Sunday Meditation· Open to Everyone

अध्याय ४, ब्राह्मण ३

संस्कृत

Passage 24.15

स वा एष एतस्मिन् संप्रसादे रत्वा चरित्वा दृष्ट्वैव पुण्यं च पापं च पुनः प्रतिन्यायं प्रतियोन्याद्रवति स्वप्नायैव । स यत्तत्र किञ्चित्पश्यत्यनन्वागतस्तेन भवति । असङ्गो ह्ययं पुरुष इति । एवमेवैतत्याज्ञवल्क्य । सोऽहं भगवते सहस्रं ददामि । अत ऊर्ध्वं विमोक्षायैव ब्रूहीति ॥ १५ ॥

पदच्छेद

सःsaḥवैvaiएषःeṣaḥएतस्मिन्etasminसम्प्रसादेsamprasādeरत्वाratvāचरित्वाcaritvāदृष्ट्वाdṛṣṭvāएवevaपुण्यम्puṇyamचcaपापम्pāpamचcaपुनःpunaḥप्रतिन्यायम्pratinyāyamप्रतियोनिpratiyoniआद्रवतिādravatiस्वप्नायsvapnāyaएवevaसःsaḥयत्yatतत्रtatraकिञ्चित्kiñcitपश्यतिpaśyatiअनन्वागतःananvāgataḥतेनtenaभवतिbhavatiअसङ्गःasaṅgaḥहिhiअयम्ayamपुरुषःpuruṣaḥइतिitiएवम्evamएवevaएतत्etatयाज्ञवल्क्यyājñavalkyaसःsaḥअहम्ahamभगवतेbhagavateसहस्रम्sahasramददामिdadāmiअतःataḥऊर्ध्वम्ūrdhvamविमोक्षायvimokṣāyaएवevaब्रूहिbrūhiइतिiti

अन्वय

सः वा एषः [पूर्वम् स्वप्ने] रत्वा चरित्वा पुण्यम् [पुण्यफलम्] च पापम् [पापफलम्] च दृष्ट्वा एव, एतस्मिन् संप्रसादे [सुषुप्ते स्थित्वा], पुनः प्रतिन्यायम् प्रतियोनि स्वप्नाय एव आद्रवति । सः तत्र यत् किञ्चित् पश्यति, तेन अनन्वागतः भवति । हि अयम् पुरुषः असङ्गः [अस्ति] इति । [जनकः आह—] याज्ञवल्क्य, एतत् एवम् एव [अस्ति] । सः अहम् भगवते सहस्रम् ददामि । अतः ऊर्ध्वम् विमोक्षाय एव ब्रूहि इति ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय ४, ब्राह्मण ३

Read the whole section →