Sunday Meditation· Open to Everyone

अध्याय ३, ब्राह्मण ४

संस्कृत

Passage 16.1

अथ हैनमुषस्तश्चाक्रायणः पप्रच्छ । याज्ञवल्क्येति होवाच यत्साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरस्तं मे व्याचक्ष्वेति । एष त आत्मा सर्वान्तरः । यः प्राणेन प्राणिति स त आत्मा सर्वान्तरः । योऽपानेनापानिति स त आत्मा सर्वान्तरः । यो व्यानेन व्यनिति स त आत्मा सर्वान्तरः । य उदानेनोदनिति स त आत्मा सर्वान्तरः । एष त आत्मा सर्वान्तरः ॥ १ ॥

पदच्छेद

अथathaहhaएनम्enamउषस्तःuṣastaḥचाक्रायणःcākrāyaṇaḥपप्रच्छpapracchaयाज्ञवल्क्यyājñavalkyaइतिitiहhaउवाचuvācaयत्yatसाक्षात्sākṣātअपरोक्षात्aparokṣātब्रह्मbrahmaयःyaḥआत्माātmāसर्वान्तरःsarvāntaraḥतम्tamमेmeव्याचक्ष्वvyācakṣvaइतिitiएषःeṣaḥतेteआत्माātmāसर्वान्तरःsarvāntaraḥयःyaḥप्राणेनprāṇenaप्राणितिprāṇitiसःsaḥतेteआत्माātmāसर्वान्तरःsarvāntaraḥयःyaḥअपानेनapānenaअपानितिapānitiसःsaḥतेteआत्माātmāसर्वान्तरःsarvāntaraḥयःyaḥव्यानेनvyānenaव्यनितिvyanitiसःsaḥतेteआत्माātmāसर्वान्तरःsarvāntaraḥयःyaḥउदानेनudānenaउदनितिudanitiसःsaḥतेteआत्माātmāसर्वान्तरःsarvāntaraḥएषःeṣaḥतेteआत्माātmāसर्वान्तरःsarvāntaraḥ

अन्वय

अथ ह चाक्रायणः उषस्तः एनम् पप्रच्छ । [सः] ह उवाच—याज्ञवल्क्य, यत् साक्षात् अपरोक्षात् ब्रह्म [अस्ति], यः सर्वान्तरः आत्मा [अस्ति], तम् मे व्याचक्ष्व इति । [याज्ञवल्क्यः आह—] एषः ते सर्वान्तरः आत्मा [अस्ति] । यः प्राणेन प्राणिति, सः ते सर्वान्तरः आत्मा [अस्ति] । यः अपानेन अपानिति, सः ते सर्वान्तरः आत्मा [अस्ति] । यः व्यानेन व्यनिति, सः ते सर्वान्तरः आत्मा [अस्ति] । यः उदानेन उदनिति, सः ते सर्वान्तरः आत्मा [अस्ति] । एषः ते सर्वान्तरः आत्मा [अस्ति] ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय ३, ब्राह्मण ४

Read the whole section →