Sunday Meditation· Open to Everyone

ज्ञानविज्ञानयोगः

संस्कृत

Shloka 7.1

श्रीभगवानुवाच मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः । असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु ॥७-१॥

पदच्छेद

श्रीभगवान्śrībhagavānउवाचuvācaमयिmayiआसक्त-मनाःāsakta-manāḥपार्थpārthaयोगम्yogamयुञ्जन्yuñjanमद्-आश्रयःmad-āśrayaḥअसंशयम्asaṃśayamसमग्रम्samagramमाम्māmयथाyathāज्ञास्यसिjñāsyasiतत्tatशृणुśṛṇu

अन्वय

श्रीभगवान् उवाच-पार्थ, मयि आसक्तमनाः मदाश्रयः योगम् युञ्जन् माम् समग्रम् असंशयम् यथा ज्ञास्यसि, तत् शृणु ।

Shloka 7.2

ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः । यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते ॥७-२॥

पदच्छेद

ज्ञानम्jñānamतेteअहम्ahamस-विज्ञानम्sa-vijñānamइदम्idamवक्ष्यामिvakṣyāmiअशेषतःaśeṣataḥयत्yatज्ञात्वाjñātvāनnaइहihaभूयःbhūyaḥअन्यत्anyatज्ञातव्यम्jñātavyamअवशिष्यतेavaśiṣyate

अन्वय

अहम् ते इदम् सविज्ञानम् ज्ञानम् अशेषतः वक्ष्यामि, यत् ज्ञात्वा इह भूयः अन्यत् ज्ञातव्यम् न अवशिष्यते ।

Shloka 7.3

मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये । यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः ॥७-३॥

पदच्छेद

मनुष्याणाम्manuṣyāṇāmसहस्रेषुsahasreṣuकश्चित्kaścitयततिyatatiसिद्धयेsiddhayeयतताम्yatatāmअपिapiसिद्धानाम्siddhānāmकश्चित्kaścitमाम्māmवेत्तिvettiतत्त्वतःtattvataḥ

अन्वय

मनुष्याणाम् सहस्रेषु कश्चित् सिद्धये यतति । यतताम् सिद्धानाम् अपि कश्चित् माम् तत्त्वतः वेत्ति ।

Shloka 7.4

भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च । अहंकार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥७-४॥

पदच्छेद

भूमिःbhūmiḥआपःāpaḥअनलःanalaḥवायुःvāyuḥखम्khamमनःmanaḥबुद्धिःbuddhiḥएवevaचcaअहंकारःahaṃkāraḥइतिitiइयम्iyamमेmeभिन्नाbhinnāप्रकृतिःprakṛtiḥअष्टधाaṣṭadhā

अन्वय

भूमिः आपः अनलः वायुः खम् मनः बुद्धिः अहंकारः एव च इति इयम् मे प्रकृतिः अष्टधा भिन्ना [अस्ति] ।

Shloka 7.5

अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् । जीवभूतां महाबाहो ययेदं धार्यते जगत् ॥७-५॥

पदच्छेद

अपराaparāइयम्iyamइतःitaḥतुtuअन्याम्anyāmप्रकृतिम्prakṛtimविद्धिviddhiमेmeपराम्parāmजीव-भूताम्jīva-bhūtāmमहाबाहोmahābāhoययाyayāइदम्idamधार्यतेdhāryateजगत्jagat

अन्वय

महाबाहो, इयम् अपरा [प्रकृतिः अस्ति] । इतः तु अन्याम् मे जीवभूताम् पराम् प्रकृतिम् विद्धि, यया इदम् जगत् धार्यते ।

Shloka 7.6

एतद्योनीनि भूतानि सर्वाणीत्युपधारय । अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा ॥७-६॥

पदच्छेद

एतद्-योनीनिetad-yonīniभूतानिbhūtāniसर्वाणिsarvāṇiइतिitiउपधारयupadhārayaअहम्ahamकृत्स्नस्यkṛtsnasyaजगतःjagataḥप्रभवःprabhavaḥप्रलयःpralayaḥतथाtathā

अन्वय

सर्वाणि भूतानि एतद्योनीनि [सन्ति] इति उपधारय । अहम् कृत्स्नस्य जगतः प्रभवः तथा प्रलयः [अस्मि] ।

Shloka 7.7

मत्तः परतरं नान्यत्किंचिदस्ति धनंजय । मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ॥७-७॥

पदच्छेद

मत्तःmattaḥपरतरम्parataramनnaअन्यत्anyatकिञ्चित्kiñcitअस्तिastiधनंजयdhanaṃjayaमयिmayiसर्वम्sarvamइदम्idamप्रोतम्protamसूत्रेsūtreमणि-गणाःmaṇi-gaṇāḥइवiva

अन्वय

धनंजय, मत्तः परतरम् अन्यत् किञ्चित् न अस्ति । इदम् सर्वम् मयि प्रोतम् [अस्ति], सूत्रे मणिगणाः इव ।

Shloka 7.8

रसोऽहमप्सु कौन्तेय प्रभास्मि शशिसूर्ययोः । प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु ॥७-८॥

पदच्छेद

रसःrasaḥअहम्ahamअप्सुapsuकौन्तेयkaunteyaप्रभाprabhāअस्मिasmiशशि-सूर्ययोःśaśi-sūryayoḥप्रणवःpraṇavaḥसर्व-वेदेषुsarva-vedeṣuशब्दःśabdaḥखेkheपौरुषम्pauruṣamनृषुnṛṣu

अन्वय

कौन्तेय, अहम् अप्सु रसः [अस्मि]; शशिसूर्ययोः प्रभा अस्मि; सर्ववेदेषु प्रणवः [अस्मि]; खे शब्दः [अस्मि]; नृषु पौरुषम् [अस्मि] ।

Shloka 7.9

पुण्यो गन्धः पृथिव्यां च तेजश्चास्मि विभावसौ । जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु ॥७-९॥

पदच्छेद

पुण्यःpuṇyaḥगन्धःgandhaḥपृथिव्याम्pṛthivyāmचcaतेजःtejaḥचcaअस्मिasmiविभावसौvibhāvasauजीवनम्jīvanamसर्व-भूतेषुsarva-bhūteṣuतपःtapaḥचcaअस्मिasmiतपस्विषुtapasviṣu

अन्वय

[अहम्] पृथिव्याम् पुण्यः गन्धः च [अस्मि]; विभावसौ तेजः च अस्मि; सर्वभूतेषु जीवनम् [अस्मि]; तपस्विषु तपः च अस्मि ।

Shloka 7.10

बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् । बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम् ॥७-१०॥

पदच्छेद

बीजम्bījamमाम्māmसर्व-भूतानाम्sarva-bhūtānāmविद्धिviddhiपार्थpārthaसनातनम्sanātanamबुद्धिःbuddhiḥबुद्धिमताम्buddhimatāmअस्मिasmiतेजःtejaḥतेजस्विनाम्tejasvināmअहम्aham

अन्वय

पार्थ, माम् सर्वभूतानाम् सनातनम् बीजम् विद्धि । अहम् बुद्धिमताम् बुद्धिः अस्मि; तेजस्विनाम् तेजः [अस्मि] ।

Shloka 7.11

बलं बलवतां चाहं कामरागविवर्जितम् । धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ ॥७-११॥

पदच्छेद

बलम्balamबलवताम्balavatāmचcaअहम्ahamकाम-राग-विवर्जितम्kāma-rāga-vivarjitamधर्म-अविरुद्धःdharma-aviruddhaḥभूतेषुbhūteṣuकामःkāmaḥअस्मिasmiभरतर्षभbharatarṣabha

अन्वय

भरतर्षभ, अहम् बलवताम् कामरागविवर्जितम् बलम् च [अस्मि]; भूतेषु धर्माविरुद्धः कामः अस्मि ।

Shloka 7.12

ये चैव सात्त्विका भावा राजसास्तामसाश्च ये । मत्त एवेति तान्विद्धि न त्वहं तेषु ते मयि ॥७-१२॥

पदच्छेद

येyeचcaएवevaसात्त्विकाःsāttvikāḥभावाःbhāvāḥराजसाःrājasāḥतामसाःtāmasāḥचcaयेyeमत्तःmattaḥएवevaइतिitiतान्tānविद्धिviddhiनnaतुtuअहम्ahamतेषुteṣuतेteमयिmayi

अन्वय

ये च एव सात्त्विकाः भावाः [सन्ति], ये राजसाः तामसाः च [सन्ति], तान् मत्तः एव [जातान्] इति विद्धि । अहम् तु तेषु न [अस्मि]; ते मयि [सन्ति] ।

Shloka 7.13

त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत् । मोहितं नाभिजानाति मामेभ्यः परमव्ययम् ॥७-१३॥

पदच्छेद

त्रिभिःtribhiḥगुण-मयैःguṇa-mayaiḥभावैःbhāvaiḥएभिःebhiḥसर्वम्sarvamइदम्idamजगत्jagatमोहितम्mohitamनnaअभिजानातिabhijānātiमाम्māmएभ्यःebhyaḥपरम्paramअव्ययम्avyayam

अन्वय

एभिः त्रिभिः गुणमयैः भावैः मोहितम् इदम् सर्वम् जगत् एभ्यः परम् अव्ययम् माम् न अभिजानाति ।

Shloka 7.14

दैवी ह्येषा गुणमयी मम माया दुरत्यया । मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥७-१४॥

पदच्छेद

दैवीdaivīहिhiएषाeṣāगुण-मयीguṇa-mayīममmamaमायाmāyāदुरत्ययाduratyayāमाम्māmएवevaयेyeप्रपद्यन्तेprapadyanteमायाम्māyāmएताम्etāmतरन्तिtarantiतेte

अन्वय

हि एषा मम दैवी गुणमयी माया दुरत्यया [अस्ति] । ये माम् एव प्रपद्यन्ते, ते एताम् मायाम् तरन्ति ।

Shloka 7.15

न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः । माययापहृतज्ञाना आसुरं भावमाश्रिताः ॥७-१५॥

पदच्छेद

नnaमाम्māmदुष्कृतिनःduṣkṛtinaḥमूढाःmūḍhāḥप्रपद्यन्तेprapadyanteनर-अधमाःnara-adhamāḥमाययाmāyayāअपहृत-ज्ञानाःapahṛta-jñānāḥआसुरम्āsuramभावम्bhāvamआश्रिताःāśritāḥ

अन्वय

दुष्कृतिनः मूढाः नराधमाः मायया अपहृतज्ञानाः आसुरम् भावम् आश्रिताः [जनाः] माम् न प्रपद्यन्ते ।

Shloka 7.16

चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन । आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ॥७-१६॥

पदच्छेद

चतुर्-विधाःcatur-vidhāḥभजन्तेbhajanteमाम्māmजनाःjanāḥसुकृतिनःsukṛtinaḥअर्जुनarjunaआर्तःārtaḥजिज्ञासुःjijñāsuḥअर्थार्थीarthārthīज्ञानीjñānīचcaभरतर्षभbharatarṣabha

अन्वय

अर्जुन, भरतर्षभ, आर्तः जिज्ञासुः अर्थार्थी ज्ञानी च इति चतुर्विधाः सुकृतिनः जनाः माम् भजन्ते ।

Shloka 7.17

तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते । प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ॥७-१७॥

पदच्छेद

तेषाम्teṣāmज्ञानीjñānīनित्य-युक्तःnitya-yuktaḥएक-भक्तिःeka-bhaktiḥविशिष्यतेviśiṣyateप्रियःpriyaḥहिhiज्ञानिनःjñāninaḥअत्यर्थम्atyarthamअहम्ahamसःsaḥचcaममmamaप्रियःpriyaḥ

अन्वय

तेषाम् नित्ययुक्तः एकभक्तिः ज्ञानी विशिष्यते । हि अहम् ज्ञानिनः अत्यर्थम् प्रियः [अस्मि]; सः च मम प्रियः [अस्ति] ।

Shloka 7.18

उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम् । आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम् ॥७-१८॥

पदच्छेद

उदाराःudārāḥसर्वेsarveएवevaएतेeteज्ञानीjñānīतुtuआत्माātmāएवevaमेmeमतम्matamआस्थितःāsthitaḥसःsaḥहिhiयुक्तात्माyuktātmāमाम्māmएवevaअनुत्तमाम्anuttamāmगतिम्gatim

अन्वय

एते सर्वे एव उदाराः [सन्ति] । ज्ञानी तु आत्मा एव [अस्ति] इति मे मतम् [अस्ति] । हि सः युक्तात्मा माम् एव अनुत्तमाम् गतिम् आस्थितः [अस्ति] ।

Shloka 7.19

बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते । वासुदेवः सर्वमिति स महात्मा सुदुर्लभः ॥७-१९॥

पदच्छेद

बहूनाम्bahūnāmजन्मनाम्janmanāmअन्तेanteज्ञानवान्jñānavānमाम्māmप्रपद्यतेprapadyateवासुदेवःvāsudevaḥसर्वम्sarvamइतिitiसःsaḥमहात्माmahātmāसुदुर्लभःsudurlabhaḥ

अन्वय

बहूनाम् जन्मनाम् अन्ते ज्ञानवान् वासुदेवः सर्वम् इति माम् प्रपद्यते । सः महात्मा सुदुर्लभः [अस्ति] ।

Shloka 7.20

कामैस्तैस्तैर्हृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः । तं तं नियममास्थाय प्रकृत्या नियताः स्वया ॥७-२०॥

पदच्छेद

कामैःkāmaiḥतैःtaiḥतैःtaiḥहृत-ज्ञानाःhṛta-jñānāḥप्रपद्यन्तेprapadyanteअन्य-देवताःanya-devatāḥतम्tamतम्tamनियमम्niyamamआस्थायāsthāyaप्रकृत्याprakṛtyāनियताःniyatāḥस्वयाsvayā

अन्वय

तैः तैः कामैः हृतज्ञानाः स्वया प्रकृत्या नियताः [जनाः] तम् तम् नियमम् आस्थाय अन्यदेवताः प्रपद्यन्ते ।

Shloka 7.21

यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति । तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ॥७-२१॥

पदच्छेद

यःyaḥयःyaḥयाम्yāmयाम्yāmतनुम्tanumभक्तःbhaktaḥश्रद्धयाśraddhayāअर्चितुम्arcitumइच्छतिicchatiतस्यtasyaतस्यtasyaअचलाम्acalāmश्रद्धाम्śraddhāmताम्tāmएवevaविदधामिvidadhāmiअहम्aham

अन्वय

यः यः भक्तः याम् याम् तनुम् श्रद्धया अर्चितुम् इच्छति, अहम् तस्य तस्य ताम् एव श्रद्धाम् अचलाम् विदधामि ।

Shloka 7.22

स तया श्रद्धया युक्तस्तस्याराधनमीहते । लभते च ततः कामान्मयैव विहितान्हि तान् ॥७-२२॥

पदच्छेद

सःsaḥतयाtayāश्रद्धयाśraddhayāयुक्तःyuktaḥतस्यtasyaआराधनम्ārādhanamईहतेīhateलभतेlabhateचcaततःtataḥकामान्kāmānमयाmayāएवevaविहितान्vihitānहिhiतान्tān

अन्वय

सः तया श्रद्धया युक्तः तस्य आराधनम् ईहते । ततः च मया एव विहितान् तान् कामान् हि लभते ।

Shloka 7.23

अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम् । देवान्देवयजो यान्ति मद्भक्ता यान्ति मामपि ॥७-२३॥

पदच्छेद

अन्तवत्antavatतुtuफलम्phalamतेषाम्teṣāmतत्tatभवतिbhavatiअल्प-मेधसाम्alpa-medhasāmदेवान्devānदेव-यजःdeva-yajaḥयान्तिyāntiमद्-भक्ताःmad-bhaktāḥयान्तिyāntiमाम्māmअपिapi

अन्वय

तेषाम् अल्पमेधसाम् तत् फलम् तु अन्तवत् भवति । देवयजः देवान् यान्ति; मद्भक्ताः माम् अपि यान्ति ।

Shloka 7.24

अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धयः । परं भावमजानन्तो ममाव्ययमनुत्तमम् ॥७-२४॥

पदच्छेद

अव्यक्तम्avyaktamव्यक्तिम्vyaktimआपन्नम्āpannamमन्यन्तेmanyanteमाम्māmअबुद्धयःabuddhayaḥपरम्paramभावम्bhāvamअजानन्तःajānantaḥममmamaअव्ययम्avyayamअनुत्तमम्anuttamam

अन्वय

अबुद्धयः मम परम् अव्ययम् अनुत्तमम् भावम् अजानन्तः अव्यक्तम् माम् व्यक्तिम् आपन्नम् मन्यन्ते ।

Shloka 7.25

नाहं प्रकाशः सर्वस्य योगमायासमावृतः । मूढोऽयं नाभिजानाति लोको मामजमव्ययम् ॥७-२५॥

पदच्छेद

नnaअहम्ahamप्रकाशःprakāśaḥसर्वस्यsarvasyaयोग-माया-समावृतःyoga-māyā-samāvṛtaḥमूढःmūḍhaḥअयम्ayamनnaअभिजानातिabhijānātiलोकःlokaḥमाम्māmअजम्ajamअव्ययम्avyayam

अन्वय

योगमायासमावृतः अहम् सर्वस्य प्रकाशः न [अस्मि] । अयम् मूढः लोकः अजम् अव्ययम् माम् न अभिजानाति ।

Shloka 7.26

वेदाहं समतीतानि वर्तमानानि चार्जुन । भविष्याणि च भूतानि मां तु वेद न कश्चन ॥७-२६॥

पदच्छेद

वेदvedaअहम्ahamसमतीतानिsamatītāniवर्तमानानिvartamānāniचcaअर्जुनarjunaभविष्याणिbhaviṣyāṇiचcaभूतानिbhūtāniमाम्māmतुtuवेदvedaनnaकश्चनkaścana

अन्वय

अर्जुन, अहम् समतीतानि वर्तमानानि च भविष्याणि च भूतानि वेद; माम् तु कश्चन न वेद ।

Shloka 7.27

इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत । सर्वभूतानि संमोहं सर्गे यान्ति परन्तप ॥७-२७॥

पदच्छेद

इच्छा-द्वेष-समुत्थेनicchā-dveṣa-samutthenaद्वन्द्व-मोहेनdvandva-mohenaभारतbhārataसर्व-भूतानिsarva-bhūtāniसंमोहम्saṃmohamसर्गेsargeयान्तिyāntiपरन्तपparantapa

अन्वय

भारत, परन्तप, सर्वभूतानि इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन सर्गे संमोहम् यान्ति ।

Shloka 7.28

येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम् । ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः ॥७-२८॥

पदच्छेद

येषाम्yeṣāmतुtuअन्त-गतम्anta-gatamपापम्pāpamजनानाम्janānāmपुण्य-कर्मणाम्puṇya-karmaṇāmतेteद्वन्द्व-मोह-निर्मुक्ताःdvandva-moha-nirmuktāḥभजन्तेbhajanteमाम्māmदृढ-व्रताःdṛḍha-vratāḥ

अन्वय

येषाम् पुण्यकर्मणाम् जनानाम् पापम् तु अन्तगतम् [अस्ति], ते द्वन्द्वमोहनिर्मुक्ताः दृढव्रताः माम् भजन्ते ।

Shloka 7.29

जरामरणमोक्षाय मामाश्रित्य यतन्ति ये । ते ब्रह्म तद्विदुः कृत्स्नमध्यात्मं कर्म चाखिलम् ॥७-२९॥

पदच्छेद

जरा-मरण-मोक्षायjarā-maraṇa-mokṣāyaमाम्māmआश्रित्यāśrityaयतन्तिyatantiयेyeतेteब्रह्मbrahmaतत्tatविदुःviduḥकृत्स्नम्kṛtsnamअध्यात्मम्adhyātmamकर्मkarmaचcaअखिलम्akhilam

अन्वय

ये जरामरणमोक्षाय माम् आश्रित्य यतन्ति, ते तत् ब्रह्म, कृत्स्नम् अध्यात्मम्, अखिलम् कर्म च विदुः ।

Shloka 7.30

साधिभूताधिदैवं मां साधियज्ञं च ये विदुः । प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः ॥७-३०॥

पदच्छेद

स-अधिभूत-अधिदैवम्sa-adhibhūta-adhidaivamमाम्māmस-अधियज्ञम्sa-adhiyajñamचcaयेyeविदुःviduḥप्रयाण-कालेprayāṇa-kāleअपिapiचcaमाम्māmतेteविदुःviduḥयुक्त-चेतसःyukta-cetasaḥ

अन्वय

ये साधिभूताधिदैवम् साधियज्ञम् च माम् विदुः, ते युक्तचेतसः प्रयाणकाले अपि च माम् विदुः ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Chapters

Chapter 7 · Shlokas

Choose a number to read.

Read the whole chapter →