Sunday Meditation· Open to Everyone

अध्याय ३, ब्राह्मण ९

संस्कृत

Passage 21.28

तान् हैतैः श्लोकैः पप्रच्छ यथा वृक्षो वनस्पतिस्तथैव पुरुषोऽमृषा । तस्य लोमानि पर्णानि त्वगस्योत्पाटिका बहिः त्वच एवास्य रुधिरं प्रस्यन्दि त्वच उत्पटः । तस्मात्तदातृण्णात्प्रैति रसो वृक्षादिवाहतात् मांसान्यस्य शकराणि किनाटं स्नाव तत्स्थिरम् । अस्थीन्यन्तरतो दारुणि मज्जा मज्जोपमा कृता यद्वृक्षो वृक्णो रोहति मूलान्नवतरः पुनः । मर्त्यः स्विन्मृत्युना वृक्णः कस्मान्मूलात्प्ररोहति रेतस इति मा वोचत जीवतस्तत्प्रजायते । धानारुह इव वै वृक्षोऽञ्जसा प्रेत्य सम्भवः यत्समूलमावृहेयुर्वृक्षं न पुनराभवेत् । मर्त्यः स्विन्मृत्युना वृक्णः कस्मान्मूलात्प्ररोहति जात एव न जायते को न्वेनं जनयेत्पुनः । विज्ञानमानन्दं ब्रह्म रातिर्दातुः परायणं तिष्ठमानस्य तद्विद इति ॥ २८ ॥

पदच्छेद

तान्tānहhaएतैःetaiḥश्लोकैःślokaiḥपप्रच्छpapracchaयथाyathāवृक्षःvṛkṣaḥवनस्पतिःvanaspatiḥतथाtathāएवevaपुरुषःpuruṣaḥअमृषाamṛṣāतस्यtasyaलोमानिlomāniपर्णानिparṇāniत्वक्tvakअस्यasyaउत्पाटिकाutpāṭikāबहिःbahiḥत्वचःtvacaḥएवevaअस्यasyaरुधिरम्rudhiramप्रस्यन्दिprasyandiत्वचःtvacaḥउत्पटःutpaṭaḥतस्मात्tasmātतत्tatआतृण्णात्ātṛṇṇātप्रैतिpraitiरसःrasaḥवृक्षात्vṛkṣātइवivaआहतात्āhatātमांसानिmāṃsāniअस्यasyaशकराणिśakarāṇiकिनाटम्kināṭamस्नावsnāvaतत्tatस्थिरम्sthiramअस्थीनिasthīniअन्तरतःantarataḥदारुणिdāruṇiमज्जाmajjāमज्जोपमाmajjopamāकृताkṛtāयत्yatवृक्षःvṛkṣaḥवृक्णःvṛkṇaḥरोहतिrohatiमूलात्mūlātनवतरःnavataraḥपुनःpunaḥमर्त्यःmartyaḥस्वित्svitमृत्युनाmṛtyunāवृक्णःvṛkṇaḥकस्मात्kasmātमूलात्mūlātप्ररोहतिprarohatiरेतसःretasaḥइतिitiमाmāवोचतvocataजीवतःjīvataḥतत्tatप्रजायतेprajāyateधानारुहःdhānāruhaḥइवivaवैvaiवृक्षःvṛkṣaḥअञ्जसाañjasāप्रेत्यpretyaसम्भवःsambhavaḥयत्yatसमूलम्samūlamआवृहेयुःāvṛheyuḥवृक्षम्vṛkṣamनnaपुनःpunaḥआभवेत्ābhavetमर्त्यःmartyaḥस्वित्svitमृत्युनाmṛtyunāवृक्णःvṛkṇaḥकस्मात्kasmātमूलात्mūlātप्ररोहतिprarohatiजातःjātaḥएवevaनnaजायतेjāyateकःkaḥनुnuएनम्enamजनयेत्janayetपुनःpunaḥविज्ञानम्vijñānamआनन्दम्ānandamब्रह्मbrahmaरातिःrātiḥदातुःdātuḥपरायणम्parāyaṇamतिष्ठमानस्यtiṣṭhamānasyaतद्विदःtadvidaḥइतिiti

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय ३, ब्राह्मण ९

Read the whole section →