Sunday Meditation· Open to Everyone

अध्याय ४, ब्राह्मण ४

संस्कृत

Passage 25.1

स यत्रायमात्माबल्यं न्येत्य संमोहमिव न्येति । अथैनमेते प्राणा अभिसमायन्ति । स एतास्तेजोमात्राः समभ्याददानो हृदयमेवान्ववक्रामति । स यत्रैष चाक्षुषः पुरुषः पराङ्पर्यावर्तते । अथारूपज्ञो भवति ॥ १ ॥

पदच्छेद

सःsaḥयत्रyatraअयम्ayamआत्माātmāअबल्यम्abalyamन्येत्यnyetyaसम्मोहम्sammohamइवivaन्येतिnyetiअथathaएनम्enamएतेeteप्राणाःprāṇāḥअभिसमायन्तिabhisamāyantiसःsaḥएताःetāḥतेजोमात्राःtejomātrāḥसमभ्याददानःsamabhyādadānaḥहृदयम्hṛdayamएवevaअन्ववक्रामतिanvavakrāmatiसःsaḥयत्रyatraएषःeṣaḥचाक्षुषःcākṣuṣaḥपुरुषःpuruṣaḥपराङ्parāṅपर्यावर्ततेparyāvartateअथathaअरूपज्ञःarūpajñaḥभवतिbhavati

अन्वय

यत्र सः अयम् आत्मा अबल्यम् नि एत्य संमोहम् इव नि एति, अथ एनम् एते प्राणाः अभिसमायन्ति । सः एताः तेजोमात्राः समभ्याददानः हृदयम् एव अन्ववक्रामति । यत्र सः एषः चाक्षुषः पुरुषः पराङ् पर्यावर्तते, अथ [अयम्] अरूपज्ञः भवति ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय ४, ब्राह्मण ४

Read the whole section →