Sunday Meditation· Open to Everyone

अध्याय ४, ब्राह्मण ३

संस्कृत

Passage 24.9

तस्य वा एतस्य पुरुषस्य द्वे एव स्थाने भवतः । इदं च परलोकस्थानं च । सन्ध्यं तृतीयं स्वप्नस्थानम् । तस्मिन्सन्ध्ये स्थाने तिष्ठनुभे स्थाने पश्यतीदं च परलोकस्थानं च । अथ यथाक्रमोऽयं परलोकस्थाने भवति । तमाक्रममाक्रम्योभयान् पाप्मन आनन्दांश्च पश्यति । स यत्र प्रस्वपित्यस्य लोकस्य सर्वावतो मात्रामपादाय स्वयं विहत्य स्वयं निर्माय स्वेन भासा स्वेन ज्योतिषा प्रस्वपिति । अत्रायं पुरुषः स्वयंज्योतिर्भवति ॥ ९ ॥

पदच्छेद

तस्यtasyaवैvaiएतस्यetasyaपुरुषस्यpuruṣasyaद्वेdveएवevaस्थानेsthāneभवतःbhavataḥइदम्idamचcaपरलोकस्थानम्paralokasthānamचcaसन्ध्यम्sandhyamतृतीयम्tṛtīyamस्वप्नस्थानम्svapnasthānamतस्मिन्tasminसन्ध्येsandhyeस्थानेsthāneतिष्ठन्tiṣṭhanउभेubheस्थानेsthāneपश्यतिpaśyatiइदम्idamचcaपरलोकस्थानम्paralokasthānamचcaअथathaयथाyathāआक्रमःākramaḥअयम्ayamपरलोकस्थानेparalokasthāneभवतिbhavatiतम्tamआक्रमम्ākramamआक्रम्यākramyaउभयान्ubhayānपाप्मनःpāpmanaḥआनन्दान्ānandānचcaपश्यतिpaśyatiसःsaḥयत्रyatraप्रस्वपितिprasvapitiअस्यasyaलोकस्यlokasyaसर्वावतःsarvāvataḥमात्राम्mātrāmअपादायapādāyaस्वयम्svayamविहत्यvihatyaस्वयम्svayamनिर्मायnirmāyaस्वेनsvenaभासाbhāsāस्वेनsvenaज्योतिषाjyotiṣāप्रस्वपितिprasvapitiअत्रatraअयम्ayamपुरुषःpuruṣaḥस्वयंज्योतिःsvayaṃjyotiḥभवतिbhavati

अन्वय

तस्य वा एतस्य पुरुषस्य द्वे एव स्थाने भवतः—इदम् च परलोकस्थानम् च । तृतीयम् स्वप्नस्थानम् सन्ध्यम् [अस्ति] । तस्मिन् सन्ध्ये स्थाने तिष्ठन् [सः] उभे स्थाने पश्यति—इदम् च परलोकस्थानम् च । अथ अयम् परलोकस्थाने यथाक्रमः भवति, तम् आक्रमम् आक्रम्य [सः] उभयान् पाप्मनः आनन्दान् च पश्यति । सः यत्र प्रस्वपिति, [तदा] अस्य सर्वावतः लोकस्य मात्राम् अपादाय, स्वयम् [शरीरम्] विहत्य, स्वयम् [स्वप्नदेहम्] निर्माय, स्वेन भासा स्वेन ज्योतिषा प्रस्वपिति । अत्र अयम् पुरुषः स्वयंज्योतिः भवति ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय ४, ब्राह्मण ३

Read the whole section →