Sunday Meditation· Open to Everyone

अध्याय ३, ब्राह्मण ९

संस्कृत

Passage 21.1

अथ हैनं विदग्धः शाकल्यः पप्रच्छ कति देवा याज्ञवल्क्येति । स हैतयैव निविदा प्रतिपेदे यावन्तो वैश्वदेवस्य निविद्युच्यन्ते । त्रयश्च त्री च शता त्रयश्च त्री च सहस्रेति । ओमिति होवाच । कत्येव देवा याज्ञवल्क्येति । त्रयस्त्रिंशदिति । ओमिति होवाच । कत्येव देवा याज्ञवल्क्येति । षडिति । ओमिति होवाच । कत्येव देवा याज्ञवल्क्येति । त्रय इति । ओमिति होवाच । कत्येव देवा याज्ञवल्क्येति । द्वाविति । ओमिति होवाच । कत्येव देवा याज्ञवल्क्येति । अध्यर्ध इति । ओमिति होवाच । कत्येव देवा याज्ञवल्क्येति । एक इति । ओमिति होवाच । कतमे ते त्रयश्च त्री च शता त्रयश्च त्री च सहस्रेति ॥ १ ॥

पदच्छेद

अथathaहhaएनम्enamविदग्धःvidagdhaḥशाकल्यःśākalyaḥपप्रच्छpapracchaकतिkatiदेवाःdevāḥयाज्ञवल्क्यyājñavalkyaइतिitiसःsaḥहhaएतयाetayāएवevaनिविदाnividāप्रतिपेदेpratipedeयावन्तःyāvantaḥवैश्वदेवस्यvaiśvadevasyaनिविदिnividiउच्यन्तेucyanteत्रयःtrayaḥचcaत्रीtrīचcaशताśatāत्रयःtrayaḥचcaत्रीtrīचcaसहस्राsahasrāइतिitiओम्omइतिitiहhaउवाचuvācaकतिkatiएवevaदेवाःdevāḥयाज्ञवल्क्यyājñavalkyaइतिitiत्रयस्त्रिंशत्trayastriṃśatइतिitiओम्omइतिitiहhaउवाचuvācaकतिkatiएवevaदेवाःdevāḥयाज्ञवल्क्यyājñavalkyaइतिitiषट्ṣaṭइतिitiओम्omइतिitiहhaउवाचuvācaकतिkatiएवevaदेवाःdevāḥयाज्ञवल्क्यyājñavalkyaइतिitiत्रयःtrayaḥइतिitiओम्omइतिitiहhaउवाचuvācaकतिkatiएवevaदेवाःdevāḥयाज्ञवल्क्यyājñavalkyaइतिitiद्वौdvauइतिitiओम्omइतिitiहhaउवाचuvācaकतिkatiएवevaदेवाःdevāḥयाज्ञवल्क्यyājñavalkyaइतिitiअध्यर्धःadhyardhaḥइतिitiओम्omइतिitiहhaउवाचuvācaकतिkatiएवevaदेवाःdevāḥयाज्ञवल्क्यyājñavalkyaइतिitiएकःekaḥइतिitiओम्omइतिitiहhaउवाचuvācaकतमेkatameतेteत्रयःtrayaḥचcaत्रीtrīचcaशताśatāत्रयःtrayaḥचcaत्रीtrīचcaसहस्राsahasrāइतिiti

अन्वय

अथ ह विदग्धः शाकल्यः एनम् पप्रच्छ—याज्ञवल्क्य, देवाः कति [सन्ति] इति । सः ह एतया एव निविदा प्रतिपेदे—वैश्वदेवस्य निविदि यावन्तः उच्यन्ते [तावन्तः सन्ति] । त्रयः च त्री च शता, त्रयः च त्री च सहस्रा इति । [शाकल्यः] ह उवाच—ओम् इति । याज्ञवल्क्य, देवाः कति एव [सन्ति] इति । [याज्ञवल्क्यः आह—] त्रयस्त्रिंशत् इति । [शाकल्यः] ह उवाच—ओम् इति । याज्ञवल्क्य, देवाः कति एव [सन्ति] इति । [याज्ञवल्क्यः आह—] षट् इति । [शाकल्यः] ह उवाच—ओम् इति । याज्ञवल्क्य, देवाः कति एव [सन्ति] इति । [याज्ञवल्क्यः आह—] त्रयः इति । [शाकल्यः] ह उवाच—ओम् इति । याज्ञवल्क्य, देवाः कति एव [सन्ति] इति । [याज्ञवल्क्यः आह—] द्वौ इति । [शाकल्यः] ह उवाच—ओम् इति । याज्ञवल्क्य, देवाः कति एव [सन्ति] इति । [याज्ञवल्क्यः आह—] अध्यर्धः इति । [शाकल्यः] ह उवाच—ओम् इति । याज्ञवल्क्य, देवाः कति एव [सन्ति] इति । [याज्ञवल्क्यः आह—] एकः इति । [शाकल्यः] ह उवाच—ओम् इति । ते त्रयः च त्री च शता, त्रयः च त्री च सहस्रा कतमे [सन्ति] इति ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय ३, ब्राह्मण ९

Read the whole section →