Sunday Meditation· Open to Everyone

अध्याय ३, ब्राह्मण ९

संस्कृत

Passage 21.10

पृथिव्येव यस्यायतनमग्निर्लोको मनो ज्योतिर्यो वै तं पुरुषं विद्यात्सर्वस्यात्मनः परायणं स वै वेदिता स्यात् । याज्ञवल्क्य वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यमात्थ । य एवायं शारीरः पुरुषः स एषः । वदैव शाकल्य तस्य का देवतेति । अमृतमिति होवाच ॥ १० ॥

पदच्छेद

पृथिवीpṛthivīएवevaयस्यyasyaआयतनम्āyatanamअग्निःagniḥलोकःlokaḥमनःmanaḥज्योतिःjyotiḥयःyaḥवैvaiतम्tamपुरुषम्puruṣamविद्यात्vidyātसर्वस्यsarvasyaआत्मनःātmanaḥपरायणम्parāyaṇamसःsaḥवैvaiवेदिताveditāस्यात्syātयाज्ञवल्क्यyājñavalkyaवेदvedaवैvaiअहम्ahamतम्tamपुरुषम्puruṣamसर्वस्यsarvasyaआत्मनःātmanaḥपरायणम्parāyaṇamयम्yamआत्थātthaयःyaḥएवevaअयम्ayamशारीरःśārīraḥपुरुषःpuruṣaḥसःsaḥएषःeṣaḥवदvadaएवevaशाकल्यśākalyaतस्यtasyaकाkāदेवताdevatāइतिitiअमृतम्amṛtamइतिitiहhaउवाचuvāca

अन्वय

[शाकल्यः आह—] याज्ञवल्क्य, यस्य पृथिवी एव आयतनम्, [यस्य] अग्निः लोकः, [यस्य] मनः ज्योतिः, सर्वस्य आत्मनः परायणम् तम् पुरुषम् यः वै विद्यात्, सः वै वेदिता स्यात् । [याज्ञवल्क्यः आह—] यम् आत्थ, सर्वस्य आत्मनः परायणम् तम् पुरुषम् अहम् वा वेद । यः एव अयम् शारीरः पुरुषः, सः एषः [अस्ति] । शाकल्य, वद एव । [शाकल्यः पप्रच्छ—] तस्य का देवता इति । [याज्ञवल्क्यः] ह उवाच—अमृतम् इति ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय ३, ब्राह्मण ९

Read the whole section →