Sunday Meditation· Open to Everyone

अध्याय ५, ब्राह्मण १

संस्कृत

Passage 28.1

पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते । खं ब्रह्म । खं पुराणम् । वायुरं खम् । इति ह स्माह कौरव्यायणीपुत्रः । वेदोऽयं ब्राह्मणा विदुः । वेदैनेन यद्वेदितव्यम् ॥ १ ॥

पदच्छेद

पूर्णम्pūrṇamअदःadaḥपूर्णम्pūrṇamइदम्idamपूर्णात्pūrṇātपूर्णम्pūrṇamउदच्यतेudacyateपूर्णस्यpūrṇasyaपूर्णम्pūrṇamआदायādāyaपूर्णम्pūrṇamएवevaअवशिष्यतेavaśiṣyateखम्khamब्रह्मbrahmaखम्khamपुराणम्purāṇamवायुरम्vāyuramखम्khamइतिitiहhaस्मsmaआहāhaकौरव्यायणीपुत्रःkauravyāyaṇīputraḥवेदःvedaḥअयम्ayamब्राह्मणाःbrāhmaṇāḥविदुःviduḥवेदvedaअनेनanenaयत्yatवेदितव्यम्veditavyam

अन्वय

अदः पूर्णम् [ब्रह्म अस्ति]; इदम् पूर्णम् [ब्रह्म अस्ति]; पूर्णात् [कारणात्मनः ब्रह्मणः] पूर्णम् [कार्यात्मकम् ब्रह्म] उदच्यते । पूर्णस्य [कार्यात्मनः ब्रह्मणः] पूर्णम् [आत्मस्वरूपम्] आदाय [स्वात्मत्वेन विदित्वा], पूर्णम् एव [केवलम् ब्रह्म] अवशिष्यते । खम् ब्रह्म [अस्ति]; खम् पुराणम् [अस्ति] । वायुरम् खम् [अस्ति] इति कौरव्यायणीपुत्रः ह स्म आह । ब्राह्मणाः अयम् [ओङ्कारः] वेदः [इति] विदुः; एनेन [ओङ्कारेण] यत् [ब्रह्म] वेदितव्यम्, [तत् साधकः] वेद [विजानाति] ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय ५, ब्राह्मण १

Read the whole section →