Sunday Meditation· Open to Everyone

अध्याय ३, ब्राह्मण १

संस्कृत

Passage 13.1

जनको ह वैदेहो बहुदक्षिणेन यज्ञेनेजे । तत्र ह कुरुपञ्चालानां ब्राह्मणा अभिसमेता बभूवुः । तस्य ह जनकस्य वैदेहस्य विजिज्ञासा बभूव कः स्विदेषां ब्राह्मणानामनूचानतम इति । स ह गवां सहस्रमवरुरोध । दशदश पादा एकैकस्याः शृङ्गयोराबद्धा बभूवुः ॥ १ ॥

पदच्छेद

जनकःjanakaḥहhaवैदेहःvaidehaḥबहुदक्षिणेनbahudakṣiṇenaयज्ञेनyajñenaईजेījeतत्रtatraहhaकुरुपञ्चालानाम्kurupañcālānāmब्राह्मणाःbrāhmaṇāḥअभिसमेताःabhisametāḥबभूवुःbabhūvuḥतस्यtasyaहhaजनकस्यjanakasyaवैदेहस्यvaidehasyaविजिज्ञासाvijijñāsāबभूवbabhūvaकःkaḥस्वित्svitएषाम्eṣāmब्राह्मणानाम्brāhmaṇānāmअनूचानतमःanūcānatamaḥइतिitiसःsaḥहhaगवाम्gavāmसहस्रम्sahasramअवरुरोधavarurodhaदशdaśaदशdaśaपादाःpādāḥएकैकस्याःekaikasyāḥशृङ्गयोःśṛṅgayoḥआबद्धाःābaddhāḥबभूवुःbabhūvuḥ

अन्वय

वैदेहः जनकः ह बहुदक्षिणेन यज्ञेन ईजे । तत्र ह कुरुपञ्चालानाम् ब्राह्मणाः अभिसमेताः बभूवुः । तस्य ह वैदेहस्य जनकस्य विजिज्ञासा बभूव—एषाम् ब्राह्मणानाम् कः स्वित् अनूचानतमः [अस्ति] इति । सः ह गवाम् सहस्रम् अवरुरोध । एकैकस्याः शृङ्गयोः दश दश पादाः आबद्धाः बभूवुः ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय ३, ब्राह्मण १

Read the whole section →