Sunday Meditation· Open to Everyone

अध्याय ५, ब्राह्मण ६

संस्कृत

Passage 33.1

मनोमयोऽयं पुरुषो भाःसत्यः । तस्मिन्नन्तर्हृदये यथा व्रीहिर्वा यवो वा । स एष सर्वस्येशानः सर्वस्याधिपतिः सर्वमिदं प्रशास्ति यदिदं किञ्च ॥ १ ॥

पदच्छेद

मनोमयःmanomayaḥअयम्ayamपुरुषःpuruṣaḥभाःसत्यःbhāḥsatyaḥतस्मिन्tasminअन्तःantaḥहृदयेhṛdayeयथाyathāव्रीहिःvrīhiḥवाvāयवःyavaḥवाvāसःsaḥएषःeṣaḥसर्वस्यsarvasyaईशानःīśānaḥसर्वस्यsarvasyaअधिपतिःadhipatiḥसर्वम्sarvamइदम्idamप्रशास्तिpraśāstiयत्yatइदम्idamकिञ्चkiñca

अन्वय

अयम् पुरुषः मनोमयः भाःसत्यः [अस्ति] । तस्मिन् अन्तर्हृदये [सः] यथा व्रीहिः वा यवः वा [तत्परिमाणः अस्ति] । सः एषः सर्वस्य ईशानः [अस्ति], सर्वस्य अधिपतिः [अस्ति]; यत् इदम् किञ्च, सर्वम् इदम् प्रशास्ति ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय ५, ब्राह्मण ६

Read the whole section →