Sunday Meditation· Open to Everyone

अध्याय ५, ब्राह्मण २

संस्कृत

Passage 29.1

त्रयाः प्राजापत्याः प्रजापतौ पितरि ब्रह्मचर्यमूषुः । देवा मनुष्या असुराः । उषित्वा ब्रह्मचर्यं देवा ऊचुर्ब्रवीतु नो भवानिति । तेभ्यो हैतदक्षरमुवाच द इति । व्यज्ञासिष्टा३ इति । व्यज्ञासिष्मेति होचुः । दाम्यतेति न आत्थेति । ओमिति होवाच व्यज्ञासिष्टेति ॥ १ ॥

पदच्छेद

त्रयाःtrayāḥप्राजापत्याःprājāpatyāḥप्रजापतौprajāpatauपितरिpitariब्रह्मचर्यम्brahmacaryamऊषुःūṣuḥदेवाःdevāḥमनुष्याःmanuṣyāḥअसुराःasurāḥउषित्वाuṣitvāब्रह्मचर्यम्brahmacaryamदेवाःdevāḥऊचुःūcuḥब्रवीतुbravītuनःnaḥभवान्bhavānइतिitiतेभ्यःtebhyaḥहhaएतत्etatअक्षरम्akṣaramउवाचuvācaदdaइतिitiव्यज्ञासिष्टा३vyajñāsiṣṭā3इतिitiव्यज्ञासिष्मvyajñāsiṣmaइतिitiहhaऊचुःūcuḥदाम्यतdāmyataइतिitiनःnaḥआत्थātthaइतिitiओम्omइतिitiहhaउवाचuvācaव्यज्ञासिष्टvyajñāsiṣṭaइतिiti

अन्वय

त्रयाः प्राजापत्याः—देवाः मनुष्याः असुराः—प्रजापतौ पितरि ब्रह्मचर्यम् ऊषुः । ब्रह्मचर्यम् उषित्वा देवाः, भवान् नः ब्रवीतु इति ऊचुः । [प्रजापतिः] तेभ्यः ह एतत् अक्षरम् द इति उवाच; व्यज्ञासिष्टा३ इति [पप्रच्छ] । [देवाः], व्यज्ञासिष्म इति ह ऊचुः; दाम्यत इति नः आत्थ इति [ऊचुः] । [सः], ओम् इति ह उवाच; व्यज्ञासिष्ट इति [उवाच] ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय ५, ब्राह्मण २

Read the whole section →