Sunday Meditation· Open to Everyone

भक्तियोगः

संस्कृत

Shloka 12.1

अर्जुन उवाच एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते । ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः ॥१२-१॥

पदच्छेद

अर्जुनःarjunaḥउवाचuvācaएवम्evamसततयुक्ताःsatatayuktāḥयेyeभक्ताःbhaktāḥत्वाम्tvāmपर्युपासतेparyupāsateयेyeचcaअपिapiअक्षरम्akṣaramअव्यक्तम्avyaktamतेषाम्teṣāmकेkeयोगवित्तमाःyogavittamāḥ

अन्वय

अर्जुनः उवाच-एवम् सततयुक्ताः ये भक्ताः त्वाम् पर्युपासते, ये च अपि अक्षरम् अव्यक्तम् [पर्युपासते], तेषाम् के योगवित्तमाः [सन्ति]?

Shloka 12.2

श्रीभगवानुवाच मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते । श्रद्धया परयोपेतास्ते मे युक्ततमा मताः ॥१२-२॥

पदच्छेद

श्रीभगवान्śrībhagavānउवाचuvācaमयिmayiआवेश्यāveśyaमनःmanaḥयेyeमाम्māmनित्ययुक्ताःnityayuktāḥउपासतेupāsateश्रद्धयाśraddhayāपरयाparayāउपेताःupetāḥतेteमेmeयुक्ततमाःyuktatamāḥमताःmatāḥ

अन्वय

श्रीभगवान् उवाच-ये मयि मनः आवेश्य नित्ययुक्ताः परया श्रद्धया उपेताः माम् उपासते, ते मे युक्ततमाः मताः [सन्ति] ।

Shloka 12.3

ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते । सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम् ॥१२-३॥

पदच्छेद

येyeतुtuअक्षरम्akṣaramअनिर्देश्यम्anirdeśyamअव्यक्तम्avyaktamपर्युपासतेparyupāsateसर्वत्रगम्sarvatragamअचिन्त्यम्acintyamचcaकूटस्थम्kūṭasthamअचलम्acalamध्रुवम्dhruvam

अन्वय

ये तु अक्षरम् अनिर्देश्यम् अव्यक्तम् सर्वत्रगम् अचिन्त्यम् च कूटस्थम् अचलम् ध्रुवम् पर्युपासते, [ते इन्द्रियग्रामम् संनियम्य सर्वत्र समबुद्धयः सर्वभूतहिते रताः माम् एव प्राप्नुवन्ति] ।

Shloka 12.4

संनियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः । ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः ॥१२-४॥

पदच्छेद

संनियम्यsaṃniyamyaइन्द्रियग्रामम्indriyagrāmamसर्वत्रsarvatraसमबुद्धयःsamabuddhayaḥतेteप्राप्नुवन्तिprāpnuvantiमाम्māmएवevaसर्वभूतहितेsarvabhūtahiteरताःratāḥ

अन्वय

[ये अक्षरम् अनिर्देश्यम् अव्यक्तम् सर्वत्रगम् अचिन्त्यम् कूटस्थम् अचलम् ध्रुवम् पर्युपासते], ते इन्द्रियग्रामम् संनियम्य सर्वत्र समबुद्धयः सर्वभूतहिते रताः [सन्तः] माम् एव प्राप्नुवन्ति ।

Shloka 12.5

क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् । अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते ॥१२-५॥

पदच्छेद

क्लेशःkleśaḥअधिकतरःadhikataraḥतेषाम्teṣāmअव्यक्तासक्तचेतसाम्avyaktāsaktacetasāmअव्यक्ताavyaktāहिhiगतिःgatiḥदुःखम्duḥkhamदेहवद्भिःdehavadbhiḥअवाप्यतेavāpyate

अन्वय

अव्यक्तासक्तचेतसाम् तेषाम् क्लेशः अधिकतरः [अस्ति] । हि देहवद्भिः अव्यक्ता गतिः दुःखम् अवाप्यते ।

Shloka 12.6

ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः । अनन्येनैव योगेन मां ध्यायन्त उपासते ॥१२-६॥

पदच्छेद

येyeतुtuसर्वाणिsarvāṇiकर्माणिkarmāṇiमयिmayiसंन्यस्यsaṃnyasyaमत्पराःmatparāḥअनन्येनananyenaएवevaयोगेनyogenaमाम्māmध्यायन्तःdhyāyantaḥउपासतेupāsate

अन्वय

ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः [सन्तः] अनन्येन एव योगेन माम् ध्यायन्तः उपासते, [तेषाम् अहम् मृत्युसंसारसागरात् समुद्धर्ता भवामि नचिरात्] ।

Shloka 12.7

तेषामहं समुद्धर्ता मृत्युसंसारसागरात् । भवामि नचिरात्पार्थ मय्यावेशितचेतसाम् ॥१२-७॥

पदच्छेद

तेषाम्teṣāmअहम्ahamसमुद्धर्ताsamuddhartāमृत्यु-संसार-सागरात्mṛtyu-saṃsāra-sāgarātभवामिbhavāmiनचिरात्nacirātपार्थpārthaमयिmayiआवेशितचेतसाम्āveśitacetasām

अन्वय

पार्थ, [ये सर्वाणि कर्माणि मयि संन्यस्य मत्पराः अनन्येन योगेन माम् ध्यायन्तः उपासते], तेषाम् मयि आवेशितचेतसाम् अहम् नचिरात् मृत्युसंसारसागरात् समुद्धर्ता भवामि ।

Shloka 12.8

मय्येव मन आधत्स्व मयि बुद्धिं निवेशय । निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः ॥१२-८॥

पदच्छेद

मयिmayiएवevaमनःmanaḥआधत्स्वādhatsvaमयिmayiबुद्धिम्buddhimनिवेशयniveśayaनिवसिष्यसिnivasiṣyasiमयिmayiएवevaअतःataḥऊर्ध्वम्ūrdhvamनnaसंशयःsaṃśayaḥ

अन्वय

मयि एव मनः आधत्स्व; मयि बुद्धिम् निवेशय । अतः ऊर्ध्वम् मयि एव निवसिष्यसि; संशयः न [अस्ति] ।

Shloka 12.9

अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् । अभ्यासयोगेन ततो मामिच्छाप्तुं धनञ्जय ॥१२-९॥

पदच्छेद

अथathaचित्तम्cittamसमाधातुम्samādhātumनnaशक्नोषिśaknoṣiमयिmayiस्थिरम्sthiramअभ्यासयोगेनabhyāsayogenaततःtataḥमाम्māmइच्छicchaआप्तुम्āptumधनञ्जयdhanañjaya

अन्वय

अथ मयि स्थिरम् चित्तम् समाधातुम् न शक्नोषि [चेत्], ततः धनञ्जय, अभ्यासयोगेन माम् आप्तुम् इच्छ ।

Shloka 12.10

अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव । मदर्थमपि कर्माणि कुर्वन्सिद्धिमवाप्स्यसि ॥१२-१०॥

पदच्छेद

अभ्यासेabhyāseअपिapiअसमर्थःasamarthaḥअसिasiमत्-कर्मपरमःmat-karmaparamaḥभवbhavaमत्-अर्थम्mat-arthamअपिapiकर्माणिkarmāṇiकुर्वन्kurvanसिद्धिम्siddhimअवाप्स्यसिavāpsyasi

अन्वय

अभ्यासे अपि असमर्थः असि [चेत्], मत्कर्मपरमः भव । मदर्थम् अपि कर्माणि कुर्वन् सिद्धिम् अवाप्स्यसि ।

Shloka 12.11

अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रितः । सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् ॥१२-११॥

पदच्छेद

अथathaएतत्etatअपिapiअशक्तःaśaktaḥअसिasiकर्तुम्kartumमत्-योगम्mat-yogamआश्रितःāśritaḥसर्व-कर्म-फल-त्यागम्sarva-karma-phala-tyāgamततःtataḥकुरुkuruयतात्मवान्yatātmavān

अन्वय

अथ एतत् अपि कर्तुम् अशक्तः असि [चेत्], ततः मद्योगम् आश्रितः यतात्मवान् [सन्] सर्वकर्मफलत्यागम् कुरु ।

Shloka 12.12

श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद्ध्यानं विशिष्यते । ध्यानात्कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम् ॥१२-१२॥

पदच्छेद

श्रेयःśreyaḥहिhiज्ञानम्jñānamअभ्यासात्abhyāsātज्ञानात्jñānātध्यानम्dhyānamविशिष्यतेviśiṣyateध्यानात्dhyānātकर्मफलत्यागःkarmaphalatyāgaḥत्यागात्tyāgātशान्तिःśāntiḥअनन्तरम्anantaram

अन्वय

हि अभ्यासात् ज्ञानम् श्रेयः [अस्ति]; ज्ञानात् ध्यानम् विशिष्यते; ध्यानात् कर्मफलत्यागः [विशिष्यते]; त्यागात् अनन्तरम् शान्तिः [भवति] ।

Shloka 12.13

अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च । निर्ममो निरहंकारः समदुःखसुखः क्षमी ॥१२-१३॥

पदच्छेद

अद्वेष्टाadveṣṭāसर्वभूतानाम्sarvabhūtānāmमैत्रःmaitraḥकरुणःkaruṇaḥएवevaचcaनिर्ममःnirmamaḥनिरहंकारःnirahaṃkāraḥसम-दुःख-सुखःsama-duḥkha-sukhaḥक्षमीkṣamī

अन्वय

सर्वभूतानाम् अद्वेष्टा मैत्रः करुणः एव च निर्ममः निरहंकारः समदुःखसुखः क्षमी [यः सन्तुष्टः सततम् योगी यतात्मा दृढनिश्चयः मयि अर्पितमनोबुद्धिः मद्भक्तः अस्ति, सः मे प्रियः अस्ति] ।

Shloka 12.14

संतुष्टः सततं योगी यतात्मा दृढनिश्चयः । मय्यर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रियः ॥१२-१४॥

पदच्छेद

संतुष्टःsaṃtuṣṭaḥसततम्satatamयोगीyogīयतात्माyatātmāदृढनिश्चयःdṛḍhaniścayaḥमयिmayiअर्पित-मनो-बुद्धिःarpita-mano-buddhiḥयःyaḥमत्-भक्तःmat-bhaktaḥसःsaḥमेmeप्रियःpriyaḥ

अन्वय

[सर्वभूतानाम् अद्वेष्टा मैत्रः करुणः निर्ममः निरहंकारः समदुःखसुखः क्षमी], सततम् सन्तुष्टः योगी यतात्मा दृढनिश्चयः मयि अर्पितमनोबुद्धिः यः मद्भक्तः [अस्ति], सः मे प्रियः [अस्ति] ।

Shloka 12.15

यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः । हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः ॥१२-१५॥

पदच्छेद

यस्मात्yasmātनnaउद्विजतेudvijateलोकःlokaḥलोकात्lokātनnaउद्विजतेudvijateचcaयःyaḥहर्ष-अमर्ष-भय-उद्वेगैःharṣa-amarṣa-bhaya-udvegaiḥमुक्तःmuktaḥयःyaḥसःsaḥचcaमेmeप्रियःpriyaḥ

अन्वय

यस्मात् लोकः न उद्विजते, यः च लोकात् न उद्विजते, यः हर्षामर्षभयोद्वेगैः मुक्तः [अस्ति], सः च मे प्रियः [अस्ति] ।

Shloka 12.16

अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः । सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः ॥१२-१६॥

पदच्छेद

अनपेक्षःanapekṣaḥशुचिःśuciḥदक्षःdakṣaḥउदासीनःudāsīnaḥगतव्यथःgatavyathaḥसर्वारम्भपरित्यागीsarvārambhaparityāgīयःyaḥमत्-भक्तःmat-bhaktaḥसःsaḥमेmeप्रियःpriyaḥ

अन्वय

यः अनपेक्षः शुचिः दक्षः उदासीनः गतव्यथः सर्वारम्भपरित्यागी मद्भक्तः [अस्ति], सः मे प्रियः [अस्ति] ।

Shloka 12.17

यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति । शुभाशुभपरित्यागी भक्तिमान्यः स मे प्रियः ॥१२-१७॥

पदच्छेद

यःyaḥनnaहृष्यतिhṛṣyatiनnaद्वेष्टिdveṣṭiनnaशोचतिśocatiनnaकाङ्क्षतिkāṅkṣatiशुभ-अशुभ-परित्यागीśubha-aśubha-parityāgīभक्तिमान्bhaktimānयःyaḥसःsaḥमेmeप्रियःpriyaḥ

अन्वय

यः न हृष्यति, न द्वेष्टि, न शोचति, न काङ्क्षति, यः शुभाशुभपरित्यागी भक्तिमान् [अस्ति], सः मे प्रियः [अस्ति] ।

Shloka 12.18

समः शत्रौ च मित्रे च तथा मानापमानयोः । शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः ॥१२-१८॥

पदच्छेद

समःsamaḥशत्रौśatrauचcaमित्रेmitreचcaतथाtathāमानापमानयोःmānāpamānayoḥशीत-उष्ण-सुख-दुःखेषुśīta-uṣṇa-sukha-duḥkheṣuसमःsamaḥसङ्गविवर्जितःsaṅgavivarjitaḥ

अन्वय

शत्रौ च मित्रे च तथा मानापमानयोः समः, शीतोष्णसुखदुःखेषु समः, सङ्गविवर्जितः [तुल्यनिन्दास्तुतिः मौनी येन केनचित् सन्तुष्टः अनिकेतः स्थिरमतिः भक्तिमान् नरः मे प्रियः अस्ति] ।

Shloka 12.19

तुल्यनिन्दास्तुतिर्मौनी सन्तुष्टो येन केनचित् । अनिकेतः स्थिरमतिर्भक्तिमान्मे प्रियो नरः ॥१२-१९॥

पदच्छेद

तुल्य-निन्दा-स्तुतिःtulya-nindā-stutiḥमौनीmaunīसन्तुष्टःsantuṣṭaḥयेनyenaकेनचित्kenacitअनिकेतःaniketaḥस्थिरमतिःsthiramatiḥभक्तिमान्bhaktimānमेmeप्रियःpriyaḥनरःnaraḥ

अन्वय

[शत्रौ मित्रे मानापमानयोः समः शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः], तुल्यनिन्दास्तुतिः मौनी येन केनचित् सन्तुष्टः अनिकेतः स्थिरमतिः भक्तिमान् नरः मे प्रियः [अस्ति] ।

Shloka 12.20

ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते । श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः ॥१२-२०॥

पदच्छेद

येyeतुtuधर्म्य-अमृतम्dharmya-amṛtamइदम्idamयथाyathāउक्तम्uktamपर्युपासतेparyupāsateश्रद्दधानाःśraddadhānāḥमत्परमाःmatparamāḥभक्ताःbhaktāḥतेteअतीवatīvaमेmeप्रियाःpriyāḥ

अन्वय

ये तु श्रद्दधानाः मत्परमाः भक्ताः इदम् यथोक्तम् धर्म्यामृतम् पर्युपासते, ते मे अतीव प्रियाः [सन्ति] ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Chapters

Chapter 12 · Shlokas

Choose a number to read.

Read the whole chapter →