15

स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम । भूतभावन भूतेश देवदेव जगत्पते ॥१०-१५॥

पदच्छेद

स्वयम्svayamएवevaआत्मनाātmanāआत्मानम्ātmānamवेत्थvetthaत्वम्tvamपुरुषोत्तमpuruṣottamaभूत-भावनbhūta-bhāvanaभूत-ईशbhūta-īśaदेव-देवdeva-devaजगत्-पतेjagat-pate

अन्वय

पुरुषोत्तम, भूतभावन, भूतेश, देवदेव, जगत्पते, त्वम् स्वयम् एव आत्मना आत्मानम् वेत्थ ।

Shloka 10.16

वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः । याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि ॥१०-१६॥

पदच्छेद

वक्तुम्vaktumअर्हसिarhasiअशेषेणaśeṣeṇaदिव्याःdivyāḥहिhiआत्म-विभूतयःātma-vibhūtayaḥयाभिःyābhiḥविभूतिभिःvibhūtibhiḥलोकान्lokānइमान्imānत्वम्tvamव्याप्यvyāpyaतिष्ठसिtiṣṭhasi

अन्वय

हि दिव्याः आत्मविभूतयः [याः सन्ति], [ताः] अशेषेण वक्तुम् अर्हसि, याभिः विभूतिभिः त्वम् इमान् लोकान् व्याप्य तिष्ठसि ।

Shloka 10.17

कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन् । केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया ॥१०-१७॥

पदच्छेद

कथम्kathamविद्याम्vidyāmअहम्ahamयोगिन्yoginत्वाम्tvāmसदाsadāपरिचिन्तयन्paricintayanकेषुkeṣuकेषुkeṣuचcaभावेषुbhāveṣuचिन्त्यःcintyaḥअसिasiभगवन्bhagavanमयाmayā

अन्वय

योगिन्, त्वाम् सदा परिचिन्तयन् अहम् कथम् विद्याम्? भगवन्, केषु केषु भावेषु च मया चिन्त्यः असि?

Shloka 10.18

विस्तरेणात्मनो योगं विभूतिं च जनार्दन । भूयः कथय तृप्तिर्हि शृण्वतो नास्ति मेऽमृतम् ॥१०-१८॥

पदच्छेद

विस्तरेणvistareṇaआत्मनःātmanaḥयोगम्yogamविभूतिम्vibhūtimचcaजनार्दनjanārdanaभूयःbhūyaḥकथयkathayaतृप्तिःtṛptiḥहिhiशृण्वतःśṛṇvataḥनnaअस्तिastiमेmeअमृतम्amṛtam

अन्वय

जनार्दन, आत्मनः योगम् विभूतिम् च विस्तरेण भूयः कथय । हि अमृतम् शृण्वतः मे तृप्तिः न अस्ति ।

Shloka 10.19

श्रीभगवानुवाच हन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतयः । प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे ॥१०-१९॥

पदच्छेद

श्रीभगवान्śrībhagavānउवाचuvācaहन्तhantaतेteकथयिष्यामिkathayiṣyāmiदिव्याःdivyāḥहिhiआत्म-विभूतयःātma-vibhūtayaḥप्राधान्यतःprādhānyataḥकुरु-श्रेष्ठkuru-śreṣṭhaनnaअस्तिastiअन्तःantaḥविस्तरस्यvistarasyaमेme

अन्वय

श्रीभगवान् उवाच-हन्त, कुरुश्रेष्ठ, दिव्याः हि आत्मविभूतयः [याः सन्ति], [ताः] ते प्राधान्यतः कथयिष्यामि । मे विस्तरस्य अन्तः न अस्ति ।

Shloka 10.20

अहमात्मा गुडाकेश सर्वभूताशयस्थितः । अहमादिश्च मध्यं च भूतानामन्त एव च ॥१०-२०॥

पदच्छेद

अहम्ahamआत्माātmāगुडाकेशguḍākeśaसर्व-भूत-आशय-स्थितःsarva-bhūta-āśaya-sthitaḥअहम्ahamआदिःādiḥचcaमध्यम्madhyamचcaभूतानाम्bhūtānāmअन्तःantaḥएवevaचca

अन्वय

गुडाकेश, अहम् सर्वभूताशयस्थितः आत्मा [अस्मि] । अहम् भूतानाम् आदिः च मध्यम् च अन्तः एव च [अस्मि] ।

Shloka 10.21

आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान् । मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी ॥१०-२१॥

पदच्छेद

आदित्यानाम्ādityānāmअहम्ahamविष्णुःviṣṇuḥज्योतिषाम्jyotiṣāmरविःraviḥअंशुमान्aṃśumānमरीचिःmarīciḥमरुताम्marutāmअस्मिasmiनक्षत्राणाम्nakṣatrāṇāmअहम्ahamशशीśaśī

अन्वय

अहम् आदित्यानाम् विष्णुः [अस्मि]; ज्योतिषाम् अंशुमान् रविः [अस्मि]; मरुताम् मरीचिः अस्मि; नक्षत्राणाम् अहम् शशी [अस्मि] ।

Shloka 10.22

वेदानां सामवेदोऽस्मि देवानामस्मि वासवः । इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना ॥१०-२२॥

पदच्छेद

वेदानाम्vedānāmसामवेदःsāmavedaḥअस्मिasmiदेवानाम्devānāmअस्मिasmiवासवःvāsavaḥइन्द्रियाणाम्indriyāṇāmमनःmanaḥचcaअस्मिasmiभूतानाम्bhūtānāmअस्मिasmiचेतनाcetanā

अन्वय

वेदानाम् सामवेदः अस्मि; देवानाम् वासवः अस्मि; इन्द्रियाणाम् मनः च अस्मि; भूतानाम् चेतना अस्मि ।

Shloka 10.23

रुद्राणां शंकरश्चास्मि वित्तेशो यक्षरक्षसाम् । वसूनां पावकश्चास्मि मेरुः शिखरिणामहम् ॥१०-२३॥

पदच्छेद

रुद्राणाम्rudrāṇāmशंकरःśaṃkaraḥचcaअस्मिasmiवित्त-ईशःvitta-īśaḥयक्ष-रक्षसाम्yakṣa-rakṣasāmवसूनाम्vasūnāmपावकःpāvakaḥचcaअस्मिasmiमेरुःmeruḥशिखरिणाम्śikhariṇāmअहम्aham

अन्वय

रुद्राणाम् शंकरः च अस्मि; यक्षरक्षसाम् वित्तेशः [अस्मि]; वसूनाम् पावकः च अस्मि; अहम् शिखरिणाम् मेरुः [अस्मि] ।

Shloka 10.24

पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् । सेनानीनामहं स्कन्दः सरसामस्मि सागरः ॥१०-२४॥

पदच्छेद

पुरोधसाम्purodhasāmचcaमुख्यम्mukhyamमाम्māmविद्धिviddhiपार्थpārthaबृहस्पतिम्bṛhaspatimसेनानीनाम्senānīnāmअहम्ahamस्कन्दःskandaḥसरसाम्sarasāmअस्मिasmiसागरःsāgaraḥ

अन्वय

पार्थ, माम् पुरोधसाम् मुख्यम् बृहस्पतिम् च विद्धि । अहम् सेनानीनाम् स्कन्दः [अस्मि]; सरसाम् सागरः अस्मि ।

Shloka 10.25

महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम् । यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः ॥१०-२५॥

पदच्छेद

महर्षीणाम्maharṣīṇāmभृगुःbhṛguḥअहम्ahamगिराम्girāmअस्मिasmiएकम्ekamअक्षरम्akṣaramयज्ञानाम्yajñānāmजप-यज्ञःjapa-yajñaḥअस्मिasmiस्थावराणाम्sthāvarāṇāmहिमालयःhimālayaḥ

अन्वय

महर्षीणाम् भृगुः अहम् [अस्मि]; गिराम् एकम् अक्षरम् अस्मि; यज्ञानाम् जपयज्ञः अस्मि; स्थावराणाम् हिमालयः [अस्मि] ।

Shloka 10.26

अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः । गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः ॥१०-२६॥

पदच्छेद

अश्वत्थःaśvatthaḥसर्व-वृक्षाणाम्sarva-vṛkṣāṇāmदेवर्षीणाम्devarṣīṇāmचcaनारदःnāradaḥगन्धर्वाणाम्gandharvāṇāmचित्ररथःcitrarathaḥसिद्धानाम्siddhānāmकपिलःkapilaḥमुनिःmuniḥ

अन्वय

[अहम्] सर्ववृक्षाणाम् अश्वत्थः [अस्मि]; देवर्षीणाम् च नारदः [अस्मि]; गन्धर्वाणाम् चित्ररथः [अस्मि]; सिद्धानाम् कपिलः मुनिः [अस्मि] ।

Shloka 10.27

उच्चैःश्रवसमश्वानां विद्धि माममृतोद्भवम् । ऐरावतं गजेन्द्राणां नराणां च नराधिपम् ॥१०-२७॥

पदच्छेद

उच्चैःश्रवसम्uccaiḥśravasamअश्वानाम्aśvānāmविद्धिviddhiमाम्māmअमृत-उद्भवम्amṛta-udbhavamऐरावतम्airāvatamगज-इन्द्राणाम्gaja-indrāṇāmनराणाम्narāṇāmचcaनर-अधिपम्nara-adhipam

अन्वय

माम् अश्वानाम् अमृतोद्भवम् उच्चैःश्रवसम् विद्धि; गजेन्द्राणाम् ऐरावतम् [विद्धि]; नराणाम् च नराधिपम् [विद्धि] ।

Shloka 10.28

आयुधानामहं वज्रं धेनूनामस्मि कामधुक् । प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः ॥१०-२८॥

पदच्छेद

आयुधानाम्āyudhānāmअहम्ahamवज्रम्vajramधेनूनाम्dhenūnāmअस्मिasmiकामधुक्kāmadhukप्रजनःprajanaḥचcaअस्मिasmiकन्दर्पःkandarpaḥसर्पाणाम्sarpāṇāmअस्मिasmiवासुकिःvāsukiḥ

अन्वय

अहम् आयुधानाम् वज्रम् [अस्मि]; धेनूनाम् कामधुक् अस्मि; प्रजनः कन्दर्पः च अस्मि; सर्पाणाम् वासुकिः अस्मि ।

Shloka 10.29

अनन्तश्चास्मि नागानां वरुणो यादसामहम् । पितॄणामर्यमा चास्मि यमः संयमतामहम् ॥१०-२९॥

पदच्छेद

अनन्तःanantaḥचcaअस्मिasmiनागानाम्nāgānāmवरुणःvaruṇaḥयादसाम्yādasāmअहम्ahamपितॄणाम्pitṝṇāmअर्यमाaryamāचcaअस्मिasmiयमःyamaḥसंयमताम्saṃyamatāmअहम्aham

अन्वय

नागानाम् अनन्तः च अस्मि; अहम् यादसाम् वरुणः [अस्मि]; पितॄणाम् अर्यमा च अस्मि; अहम् संयमताम् यमः [अस्मि] ।

Shloka 10.30

प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम् । मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम् ॥१०-३०॥

पदच्छेद

प्रह्लादःprahlādaḥचcaअस्मिasmiदैत्यानाम्daityānāmकालःkālaḥकलयताम्kalayatāmअहम्ahamमृगाणाम्mṛgāṇāmचcaमृग-इन्द्रःmṛga-indraḥअहम्ahamवैनतेयःvainateyaḥचcaपक्षिणाम्pakṣiṇām

अन्वय

दैत्यानाम् प्रह्लादः च अस्मि; अहम् कलयताम् कालः [अस्मि]; मृगाणाम् च अहम् मृगेन्द्रः [अस्मि]; पक्षिणाम् वैनतेयः च [अस्मि] ।

Shloka 10.31

पवनः पवतामस्मि रामः शस्त्रभृतामहम् । झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी ॥१०-३१॥

पदच्छेद

पवनःpavanaḥपवताम्pavatāmअस्मिasmiरामःrāmaḥशस्त्र-भृताम्śastra-bhṛtāmअहम्ahamझषाणाम्jhaṣāṇāmमकरःmakaraḥचcaअस्मिasmiस्रोतसाम्srotasāmअस्मिasmiजाह्नवीjāhnavī

अन्वय

पवताम् पवनः अस्मि; अहम् शस्त्रभृताम् रामः [अस्मि]; झषाणाम् मकरः च अस्मि; स्रोतसाम् जाह्नवी अस्मि ।

Shloka 10.32

सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन । अध्यात्मविद्या विद्यानां वादः प्रवदतामहम् ॥१०-३२॥

पदच्छेद

सर्गाणाम्sargāṇāmआदिःādiḥअन्तःantaḥचcaमध्यम्madhyamचcaएवevaअहम्ahamअर्जुनarjunaअध्यात्म-विद्याadhyātma-vidyāविद्यानाम्vidyānāmवादःvādaḥप्रवदताम्pravadatāmअहम्aham

अन्वय

अर्जुन, अहम् सर्गाणाम् आदिः अन्तः च मध्यम् च एव [अस्मि]; विद्यानाम् अध्यात्मविद्या [अस्मि]; अहम् प्रवदताम् वादः [अस्मि] ।

Shloka 10.33

अक्षराणामकारोऽस्मि द्वन्द्वः सामासिकस्य च । अहमेवाक्षयः कालो धाताहं विश्वतोमुखः ॥१०-३३॥

पदच्छेद

अक्षराणाम्akṣarāṇāmअकारःakāraḥअस्मिasmiद्वन्द्वःdvandvaḥसामासिकस्यsāmāsikasyaचcaअहम्ahamएवevaअक्षयःakṣayaḥकालःkālaḥधाताdhātāअहम्ahamविश्वतोमुखःviśvatomukhaḥ

अन्वय

अक्षराणाम् अकारः अस्मि; सामासिकस्य च द्वन्द्वः [अस्मि] । अहम् एव अक्षयः कालः [अस्मि]; अहम् विश्वतोमुखः धाता [अस्मि] ।

Shloka 10.34

मृत्युः सर्वहरश्चाहमुद्भवश्च भविष्यताम् । कीर्तिः श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृतिः क्षमा ॥१०-३४॥

पदच्छेद

मृत्युःmṛtyuḥसर्व-हरःsarva-haraḥचcaअहम्ahamउद्भवःudbhavaḥचcaभविष्यताम्bhaviṣyatāmकीर्तिःkīrtiḥश्रीःśrīḥवाक्vākचcaनारीणाम्nārīṇāmस्मृतिःsmṛtiḥमेधाmedhāधृतिःdhṛtiḥक्षमाkṣamā

अन्वय

अहम् सर्वहरः मृत्युः च [अस्मि]; भविष्यताम् उद्भवः च [अस्मि]; नारीणाम् कीर्तिः श्रीः वाक् च स्मृतिः मेधा धृतिः क्षमा [अस्मि] ।

Shloka 10.35

बृहत्साम तथा साम्नां गायत्री छन्दसामहम् । मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकरः ॥१०-३५॥

पदच्छेद

बृहत्सामbṛhatsāmaतथाtathāसाम्नाम्sāmnāmगायत्रीgāyatrīछन्दसाम्chandasāmअहम्ahamमासानाम्māsānāmमार्गशीर्षःmārgaśīrṣaḥअहम्ahamऋतूनाम्ṛtūnāmकुसुमाकरःkusumākaraḥ

अन्वय

तथा साम्नाम् बृहत्साम [अस्मि]; छन्दसाम् अहम् गायत्री [अस्मि]; मासानाम् अहम् मार्गशीर्षः [अस्मि]; ऋतूनाम् कुसुमाकरः [अस्मि] ।

Shloka 10.36

द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम् । जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम् ॥१०-३६॥

पदच्छेद

द्यूतम्dyūtamछलयताम्chalayatāmअस्मिasmiतेजःtejaḥतेजस्विनाम्tejasvināmअहम्ahamजयःjayaḥअस्मिasmiव्यवसायःvyavasāyaḥअस्मिasmiसत्त्वम्sattvamसत्त्ववताम्sattvavatāmअहम्aham

अन्वय

छलयताम् द्यूतम् अस्मि; तेजस्विनाम् अहम् तेजः [अस्मि]; जयः अस्मि; व्यवसायः अस्मि; सत्त्ववताम् अहम् सत्त्वम् [अस्मि] ।

Shloka 10.37

वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनंजयः । मुनीनामप्यहं व्यासः कवीनामुशना कविः ॥१०-३७॥

पदच्छेद

वृष्णीनाम्vṛṣṇīnāmवासुदेवःvāsudevaḥअस्मिasmiपाण्डवानाम्pāṇḍavānāmधनंजयःdhanaṃjayaḥमुनीनाम्munīnāmअपिapiअहम्ahamव्यासःvyāsaḥकवीनाम्kavīnāmउशनाuśanāकविःkaviḥ

अन्वय

वृष्णीनाम् वासुदेवः अस्मि; पाण्डवानाम् धनंजयः [अस्मि]; मुनीनाम् अपि अहम् व्यासः [अस्मि]; कवीनाम् उशना कविः [अस्मि] ।

Shloka 10.38

दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम् । मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम् ॥१०-३८॥

पदच्छेद

दण्डःdaṇḍaḥदमयताम्damayatāmअस्मिasmiनीतिःnītiḥअस्मिasmiजिगीषताम्jigīṣatāmमौनम्maunamचcaएवevaअस्मिasmiगुह्यानाम्guhyānāmज्ञानम्jñānamज्ञानवताम्jñānavatāmअहम्aham

अन्वय

दमयताम् दण्डः अस्मि; जिगीषताम् नीतिः अस्मि; गुह्यानाम् मौनम् च एव अस्मि; ज्ञानवताम् अहम् ज्ञानम् [अस्मि] ।

Shloka 10.39

यच्चापि सर्वभूतानां बीजं तदहमर्जुन । न तदस्ति विना यत्स्यान्मया भूतं चराचरम् ॥१०-३९॥

पदच्छेद

यत्yatचcaअपिapiसर्व-भूतानाम्sarva-bhūtānāmबीजम्bījamतत्tatअहम्ahamअर्जुनarjunaनnaतत्tatअस्तिastiविनाvināयत्yatस्यात्syātमयाmayāभूतम्bhūtamचर-अचरम्cara-acaram

अन्वय

अर्जुन, सर्वभूतानाम् यत् बीजम् च अपि [अस्ति], तत् अहम् [अस्मि] । यत् चराचरम् भूतम् मया विना स्यात्, तत् न अस्ति ।

Shloka 10.40

नान्तोऽस्ति मम दिव्यानां विभूतीनां परन्तप । एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया ॥१०-४०॥

पदच्छेद

नnaअन्तःantaḥअस्तिastiममmamaदिव्यानाम्divyānāmविभूतीनाम्vibhūtīnāmपरन्तपparantapaएषःeṣaḥतुtuउद्देशतःuddeśataḥप्रोक्तःproktaḥविभूतेःvibhūteḥविस्तरःvistaraḥमयाmayā

अन्वय

परन्तप, मम दिव्यानाम् विभूतीनाम् अन्तः न अस्ति । मया विभूतेः एषः विस्तरः तु उद्देशतः प्रोक्तः [अस्ति] ।

Shloka 10.41

यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा । तत्तदेवावगच्छ त्वं मम तेजोंऽशसंभवम् ॥१०-४१॥

पदच्छेद

यत्yatयत्yatविभूतिमत्vibhūtimatसत्त्वम्sattvamश्रीमत्śrīmatऊर्जितम्ūrjitamएवevaवाvāतत्tatतत्tatएवevaअवगच्छavagacchaत्वम्tvamममmamaतेजस्-अंश-सम्भवम्tejas-aṃśa-sambhavam

Shloka 10.42

अथवा बहुनैतेन किं ज्ञातेन तवार्जुन । विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् ॥१०-४२॥

पदच्छेद

अथवाathavāबहुनाbahunāएतेनetenaकिम्kimज्ञातेनjñātenaतवtavaअर्जुनarjunaविष्टभ्यviṣṭabhyaअहम्ahamइदम्idamकृत्स्नम्kṛtsnamएक-अंशेनeka-aṃśenaस्थितःsthitaḥजगत्jagat

अन्वय

अथवा अर्जुन, तव एतेन बहुना ज्ञातेन किम् [प्रयोजनम् अस्ति]? अहम् एकांशेन इदम् कृत्स्नम् जगत् विष्टभ्य स्थितः [अस्मि] ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Chapters

Chapter 10 · Shlokas

Choose a number to read.

Read the whole chapter →