Sunday Meditation· Open to Everyone

अध्याय ३, ब्राह्मण ७

संस्कृत

Passage 19.1

अथैनमुद्दालक आरुणिः पप्रच्छ याज्ञवल्क्येति होवाच । मद्रेष्ववसाम पतञ्चलस्य काप्यस्य गृहेषु यज्ञमधीयानाः । तस्यासीद्भार्या गन्धर्वगृहीता । तमपृच्छाम कोऽसीति । सोऽब्रवीत्कबन्ध आथर्वण इति । सोऽब्रवीत्पतञ्चलं काप्यं याज्ञिकांश्च वेत्थ नु त्वं काप्य तत्सूत्रं यस्मिन्नयं च लोकः परश्च लोकः सर्वाणि च भूतानि संदृब्धानि भवन्तीति । सोऽब्रवीत्पतञ्चलः काप्यो नाहं तद्भगवन् वेदेति । सोऽब्रवीत्पतञ्चलं काप्यं याज्ञिकांश्च । वेत्थ नु त्वं काप्य तमन्तर्यामिणं य इमं च लोकं परं च लोकं सर्वाणि च भूतान्यन्तरो यमयति । सोऽब्रवीत्पतञ्चलः काप्यो नाहं तं भगवन् वेदेति । सोऽब्रवीत्पतञ्चलं काप्यं याज्ञिकांश्च । यो वै तत्काप्य सूत्रं विद्यात्तं चान्तर्यामिणमिति स ब्रह्मवित्स लोकवित्स देववित्स वेदवित्स आत्मवित्स सर्ववित् । इति तेभ्योऽब्रवीत् । तदहं वेद । तच्चेत्त्वं याज्ञवल्क्य सूत्रमविद्वांस्तं चान्तर्यामिणं ब्रह्मगवीरुदजसे मूर्धा ते विपतिष्यति । वेद वा अहं गौतम तत्सूत्रं तं चान्तर्यामिणमिति । यो वा इदं कश्च ब्रूयाद्वेद वेदेति यथा वेत्थ तथा ब्रूहीति ॥ १ ॥

पदच्छेद

अथathaएनम्enamउद्दालकःuddālakaḥआरुणिःāruṇiḥपप्रच्छpapracchaयाज्ञवल्क्यyājñavalkyaइतिitiहhaउवाचuvācaमद्रेषुmadreṣuअवसामavasāmaपतञ्चलस्यpatañcalasyaकाप्यस्यkāpyasyaगृहेषुgṛheṣuयज्ञम्yajñamअधीयानाःadhīyānāḥतस्यtasyaआसीत्āsītभार्याbhāryāगन्धर्वगृहीताgandharvagṛhītāतम्tamअपृच्छामapṛcchāmaकःkaḥअसिasiइतिitiसःsaḥअब्रवीत्abravītकबन्धःkabandhaḥआथर्वणःātharvaṇaḥइतिitiसःsaḥअब्रवीत्abravītपतञ्चलम्patañcalamकाप्यम्kāpyamयाज्ञिकान्yājñikānचcaवेत्थvetthaनुnuत्वम्tvamकाप्यkāpyaतत्tatसूत्रम्sūtramयस्मिन्yasminअयम्ayamचcaलोकःlokaḥपरःparaḥचcaलोकःlokaḥसर्वाणिsarvāṇiचcaभूतानिbhūtāniसंदृब्धानिsaṃdṛbdhāniभवन्तिbhavantiइतिitiसःsaḥअब्रवीत्abravītपतञ्चलःpatañcalaḥकाप्यःkāpyaḥनnaअहम्ahamतत्tatभगवन्bhagavanवेदvedaइतिitiसःsaḥअब्रवीत्abravītपतञ्चलम्patañcalamकाप्यम्kāpyamयाज्ञिकान्yājñikānचcaवेत्थvetthaनुnuत्वम्tvamकाप्यkāpyaतम्tamअन्तर्यामिणम्antaryāmiṇamयःyaḥइमम्imamचcaलोकम्lokamपरम्paramचcaलोकम्lokamसर्वाणिsarvāṇiचcaभूतानिbhūtāniअन्तरःantaraḥयमयतिyamayatiसःsaḥअब्रवीत्abravītपतञ्चलःpatañcalaḥकाप्यःkāpyaḥनnaअहम्ahamतम्tamभगवन्bhagavanवेदvedaइतिitiसःsaḥअब्रवीत्abravītपतञ्चलम्patañcalamकाप्यम्kāpyamयाज्ञिकान्yājñikānचcaयःyaḥवैvaiतत्tatकाप्यkāpyaसूत्रम्sūtramविद्यात्vidyātतम्tamचcaअन्तर्यामिणम्antaryāmiṇamइतिitiसःsaḥब्रह्मवित्brahmavitसःsaḥलोकवित्lokavitसःsaḥदेववित्devavitसःsaḥवेदवित्vedavitसःsaḥआत्मवित्ātmavitसःsaḥसर्ववित्sarvavitइतिitiतेभ्यःtebhyaḥअब्रवीत्abravītतत्tatअहम्ahamवेदvedaतत्tatचcaचेत्cetत्वम्tvamयाज्ञवल्क्यyājñavalkyaसूत्रम्sūtramअविद्वान्avidvānतम्tamचcaअन्तर्यामिणम्antaryāmiṇamब्रह्मगवीःbrahmagavīḥउदजसेudajaseमूर्धाmūrdhāतेteविपतिष्यतिvipatiṣyatiवेदvedaवैvaiअहम्ahamगौतमgautamaतत्tatसूत्रम्sūtramतम्tamचcaअन्तर्यामिणम्antaryāmiṇamइतिitiयःyaḥवैvaiइदम्idamकःkaḥचcaब्रूयात्brūyātवेदvedaवेदvedaइतिitiयथाyathāवेत्थvetthaतथाtathāब्रूहिbrūhiइतिiti

अन्वय

अथ आरुणिः उद्दालकः एनम् पप्रच्छ । [सः] ह उवाच—याज्ञवल्क्य, [वयम्] यज्ञम् अधीयानाः मद्रेषु काप्यस्य पतञ्चलस्य गृहेषु अवसाम । तस्य गन्धर्वगृहीता भार्या आसीत् । [वयम्] तम् अपृच्छाम—कः असि इति । सः अब्रवीत्—कबन्धः आथर्वणः [अस्मि] इति । सः काप्यम् पतञ्चलम् याज्ञिकान् च अब्रवीत्—काप्य, यस्मिन् अयम् च लोकः परः च लोकः सर्वाणि च भूतानि संदृब्धानि भवन्ति, तत् सूत्रम् त्वम् नु वेत्थ इति । काप्यः पतञ्चलः सः अब्रवीत्—भगवन्, अहम् तत् न वेद इति । सः काप्यम् पतञ्चलम् याज्ञिकान् च अब्रवीत्—काप्य, यः अन्तरः इमम् च लोकम् परम् च लोकम् सर्वाणि च भूतानि यमयति, तम् अन्तर्यामिणम् त्वम् नु वेत्थ । काप्यः पतञ्चलः सः अब्रवीत्—भगवन्, अहम् तम् न वेद इति । सः काप्यम् पतञ्चलम् याज्ञिकान् च अब्रवीत्—काप्य, वै यः तत् सूत्रम् तम् च अन्तर्यामिणम् विद्यात् इति, सः ब्रह्मवित् [अस्ति], सः लोकवित् [अस्ति], सः देववित् [अस्ति], सः वेदवित् [अस्ति], सः आत्मवित् [अस्ति], सः सर्ववित् [अस्ति] । इति तेभ्यः अब्रवीत् । [उद्दालकः आह—] अहम् तत् वेद । याज्ञवल्क्य, चेत् त्वम् तत् सूत्रम् तम् च अन्तर्यामिणम् अविद्वान् ब्रह्मगवीः उदजसे, ते मूर्धा विपतिष्यति । [याज्ञवल्क्यः आह—] गौतम, वा अहम् तत् सूत्रम् तम् च अन्तर्यामिणम् वेद इति । [उद्दालकः आह—] यः वा कः च इदम् वेद वेद इति ब्रूयात्; यथा वेत्थ तथा ब्रूहि इति ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय ३, ब्राह्मण ७

Read the whole section →