Sunday Meditation· Open to Everyone

अध्याय ३, ब्राह्मण ३

संस्कृत

Passage 15.1

अथ हैनं भुज्युर्लाह्यायनिः पप्रच्छ याज्ञवल्क्येति होवाच मद्रेषु चरकाः पर्यव्रजाम । ते पतञ्चलस्य काप्यस्य गृहानैम । तस्यासीद्दुहिता गन्धर्वगृहीता । तमपृच्छाम कोऽसीति । सोऽब्रवीत्सुधन्वाङ्गिरस इति । तं यदा लोकानामन्तानपृच्छाम । अथैनमब्रूम क्व पारिक्षिता अभवन्निति । क्व पारिक्षिता अभवन् । स त्वा पृच्छामि याज्ञवल्क्य । क्व पारिक्षिता अभवन्निति ॥ १ ॥

पदच्छेद

अथathaहhaएनम्enamभुज्युःbhujyuḥलाह्यायनिःlāhyāyaniḥपप्रच्छpapracchaयाज्ञवल्क्यyājñavalkyaइतिitiहhaउवाचuvācaमद्रेषुmadreṣuचरकाःcarakāḥपर्यव्रजामparyavrajāmaतेteपतञ्चलस्यpatañcalasyaकाप्यस्यkāpyasyaगृहान्gṛhānऐमaimaतस्यtasyaआसीत्āsītदुहिताduhitāगन्धर्वगृहीताgandharvagṛhītāतम्tamअपृच्छामapṛcchāmaकःkaḥअसिasiइतिitiसःsaḥअब्रवीत्abravītसुधन्वाsudhanvāआङ्गिरसःāṅgirasaḥइतिitiतम्tamयदाyadāलोकानाम्lokānāmअन्तान्antānअपृच्छामapṛcchāmaअथathaएनम्enamअब्रूमabrūmaक्वkvaपारिक्षिताःpārikṣitāḥअभवन्abhavanइतिitiक्वkvaपारिक्षिताःpārikṣitāḥअभवन्abhavanसःsaḥत्वाtvāपृच्छामिpṛcchāmiयाज्ञवल्क्यyājñavalkyaक्वkvaपारिक्षिताःpārikṣitāḥअभवन्abhavanइतिiti

अन्वय

अथ ह लाह्यायनिः भुज्युः एनम् पप्रच्छ । [सः] ह उवाच—याज्ञवल्क्य, [वयम्] चरकाः मद्रेषु पर्यव्रजाम । ते [वयम्] काप्यस्य पतञ्चलस्य गृहान् ऐम । तस्य गन्धर्वगृहीता दुहिता आसीत् । [वयम्] तम् अपृच्छाम—कः असि इति । सः अब्रवीत्—सुधन्वा आङ्गिरसः [अस्मि] इति । यदा तम् लोकानाम् अन्तान् अपृच्छाम, अथ एनम् अब्रूम—पारिक्षिताः क्व अभवन् इति । पारिक्षिताः क्व अभवन् । याज्ञवल्क्य, सः [अहम्] त्वा पृच्छामि—पारिक्षिताः क्व अभवन् इति ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय ३, ब्राह्मण ३

Read the whole section →