Sunday Meditation· Open to Everyone

अध्याय ५, ब्राह्मण १२

संस्कृत

Passage 39.1

अन्नं ब्रह्मेत्येक आहुः । तन्न तथा । पूयति वा अन्नमृते प्राणात् । प्राणो ब्रह्मेत्येक आहुः । तन्न तथा । शुष्यति वै प्राण ऋतेऽन्नात् । एते ह त्वेव देवते एकधाभूयं भूत्वा परमतां गच्छतः । तद्ध स्माह प्रातृदः पितरम् । किं स्विदेवैवं विदुषे साधु कुर्यां किमेवास्मा असाधु कुर्यामिति । स ह स्माह पाणिना मा प्रातृद । कस्त्वेनयोरेकधाभूयं भूत्वा परमतां गच्छतीति । तस्मा उ हैतदुवाच वीति । अन्नं वै वि । अन्ने हीमानि सर्वाणि भूतानि विष्टानि । रमिति । प्राणो वै रम् । प्राणे हीमानि सर्वाणि भूतानि रमन्ते । सर्वाणि ह वा अस्मिन् भूतानि विशन्ति । सर्वाणि भूतानि रमन्ते य एवं वेद ॥ १ ॥

पदच्छेद

अन्नम्annamब्रह्मbrahmaइतिitiएकेekeआहुःāhuḥतत्tatनnaतथाtathāपूयतिpūyatiवैvaiअन्नम्annamऋतेṛteप्राणात्prāṇātप्राणःprāṇaḥब्रह्मbrahmaइतिitiएकेekeआहुःāhuḥतत्tatनnaतथाtathāशुष्यतिśuṣyatiवैvaiप्राणःprāṇaḥऋतेṛteअन्नात्annātएतेeteहhaतुtuएवevaदेवतेdevateएकधाभूयम्ekadhābhūyamभूत्वाbhūtvāपरमताम्paramatāmगच्छतःgacchataḥतत्tatहhaस्मsmaआहāhaप्रातृदःprātṛdaḥपितरम्pitaramकिम्kimस्वित्svitएवevaएवम्evamविदुषेviduṣeसाधुsādhuकुर्याम्kuryāmकिम्kimएवevaअस्मैasmaiअसाधुasādhuकुर्याम्kuryāmइतिitiसःsaḥहhaस्मsmaआहāhaपाणिनाpāṇināमाmāप्रातृदprātṛdaकःkaḥतुtuएनयोःenayoḥएकधाभूयम्ekadhābhūyamभूत्वाbhūtvāपरमताम्paramatāmगच्छतिgacchatiइतिitiतस्मैtasmaiउuहhaएतत्etatउवाचuvācaविviइतिitiअन्नम्annamवैvaiविviअन्नेanneहिhiइमानिimāniसर्वाणिsarvāṇiभूतानिbhūtāniविष्टानिviṣṭāniरम्ramइतिitiप्राणःprāṇaḥवैvaiरम्ramप्राणेprāṇeहिhiइमानिimāniसर्वाणिsarvāṇiभूतानिbhūtāniरमन्तेramanteसर्वाणिsarvāṇiहhaवैvaiअस्मिन्asminभूतानिbhūtāniविशन्तिviśantiसर्वाणिsarvāṇiभूतानिbhūtāniरमन्तेramanteयःyaḥएवम्evamवेदveda

अन्वय

अन्नम् ब्रह्म इति एके आहुः; तत् न तथा [अस्ति] । प्राणात् ऋते अन्नम् पूयति वा । प्राणः ब्रह्म इति एके आहुः; तत् न तथा [अस्ति] । अन्नात् ऋते प्राणः शुष्यति वै । एते ह तु एव देवते एकधाभूयम् भूत्वा परमताम् गच्छतः । प्रातृदः पितरम्, एवम्विदुषे किम् स्वित् एव साधु कुर्याम्; अस्मै किम् एव असाधु कुर्याम् इति तत् ह स्म आह । सः [पिता] पाणिना [निवारयन्], प्रातृद, मा [एवम् वोचः]; एनयोः एकधाभूयम् भूत्वा कः तु परमताम् गच्छति इति ह स्म आह । तस्मै उ ह एतत् उवाच—वि इति । अन्नम् वै वि [अस्ति]; अन्ने हि इमानि सर्वाणि भूतानि विष्टानि [सन्ति] । रम् इति [उवाच] । प्राणः वै रम् [अस्ति]; प्राणे हि इमानि सर्वाणि भूतानि रमन्ते । यः एवम् वेद, अस्मिन् सर्वाणि ह वा भूतानि विशन्ति; सर्वाणि भूतानि रमन्ते ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय ५, ब्राह्मण १२

Read the whole section →