Sunday Meditation· Open to Everyone

अध्याय ३, ब्राह्मण ९

संस्कृत

Passage 21.20

किंदेवतोऽस्यां प्राच्यां दिश्यसीति । आदित्यदेवत इति । स आदित्यः कस्मिन् प्रतिष्ठित इति । चक्षुषीति । कस्मिन्नु चक्षुः प्रतिष्ठितमिति । रूपेष्विति । चक्षुषा हि रूपाणि पश्यति । कस्मिन्नु रूपाणि प्रतिष्ठितानीति । हृदय इति होवाच । हृदयेन हि रूपाणि जानाति । हृदये ह्येव रूपाणि प्रतिष्ठितानि भवन्तीति । एवमेवैतद्याज्ञवल्क्य ॥ २० ॥

पदच्छेद

किंदेवतःkiṃdevataḥअस्याम्asyāmप्राच्याम्prācyāmदिशिdiśiअसिasiइतिitiआदित्यदेवतःādityadevataḥइतिitiसःsaḥआदित्यःādityaḥकस्मिन्kasminप्रतिष्ठितःpratiṣṭhitaḥइतिitiचक्षुषिcakṣuṣiइतिitiकस्मिन्kasminनुnuचक्षुःcakṣuḥप्रतिष्ठितम्pratiṣṭhitamइतिitiरूपेषुrūpeṣuइतिitiचक्षुषाcakṣuṣāहिhiरूपाणिrūpāṇiपश्यतिpaśyatiकस्मिन्kasminनुnuरूपाणिrūpāṇiप्रतिष्ठितानिpratiṣṭhitāniइतिitiहृदयेhṛdayeइतिitiहhaउवाचuvācaहृदयेनhṛdayenaहिhiरूपाणिrūpāṇiजानातिjānātiहृदयेhṛdayeहिhiएवevaरूपाणिrūpāṇiप्रतिष्ठितानिpratiṣṭhitāniभवन्तिbhavantiइतिitiएवम्evamएवevaएतत्etatयाज्ञवल्क्यyājñavalkya

अन्वय

[शाकल्यः पप्रच्छ—] अस्याम् प्राच्याम् दिशि [त्वम्] किन्देवतः असि इति । [याज्ञवल्क्यः आह—] आदित्यदेवतः [अस्मि] इति । [शाकल्यः पप्रच्छ—] सः आदित्यः कस्मिन् प्रतिष्ठितः [अस्ति] इति । [याज्ञवल्क्यः आह—] चक्षुषि इति । [शाकल्यः पप्रच्छ—] चक्षुः कस्मिन् नु प्रतिष्ठितम् [अस्ति] इति । [याज्ञवल्क्यः आह—] रूपेषु इति । हि चक्षुषा [पुरुषः] रूपाणि पश्यति । [शाकल्यः पप्रच्छ—] रूपाणि कस्मिन् नु प्रतिष्ठितानि [सन्ति] इति । हृदये इति [याज्ञवल्क्यः] ह उवाच । हि हृदयेन [पुरुषः] रूपाणि जानाति । हि एव हृदये रूपाणि प्रतिष्ठितानि भवन्ति इति । [शाकल्यः आह—] याज्ञवल्क्य, एतत् एवम् एव [अस्ति] ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय ३, ब्राह्मण ९

Read the whole section →