Sunday Meditation· Open to Everyone

अध्याय ४, ब्राह्मण २

संस्कृत

Passage 23.1

जनको ह वैदेहः कूर्चादुपावसर्पन्नुवाच नमस्तेऽस्तु याज्ञवल्क्य । अनु मा शाधीति । स होवाच यथा वै सम्राण्महान्तमध्वानमेष्यन् रथं वा नावं वा समाददीतैवमेवैताभिरुपनिषद्भिः समाहितात्मासि । एवं वृन्दारक आढ्यः सन्नधीतवेद उक्तोपनिषत्क इतो विमुच्यमानः क्व गमिष्यसीति । नाहं तद्भगवन् वेद यत्र गमिष्यामीति । अथ वै तेऽहं तद्वक्ष्यामि यत्र गमिष्यसीति । ब्रवीतु भगवानिति ॥ १ ॥

पदच्छेद

जनकःjanakaḥहhaवैदेहःvaidehaḥकूर्चात्kūrcātउपावसर्पन्upāvasarpanउवाचuvācaनमःnamaḥतेteअस्तुastuयाज्ञवल्क्यyājñavalkyaअनुanuमाmāशाधिśādhiइतिitiसःsaḥहhaउवाचuvācaयथाyathāवैvaiसम्राट्samrāṭमहान्तम्mahāntamअध्वानम्adhvānamएष्यन्eṣyanरथम्rathamवाvāनावम्nāvamवाvāसमाददीतsamādadītaएवम्evamएवevaएताभिःetābhiḥउपनिषद्भिःupaniṣadbhiḥसमाहितात्माsamāhitātmāअसिasiएवम्evamवृन्दारकःvṛndārakaḥआढ्यःāḍhyaḥसन्sanअधीतवेदःadhītavedaḥउक्तोपनिषत्कःuktopaniṣatkaḥइतःitaḥविमुच्यमानःvimucyamānaḥक्वkvaगमिष्यसिgamiṣyasiइतिitiनnaअहम्ahamतत्tatभगवन्bhagavanवेदvedaयत्रyatraगमिष्यामिgamiṣyāmiइतिitiअथathaवैvaiतेteअहम्ahamतत्tatवक्ष्यामिvakṣyāmiयत्रyatraगमिष्यसिgamiṣyasiइतिitiब्रवीतुbravītuभगवान्bhagavānइतिiti

अन्वय

जनकः ह वैदेहः कूर्चात् उपावसर्पन् उवाच—याज्ञवल्क्य, ते नमः अस्तु । मा अनु शाधि इति । सः ह उवाच—सम्राट्, यथा वै महान्तम् अध्वानम् एष्यन् [पुरुषः] रथम् वा नावम् वा समाददीत, एवम् एव एताभिः उपनिषद्भिः समाहितात्मा असि । एवम् वृन्दारकः आढ्यः सन् अधीतवेदः उक्तोपनिषत्कः इतः विमुच्यमानः क्व गमिष्यसि इति । [जनकः आह—] भगवन्, अहम् तत् न वेद, यत्र गमिष्यामि इति । [याज्ञवल्क्यः आह—] अथ वै अहम् ते तत् वक्ष्यामि, यत्र गमिष्यसि इति । [जनकः आह—] भगवान् ब्रवीतु इति ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय ४, ब्राह्मण २

Read the whole section →