Sunday Meditation· Open to Everyone

अध्याय ६, ब्राह्मण ३

संस्कृत

Passage 45.1

स यः कामयेत महत्प्राप्नुयामित्युदगयन आपूर्यमाणपक्षस्य पुण्याहे द्वादशाहमुपसद्व्रती भूत्वौदुम्बरे कंसे चमसे वा सर्वौषधं फलानीति संभृत्य परिसमुह्य परिलिप्याग्निमुपसमाधाय परिस्तीर्यावृताज्यं संस्कृत्य पुंसा नक्षत्रेण मन्थं संनीय जुहोति यावन्तो देवास्त्वयि जातवेदस्तिर्यञ्चो घ्नन्ति पुरुषस्य कामान् । तेभ्योऽहं भागधेयं जुहोमि ते मा तृप्ताः सर्वैः कामैस्तर्पयन्तु स्वाहा । या तिरश्ची निपद्यसेऽहं विधरणी इति । तां त्वा घृतस्य धारया यजे संराधनीमहं स्वाहा ॥ १ ॥

पदच्छेद

सःsaḥयःyaḥकामयेतkāmayetaमहत्mahatप्राप्नुयाम्prāpnuyāmइतिitiउदगयनेudagayaneआपूर्यमाणपक्षस्यāpūryamāṇapakṣasyaपुण्याहेpuṇyāheद्वादशाहम्dvādaśāhamउपसद्व्रतीupasadvratīभूत्वाbhūtvāऔदुम्बरेaudumbareकंसेkaṃseचमसेcamaseवाvāसर्वौषधम्sarvauṣadhamफलानिphalāniइतिitiसंभृत्यsaṃbhṛtyaपरिसमुह्यparisamuhyaपरिलिप्यparilipyaअग्निम्agnimउपसमाधायupasamādhāyaपरिस्तीर्यparistīryaआवृताāvṛtāआज्यम्ājyamसंस्कृत्यsaṃskṛtyaपुंसाpuṃsāनक्षत्रेणnakṣatreṇaमन्थम्manthamसंनीयsaṃnīyaजुहोतिjuhotiयावन्तःyāvantaḥदेवाःdevāḥत्वयिtvayiजातवेदःjātavedaḥतिर्यञ्चःtiryañcaḥघ्नन्तिghnantiपुरुषस्यpuruṣasyaकामान्kāmānतेभ्यःtebhyaḥअहम्ahamभागधेयम्bhāgadheyamजुहोमिjuhomiतेteमाmāतृप्ताःtṛptāḥसर्वैःsarvaiḥकामैःkāmaiḥतर्पयन्तुtarpayantuस्वाहाsvāhāयाyāतिरश्चीtiraścīनिपद्यसेnipadyaseअहम्ahamविधरणीvidharaṇīइतिitiताम्tāmत्वाtvāघृतस्यghṛtasyaधारयाdhārayāयजेyajeसंराधनीम्saṃrādhanīmअहम्ahamस्वाहाsvāhā

अन्वय

सः यः महत् प्राप्नुयाम् इति कामयेत, [सः] उदगयने आपूर्यमाणपक्षस्य पुण्याहे द्वादशाहम् उपसद्व्रती भूत्वा औदुम्बरे कंसे चमसे वा सर्वौषधम् फलानि इति सम्भृत्य परिसमुह्य परिलिप्य अग्निम् उपसमाधाय परिस्तीर्य आवृता आज्यम् संस्कृत्य पुंसा नक्षत्रेण मन्थम् संनीय जुहोति—जातवेदः, त्वयि यावन्तः तिर्यञ्चः देवाः पुरुषस्य कामान् घ्नन्ति, तेभ्यः अहम् भागधेयम् जुहोमि; ते तृप्ताः मा सर्वैः कामैः तर्पयन्तु, स्वाहा । या अहम् विधरणी इति तिरश्ची निपद्यसे, ताम् त्वा संराधनीम् अहम् घृतस्य धारया यजे, स्वाहा ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय ६, ब्राह्मण ३

Read the whole section →