Sunday Meditation· Open to Everyone

अध्याय ५, ब्राह्मण ११

संस्कृत

Passage 38.1

एतद्वै परमं तपो यद्व्याहितस्तप्यते । परमं हैव लोकं जयति य एवं वेद । एतद्वै परमं तपो यं प्रेतमरण्यं हरन्ति । परमं हैव लोकं जयति य एवं वेद । एतद्वै परमं तपो यं प्रेतमग्नावभ्यादधति । परमं हैव लोकं जयति य एवं वेद ॥ १ ॥

पदच्छेद

एतत्etatवैvaiपरमम्paramamतपःtapaḥयत्yatव्याहितःvyāhitaḥतप्यतेtapyateपरमम्paramamहhaएवevaलोकम्lokamजयतिjayatiयःyaḥएवम्evamवेदvedaएतत्etatवैvaiपरमम्paramamतपःtapaḥयम्yamप्रेतम्pretamअरण्यम्araṇyamहरन्तिharantiपरमम्paramamहhaएवevaलोकम्lokamजयतिjayatiयःyaḥएवम्evamवेदvedaएतत्etatवैvaiपरमम्paramamतपःtapaḥयम्yamप्रेतम्pretamअग्नौagnauअभ्यादधतिabhyādadhatiपरमम्paramamहhaएवevaलोकम्lokamजयतिjayatiयःyaḥएवम्evamवेदveda

अन्वय

यत् व्याहितः तप्यते, एतत् वै परमम् तपः [अस्ति] । यः एवम् वेद, [सः] परमम् ह एव लोकम् जयति । यम् प्रेतम् अरण्यम् हरन्ति, एतत् वै परमम् तपः [अस्ति] । यः एवम् वेद, [सः] परमम् ह एव लोकम् जयति । यम् प्रेतम् अग्नौ अभ्यादधति, एतत् वै परमम् तपः [अस्ति] । यः एवम् वेद, [सः] परमम् ह एव लोकम् जयति ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय ५, ब्राह्मण ११

Read the whole section →