Sunday Meditation· Open to Everyone

अध्याय २, ब्राह्मण ५

संस्कृत

Passage 11.1

इयं पृथिवी सर्वेषां भूतानां मधु । अस्यै पृथिव्यै सर्वाणि भूतानि मधु । यश्चायमस्यां पृथिव्यां तेजोमयोऽमृतमयः पुरुषो यस्चायमध्यात्मं शारीरस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मा । इदममृतमिदं ब्रह्मेदं सर्वम् ॥ १ ॥

पदच्छेद

इयम्iyamपृथिवीpṛthivīसर्वेषाम्sarveṣāmभूतानाम्bhūtānāmमधुmadhuअस्यैasyaiपृथिव्यैpṛthivyaiसर्वाणिsarvāṇiभूतानिbhūtāniमधुmadhuयःyaḥचcaअयम्ayamअस्याम्asyāmपृथिव्याम्pṛthivyāmतेजोमयःtejomayaḥअमृतमयःamṛtamayaḥपुरुषःpuruṣaḥयःyaḥचcaअयम्ayamअध्यात्मम्adhyātmamशारीरःśārīraḥतेजोमयःtejomayaḥअमृतमयःamṛtamayaḥपुरुषःpuruṣaḥअयम्ayamएवevaसःsaḥयःyaḥअयम्ayamआत्माātmāइदम्idamअमृतम्amṛtamइदम्idamब्रह्मbrahmaइदम्idamसर्वम्sarvam

अन्वय

इयम् पृथिवी सर्वेषाम् भूतानाम् मधु [अस्ति] । अस्यै पृथिव्यै सर्वाणि भूतानि मधु [सन्ति] । अस्याम् पृथिव्याम् यः च अयम् तेजोमयः अमृतमयः पुरुषः [अस्ति], अध्यात्मम् यः च अयम् शारीरः तेजोमयः अमृतमयः पुरुषः [अस्ति], अयम् एव सः [अस्ति], यः अयम् आत्मा [अस्ति] । इदम् अमृतम् [अस्ति]; इदम् ब्रह्म [अस्ति]; इदम् सर्वम् [अस्ति] ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय २, ब्राह्मण ५

Read the whole section →