Sunday Meditation· Open to Everyone

अध्याय ३, ब्राह्मण ९

संस्कृत

Passage 21.12

रूपाण्येव यस्यायतनं चक्षुर्लोको मनो ज्योतिर्यो वै तं पुरुषं विद्यात्सर्वस्यात्मनः परायणं स वै वेदिता स्यात् । याज्ञवल्क्य वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यमात्थ । य एवासावादित्ये पुरुषः स एषः । वदैव शाकल्य तस्य का देवतेति । सत्यमिति होवाच ॥ १२ ॥

पदच्छेद

रूपाणिrūpāṇiएवevaयस्यyasyaआयतनम्āyatanamचक्षुःcakṣuḥलोकःlokaḥमनःmanaḥज्योतिःjyotiḥयःyaḥवैvaiतम्tamपुरुषम्puruṣamविद्यात्vidyātसर्वस्यsarvasyaआत्मनःātmanaḥपरायणम्parāyaṇamसःsaḥवैvaiवेदिताveditāस्यात्syātयाज्ञवल्क्यyājñavalkyaवेदvedaवैvaiअहम्ahamतम्tamपुरुषम्puruṣamसर्वस्यsarvasyaआत्मनःātmanaḥपरायणम्parāyaṇamयम्yamआत्थātthaयःyaḥएवevaअसौasauआदित्येādityeपुरुषःpuruṣaḥसःsaḥएषःeṣaḥवदvadaएवevaशाकल्यśākalyaतस्यtasyaकाkāदेवताdevatāइतिitiसत्यम्satyamइतिitiहhaउवाचuvāca

अन्वय

[शाकल्यः आह—] याज्ञवल्क्य, यस्य रूपाणि एव आयतनम्, [यस्य] चक्षुः लोकः, [यस्य] मनः ज्योतिः, सर्वस्य आत्मनः परायणम् तम् पुरुषम् यः वै विद्यात्, सः वै वेदिता स्यात् । [याज्ञवल्क्यः आह—] यम् आत्थ, सर्वस्य आत्मनः परायणम् तम् पुरुषम् अहम् वा वेद । यः एव असौ आदित्ये पुरुषः, सः एषः [अस्ति] । शाकल्य, वद एव । [शाकल्यः पप्रच्छ—] तस्य का देवता इति । [याज्ञवल्क्यः] ह उवाच—सत्यम् इति ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय ३, ब्राह्मण ९

Read the whole section →