Passage 21.22
किंदेवतोऽस्यां प्रतीच्यां दिश्यसीति । वरुणदेवत इति । स वरुणः कस्मिन् प्रतिष्ठित इति । अप्स्विति । कस्मिन्न्वापः प्रतिष्ठिता इति । रेतसीति । कस्मिन्नु रेतः प्रतिष्ठितमिति । हृदय इति । तस्मादपि प्रतिरूपं जातमाहुर्हृदयादिव सृप्तो हृदयादिव निर्मित इति । हृदये ह्येव रेतः प्रतिष्ठितं भवतीति । एवमेवैतद्याज्ञवल्क्य ॥ २२ ॥
पदच्छेद
अन्वय
[शाकल्यः पप्रच्छ—] अस्याम् प्रतीच्याम् दिशि [त्वम्] किन्देवतः असि इति । [याज्ञवल्क्यः आह—] वरुणदेवतः [अस्मि] इति । [शाकल्यः पप्रच्छ—] सः वरुणः कस्मिन् प्रतिष्ठितः [अस्ति] इति । [याज्ञवल्क्यः आह—] अप्सु इति । [शाकल्यः पप्रच्छ—] आपः कस्मिन् नु प्रतिष्ठिताः [सन्ति] इति । [याज्ञवल्क्यः आह—] रेतसि इति । [शाकल्यः पप्रच्छ—] रेतः कस्मिन् नु प्रतिष्ठितम् [अस्ति] इति । [याज्ञवल्क्यः आह—] हृदये इति । तस्मात् अपि प्रतिरूपम् जातम् आहुः—[अयम्] हृदयात् इव सृप्तः, हृदयात् इव निर्मितः इति । हि एव हृदये रेतः प्रतिष्ठितम् भवति इति । [शाकल्यः आह—] याज्ञवल्क्य, एतत् एवम् एव [अस्ति] ।
हिन्दी अर्थ
पश्चिम दिशा में तुम्हारी देवता कौन है? वरुण। वरुण किसमें प्रतिष्ठित हैं? जल में। जल किसमें? रेतस् में। रेतस् किसमें? हृदय में। इसीलिए जब सन्तान समान रूप वाली जन्मती है, तो कहते हैं कि वह मानो हृदय से निकली, हृदय से बनी है; क्योंकि रेतस् हृदय में प्रतिष्ठित है। शाकल्य ने कहा: याज्ञवल्क्य, यह ठीक है।
English meaning
“What deity have you in the western direction?” “Varuna.” “In what is Varuna established?” “In the waters.” “And the waters?” “In semen.” “And semen?” “In the heart. Hence, when a resembling child is born, people say, ‘As though it issued from the heart, as though it were made from the heart.’ For semen is established in the heart.” “That is so, Yajnavalkya.”
व्याख्या
हृदय से सन्तान बनने की उपमा समानता और भावात्मक निरन्तरता की प्राचीन व्याख्या है। रेतस् की यह प्रतिष्ठा आधुनिक शरीर-विज्ञान या आनुवंशिकी का विवरण नहीं है।
Explanation
The heart-born-child image explains resemblance and continuity within ancient thought. The location assigned to semen is not a modern physiological or genetic account.
संदर्भ
पश्चिम की संगति जल और जन्म के माध्यम से हृदय तक पहुँचती है।
Context
The western correlation reaches the heart through water and generation.