Sunday Meditation· Open to Everyone

अध्याय ५, ब्राह्मण ५

संस्कृत

Passage 32.1

आप एवेदमग्र आसुः । ता आपः सत्यमसृजन्त । सत्यं ब्रह्म । ब्रह्म प्रजापतिम् । प्रजापतिर्देवान् । ते देवाः सत्यमेवोपासते । तदेतत्त्र्यक्षरं सतियमिति स इत्येकमक्षरम् । तीत्येकमक्षरम् । यमित्येकमक्षरम् । प्रथमोत्तमे अक्षरे सत्यं मध्यतोऽनृतम् । तदेतदनृतमुभयतः सत्येन परिगृहीतम् । सत्यभूयमेव भवति । नैवंविद्वांसमनृतं हिनस्ति ॥ १ ॥

पदच्छेद

आपःāpaḥएवevaइदम्idamअग्रेagreआसुःāsuḥताःtāḥआपःāpaḥसत्यम्satyamअसृजन्तasṛjantaसत्यम्satyamब्रह्मbrahmaब्रह्मbrahmaप्रजापतिम्prajāpatimप्रजापतिःprajāpatiḥदेवान्devānतेteदेवाःdevāḥसत्यम्satyamएवevaउपासतेupāsateतत्tatएतत्etatत्र्यक्षरम्tryakṣaramसतियम्satiyamइतिitiसsaइतिitiएकम्ekamअक्षरम्akṣaramतिtiइतिitiएकम्ekamअक्षरम्akṣaramयम्yamइतिitiएकम्ekamअक्षरम्akṣaramप्रथमोत्तमेprathamottameअक्षरेakṣareसत्यम्satyamमध्यतःmadhyataḥअनृतम्anṛtamतत्tatएतत्etatअनृतम्anṛtamउभयतःubhayataḥसत्येनsatyenaपरिगृहीतम्parigṛhītamसत्यभूयम्satyabhūyamएवevaभवतिbhavatiनnaएवम्विद्वांसम्evamvidvāṃsamअनृतम्anṛtamहिनस्तिhinasti

अन्वय

अग्रे इदम् आपः एव आसुः । ताः आपः सत्यम् असृजन्त । सत्यम् ब्रह्म [अस्ति] । ब्रह्म प्रजापतिम् [असृजत]; प्रजापतिः देवान् [असृजत] । ते देवाः सत्यम् एव उपासते । सतियम् इति तत् एतत् त्र्यक्षरम् [अस्ति] । स इति एकम् अक्षरम् [अस्ति]; ती इति एकम् अक्षरम् [अस्ति]; यम् इति एकम् अक्षरम् [अस्ति] । प्रथमोत्तमे अक्षरे सत्यम् [स्तः]; मध्यतः अनृतम् [अस्ति] । तत् एतत् अनृतम् उभयतः सत्येन परिगृहीतम् [अस्ति]; [तत्] सत्यभूयम् एव भवति । अनृतम् एवम्विद्वांसम् न हिनस्ति ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय ५, ब्राह्मण ५

Read the whole section →