Sunday Meditation· Open to Everyone

अध्याय ५, ब्राह्मण ३

संस्कृत

Passage 30.1

एष प्रजापतिर्यद्धृदयम् । एतद्ब्रह्म । एतत्सर्वम् । तदेतत्त्र्यक्षरं हृदयमिति । हृ इत्येकमक्षरम् । अभिहरन्त्यस्मै स्वाश्चान्ये च य एवं वेद । द इत्येकमक्षरम् । ददत्यस्मै स्वाश्चान्ये च य एवं वेद । यमित्येकमक्षरम् । एति स्वर्गं लोकं य एवं वेद ॥ १ ॥

पदच्छेद

एषःeṣaḥप्रजापतिःprajāpatiḥयत्yatहृदयम्hṛdayamएतत्etatब्रह्मbrahmaएतत्etatसर्वम्sarvamतत्tatएतत्etatत्र्यक्षरम्tryakṣaramहृदयम्hṛdayamइतिitiहृhṛइतिitiएकम्ekamअक्षरम्akṣaramअभिहरन्तिabhiharantiअस्मैasmaiस्वाःsvāḥचcaअन्येanyeचcaयःyaḥएवम्evamवेदvedaदdaइतिitiएकम्ekamअक्षरम्akṣaramददतिdadatiअस्मैasmaiस्वाःsvāḥचcaअन्येanyeचcaयःyaḥएवम्evamवेदvedaयम्yamइतिitiएकम्ekamअक्षरम्akṣaramएतिetiस्वर्गम्svargamलोकम्lokamयःyaḥएवम्evamवेदveda

अन्वय

यत् हृदयम् [अस्ति], एषः प्रजापतिः [अस्ति]; एतत् ब्रह्म [अस्ति]; एतत् सर्वम् [अस्ति] । हृदयम् इति तत् एतत् त्र्यक्षरम् [अस्ति] । हृ इति एकम् अक्षरम् [अस्ति]; यः एवम् वेद, अस्मै स्वाः च अन्ये च [बलिम्] अभिहरन्ति । द इति एकम् अक्षरम् [अस्ति]; यः एवम् वेद, अस्मै स्वाः च अन्ये च ददति । यम् इति एकम् अक्षरम् [अस्ति]; यः एवम् वेद, [सः] स्वर्गम् लोकम् एति ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय ५, ब्राह्मण ३

Read the whole section →