Sunday Meditation· Open to Everyone

अध्याय ३, ब्राह्मण ९

संस्कृत

Passage 21.26

कस्मिन्नु त्वं चात्मा च प्रतिष्ठितौ स्थ इति । प्राण इति । कस्मिन्नु प्राणः प्रतिष्ठित इति । अपान इति । कस्मिन्न्वपानः प्रतिष्ठित इति । व्यान इति । कस्मिन्नु व्यानः प्रतिष्ठित इति । उदान इति । कस्मिन्नूदानः प्रतिष्ठित इति । समान इति । स एष नेति नेत्यात्मा । अगृह्यो न हि गृह्यते । अशीर्यो न हि शीर्यते । असङ्गो न सज्यते । असितो न व्यथते । न रिष्यति । एतान्यष्टावायतनान्यष्टौ लोका अष्टौ देवा अष्टौ पुरुषाः । स यस्तान् पुरुषान्निरुह्य प्रत्युह्यात्यक्रामत्तं त्वौपनिषदं पुरुषं पृच्छामि । तं चेन्मे न विवक्ष्यसि मूर्धा ते विपतिष्यतीति । तं ह न मेने शाकल्यस्। तस्य ह मूर्धा विपपात । अपि हास्य परिमोषिणोऽस्थीन्यपजह्रुरन्यन्मन्यमानाः ॥ २६ ॥

पदच्छेद

कस्मिन्kasminनुnuत्वम्tvamचcaआत्माātmāचcaप्रतिष्ठितौpratiṣṭhitauस्थःsthaḥइतिitiप्राणेprāṇeइतिitiकस्मिन्kasminनुnuप्राणःprāṇaḥप्रतिष्ठितःpratiṣṭhitaḥइतिitiअपानेapāneइतिitiकस्मिन्kasminनुnuअपानःapānaḥप्रतिष्ठितःpratiṣṭhitaḥइतिitiव्यानेvyāneइतिitiकस्मिन्kasminनुnuव्यानःvyānaḥप्रतिष्ठितःpratiṣṭhitaḥइतिitiउदानेudāneइतिitiकस्मिन्kasminनुnuउदानःudānaḥप्रतिष्ठितःpratiṣṭhitaḥइतिitiसमानेsamāneइतिitiसःsaḥएषःeṣaḥनnaइतिitiनnaइतिitiआत्माātmāअगृह्यःagṛhyaḥनnaहिhiगृह्यतेgṛhyateअशीर्यःaśīryaḥनnaहिhiशीर्यतेśīryateअसङ्गःasaṅgaḥनnaसज्यतेsajyateअसितःasitaḥनnaव्यथतेvyathateनnaरिष्यतिriṣyatiएतानिetāniअष्टौaṣṭauआयतनानिāyatanāniअष्टौaṣṭauलोकाःlokāḥअष्टौaṣṭauदेवाःdevāḥअष्टौaṣṭauपुरुषाःpuruṣāḥसःsaḥयःyaḥतान्tānपुरुषान्puruṣānनिरुह्यniruhyaप्रत्युह्यpratyuhyaअत्यक्रामत्atyakrāmatतम्tamत्वाtvāऔपनिषदम्aupaniṣadamपुरुषम्puruṣamपृच्छामिpṛcchāmiतम्tamचेत्cetमेmeनnaविवक्ष्यसिvivakṣyasiमूर्धाmūrdhāतेteविपतिष्यतिvipatiṣyatiइतिitiतम्tamहhaनnaमेनेmeneशाकल्यःśākalyaḥतस्यtasyaहhaमूर्धाmūrdhāविपपातvipapātaअपिapiहhaअस्यasyaपरिमोषिणःparimoṣiṇaḥअस्थीनिasthīniअपजह्रुःapajahruḥअन्यत्anyatमन्यमानाःmanyamānāḥ

अन्वय

[शाकल्यः पप्रच्छ—] त्वम् च आत्मा च कस्मिन् नु प्रतिष्ठितौ स्थः इति । [याज्ञवल्क्यः आह—] प्राणे इति । [शाकल्यः पप्रच्छ—] प्राणः कस्मिन् नु प्रतिष्ठितः [अस्ति] इति । [याज्ञवल्क्यः आह—] अपाने इति । [शाकल्यः पप्रच्छ—] अपानः कस्मिन् नु प्रतिष्ठितः [अस्ति] इति । [याज्ञवल्क्यः आह—] व्याने इति । [शाकल्यः पप्रच्छ—] व्यानः कस्मिन् नु प्रतिष्ठितः [अस्ति] इति । [याज्ञवल्क्यः आह—] उदाने इति । [शाकल्यः पप्रच्छ—] उदानः कस्मिन् नु प्रतिष्ठितः [अस्ति] इति । [याज्ञवल्क्यः आह—] समाने इति । सः एषः न इति न इति आत्मा [निर्दिष्टः] । अगृह्यः [अस्ति], हि न गृह्यते; अशीर्यः [अस्ति], हि न शीर्यते; असङ्गः [अस्ति], न सज्यते; असितः [अबद्धः इत्यर्थः] [अस्ति], न व्यथते, न रिष्यति । एतानि अष्टौ आयतनानि [सन्ति]; अष्टौ लोकाः [सन्ति]; अष्टौ देवाः [सन्ति]; अष्टौ पुरुषाः [सन्ति] । सः [आत्मा], यः तान् पुरुषान् निरुह्य [निश्चयेन ऊहित्वा] प्रत्युह्य [हृदये उपसंहृत्य उपाधिधर्मम्] अत्यक्रामत्, तम् औपनिषदम् पुरुषम् त्वा [अहम्] पृच्छामि । चेत् मे तम् न विवक्ष्यसि, ते मूर्धा विपतिष्यति इति । शाकल्यस् [शाकल्यः इत्यर्थः] तम् ह न मेने [न विज्ञातवान् इत्यर्थः] । तस्य ह मूर्धा विपपात । अपि ह परिमोषिणः अन्यत् मन्यमानाः अस्य अस्थीनि अपजह्रुः ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय ३, ब्राह्मण ९

Read the whole section →