Sunday Meditation· Open to Everyone

अध्याय ३, ब्राह्मण ९

संस्कृत

Passage 21.1

अथ हैनं विदग्धः शाकल्यः पप्रच्छ कति देवा याज्ञवल्क्येति । स हैतयैव निविदा प्रतिपेदे यावन्तो वैश्वदेवस्य निविद्युच्यन्ते । त्रयश्च त्री च शता त्रयश्च त्री च सहस्रेति । ओमिति होवाच । कत्येव देवा याज्ञवल्क्येति । त्रयस्त्रिंशदिति । ओमिति होवाच । कत्येव देवा याज्ञवल्क्येति । षडिति । ओमिति होवाच । कत्येव देवा याज्ञवल्क्येति । त्रय इति । ओमिति होवाच । कत्येव देवा याज्ञवल्क्येति । द्वाविति । ओमिति होवाच । कत्येव देवा याज्ञवल्क्येति । अध्यर्ध इति । ओमिति होवाच । कत्येव देवा याज्ञवल्क्येति । एक इति । ओमिति होवाच । कतमे ते त्रयश्च त्री च शता त्रयश्च त्री च सहस्रेति ॥ १ ॥

पदच्छेद

अथathaहhaएनम्enamविदग्धःvidagdhaḥशाकल्यःśākalyaḥपप्रच्छpapracchaकतिkatiदेवाःdevāḥयाज्ञवल्क्यyājñavalkyaइतिitiसःsaḥहhaएतयाetayāएवevaनिविदाnividāप्रतिपेदेpratipedeयावन्तःyāvantaḥवैश्वदेवस्यvaiśvadevasyaनिविदिnividiउच्यन्तेucyanteत्रयःtrayaḥचcaत्रीtrīचcaशताśatāत्रयःtrayaḥचcaत्रीtrīचcaसहस्राsahasrāइतिitiओम्omइतिitiहhaउवाचuvācaकतिkatiएवevaदेवाःdevāḥयाज्ञवल्क्यyājñavalkyaइतिitiत्रयस्त्रिंशत्trayastriṃśatइतिitiओम्omइतिitiहhaउवाचuvācaकतिkatiएवevaदेवाःdevāḥयाज्ञवल्क्यyājñavalkyaइतिitiषट्ṣaṭइतिitiओम्omइतिitiहhaउवाचuvācaकतिkatiएवevaदेवाःdevāḥयाज्ञवल्क्यyājñavalkyaइतिitiत्रयःtrayaḥइतिitiओम्omइतिitiहhaउवाचuvācaकतिkatiएवevaदेवाःdevāḥयाज्ञवल्क्यyājñavalkyaइतिitiद्वौdvauइतिitiओम्omइतिitiहhaउवाचuvācaकतिkatiएवevaदेवाःdevāḥयाज्ञवल्क्यyājñavalkyaइतिitiअध्यर्धःadhyardhaḥइतिitiओम्omइतिitiहhaउवाचuvācaकतिkatiएवevaदेवाःdevāḥयाज्ञवल्क्यyājñavalkyaइतिitiएकःekaḥइतिitiओम्omइतिitiहhaउवाचuvācaकतमेkatameतेteत्रयःtrayaḥचcaत्रीtrīचcaशताśatāत्रयःtrayaḥचcaत्रीtrīचcaसहस्राsahasrāइतिiti

अन्वय

अथ ह विदग्धः शाकल्यः एनम् पप्रच्छ—याज्ञवल्क्य, देवाः कति [सन्ति] इति । सः ह एतया एव निविदा प्रतिपेदे—वैश्वदेवस्य निविदि यावन्तः उच्यन्ते [तावन्तः सन्ति] । त्रयः च त्री च शता, त्रयः च त्री च सहस्रा इति । [शाकल्यः] ह उवाच—ओम् इति । याज्ञवल्क्य, देवाः कति एव [सन्ति] इति । [याज्ञवल्क्यः आह—] त्रयस्त्रिंशत् इति । [शाकल्यः] ह उवाच—ओम् इति । याज्ञवल्क्य, देवाः कति एव [सन्ति] इति । [याज्ञवल्क्यः आह—] षट् इति । [शाकल्यः] ह उवाच—ओम् इति । याज्ञवल्क्य, देवाः कति एव [सन्ति] इति । [याज्ञवल्क्यः आह—] त्रयः इति । [शाकल्यः] ह उवाच—ओम् इति । याज्ञवल्क्य, देवाः कति एव [सन्ति] इति । [याज्ञवल्क्यः आह—] द्वौ इति । [शाकल्यः] ह उवाच—ओम् इति । याज्ञवल्क्य, देवाः कति एव [सन्ति] इति । [याज्ञवल्क्यः आह—] अध्यर्धः इति । [शाकल्यः] ह उवाच—ओम् इति । याज्ञवल्क्य, देवाः कति एव [सन्ति] इति । [याज्ञवल्क्यः आह—] एकः इति । [शाकल्यः] ह उवाच—ओम् इति । ते त्रयः च त्री च शता, त्रयः च त्री च सहस्रा कतमे [सन्ति] इति ।

Passage 21.2

स होवाच महिमान एवैषामेते । त्रयस्त्रिंशत्त्वेव देवा इति । कतमे ते त्रयस्त्रिंशदिति । अष्टौ वसव एकादश रुद्रा द्वादशादित्याः त एकत्रिंशदिन्द्रश्चैव प्रजापतिश्च त्रयस्त्रिंशाविति ॥ २ ॥

पदच्छेद

सःsaḥहhaउवाचuvācaमहिमानःmahimānaḥएवevaएषाम्eṣāmएतेeteत्रयस्त्रिंशत्trayastriṃśatतुtuएवevaदेवाःdevāḥइतिitiकतमेkatameतेteत्रयस्त्रिंशत्trayastriṃśatइतिitiअष्टौaṣṭauवसवःvasavaḥएकादशekādaśaरुद्राःrudrāḥद्वादशdvādaśaआदित्याःādityāḥतेteएकत्रिंशत्ekatriṃśatइन्द्रःindraḥचcaएवevaप्रजापतिःprajāpatiḥचcaत्रयस्त्रिंशौtrayastriṃśauइतिiti

अन्वय

सः ह उवाच—एते एषाम् महिमानः एव [सन्ति]; तु देवाः त्रयस्त्रिंशत् एव [सन्ति] इति । [शाकल्यः पप्रच्छ—] ते त्रयस्त्रिंशत् कतमे [सन्ति] इति । [याज्ञवल्क्यः आह—] अष्टौ वसवः, एकादश रुद्राः, द्वादश आदित्याः; ते एकत्रिंशत् [सन्ति] । इन्द्रः च एव प्रजापतिः च त्रयस्त्रिंशौ [स्तः] इति ।

Passage 21.3

कतमे वसव इति । अग्निश्च पृथिवी च वायुश्चान्तरिक्षं चादित्यश्च द्यौः च चन्द्रमाश्च नक्षत्राणि चैते वसवः । एतेषु हीदं सर्वं वसु हितं इति तस्माद्वसव इति ॥ ३ ॥

पदच्छेद

कतमेkatameवसवःvasavaḥइतिitiअग्निःagniḥचcaपृथिवीpṛthivīचcaवायुःvāyuḥचcaअन्तरिक्षम्antarikṣamचcaआदित्यःādityaḥचcaद्यौःdyauḥचcaचन्द्रमाःcandramāḥचcaनक्षत्राणिnakṣatrāṇiचcaएतेeteवसवःvasavaḥएतेषुeteṣuहिhiइदम्idamसर्वम्sarvamवसुvasuहितम्hitamइतिitiतस्मात्tasmātवसवःvasavaḥइतिiti

अन्वय

[शाकल्यः पप्रच्छ—] वसवः कतमे [सन्ति] इति । [याज्ञवल्क्यः आह—] अग्निः च पृथिवी च वायुः च अन्तरिक्षम् च आदित्यः च द्यौः च चन्द्रमाः च नक्षत्राणि च, एते वसवः [सन्ति] । हि एतेषु इदम् सर्वम् वसु हितम् [अस्ति] इति, तस्मात् वसवः इति [उच्यन्ते] ।

Passage 21.4

कतमे रुद्रा इति । दशेमे पुरुषे प्राणा आत्मैकादशः । ते यदास्माच्छरीरान्मर्त्यादुत्क्रामन्त्यथ रोदयन्ति । तद्यद्रोदयन्ति तस्माद्रुद्रा इति ॥ ४ ॥

पदच्छेद

कतमेkatameरुद्राःrudrāḥइतिitiदशdaśaइमेimeपुरुषेpuruṣeप्राणाःprāṇāḥआत्माātmāएकादशःekādaśaḥतेteयदाyadāअस्मात्asmātशरीरात्śarīrātमर्त्यात्martyātउत्क्रामन्तिutkrāmantiअथathaरोदयन्तिrodayantiतत्tatयत्yatरोदयन्तिrodayantiतस्मात्tasmātरुद्राःrudrāḥइतिiti

अन्वय

[शाकल्यः पप्रच्छ—] रुद्राः कतमे [सन्ति] इति । [याज्ञवल्क्यः आह—] इमे दश पुरुषे प्राणाः [सन्ति]; आत्मा एकादशः [अस्ति] । यदा ते अस्मात् मर्त्यात् शरीरात् उत्क्रामन्ति, अथ रोदयन्ति । तत् यत् रोदयन्ति, तस्मात् रुद्राः इति [उच्यन्ते] ।

Passage 21.5

कतम आदित्या इति । द्वादश वै मासाः संवत्सरस्यैत आदित्याः । एते हीदं सर्वमाददाना यन्ति । ते यदिदं सर्वमाददाना यन्ति तस्मादादित्या इति ॥ ५ ॥

पदच्छेद

कतमेkatameआदित्याःādityāḥइतिitiद्वादशdvādaśaवैvaiमासाःmāsāḥसंवत्सरस्यsaṃvatsarasyaएतेeteआदित्याःādityāḥएतेeteहिhiइदम्idamसर्वम्sarvamआददानाःādadānāḥयन्तिyantiतेteयत्yatइदम्idamसर्वम्sarvamआददानाःādadānāḥयन्तिyantiतस्मात्tasmātआदित्याःādityāḥइतिiti

अन्वय

[शाकल्यः पप्रच्छ—] आदित्याः कतमे [सन्ति] इति । [याज्ञवल्क्यः आह—] वै संवत्सरस्य द्वादश मासाः, एते आदित्याः [सन्ति] । हि एते इदम् सर्वम् आददानाः यन्ति । ते यत् इदम् सर्वम् आददानाः यन्ति, तस्मात् आदित्याः इति [उच्यन्ते] ।

Passage 21.6

कतम इन्द्रः कतमः प्रजापतिरिति । स्तनयित्नुरेवेन्द्रो यज्ञः प्रजापतिरिति । कतमः स्तनयित्नुरिति । अशनिरिति । कतमो यज्ञ इति । पशव इति ॥ ६ ॥

पदच्छेद

कतमःkatamaḥइन्द्रःindraḥकतमःkatamaḥप्रजापतिःprajāpatiḥइतिitiस्तनयित्नुःstanayitnuḥएवevaइन्द्रःindraḥयज्ञःyajñaḥप्रजापतिःprajāpatiḥइतिitiकतमःkatamaḥस्तनयित्नुःstanayitnuḥइतिitiअशनिःaśaniḥइतिitiकतमःkatamaḥयज्ञःyajñaḥइतिitiपशवःpaśavaḥइतिiti

अन्वय

[शाकल्यः पप्रच्छ—] इन्द्रः कतमः [अस्ति], प्रजापतिः कतमः [अस्ति] इति । [याज्ञवल्क्यः आह—] स्तनयित्नुः एव इन्द्रः [अस्ति]; यज्ञः प्रजापतिः [अस्ति] इति । [शाकल्यः पप्रच्छ—] स्तनयित्नुः कतमः [अस्ति] इति । [याज्ञवल्क्यः आह—] अशनिः इति । [शाकल्यः पप्रच्छ—] यज्ञः कतमः [अस्ति] इति । [याज्ञवल्क्यः आह—] पशवः इति ।

Passage 21.7

कतमे षडिति । अग्निश्च पृथिवी च वायुश्चान्तरिक्षश्चादित्यश्च द्यौश्चैते षट् । एते हीदं सर्वं षडिति ॥ ७ ॥

पदच्छेद

कतमेkatameषट्ṣaṭइतिitiअग्निःagniḥचcaपृथिवीpṛthivīचcaवायुःvāyuḥचcaअन्तरिक्षःantarikṣaḥचcaआदित्यःādityaḥचcaद्यौःdyauḥचcaएतेeteषट्ṣaṭएतेeteहिhiइदम्idamसर्वम्sarvamषट्ṣaṭइतिiti

Passage 21.8

कतमे ते त्रयो देवा इति । इम एव त्रयो लोकाः । एषु हीमे सर्वे देवा इति । कतमौ तौ द्वौ देवा इति । अन्नं चैव प्राणश्चेति । कतमोऽध्यर्ध इति । योऽयं पवत इति ॥ ८ ॥

पदच्छेद

कतमेkatameतेteत्रयःtrayaḥदेवाःdevāḥइतिitiइमेimeएवevaत्रयःtrayaḥलोकाःlokāḥएषुeṣuहिhiइमेimeसर्वेsarveदेवाःdevāḥइतिitiकतमौkatamauतौtauद्वौdvauदेवौdevauइतिitiअन्नम्annamचcaएवevaप्राणःprāṇaḥचcaइतिitiकतमःkatamaḥअध्यर्धःadhyardhaḥइतिitiयःyaḥअयम्ayamपवतेpavateइतिiti

अन्वय

[शाकल्यः पप्रच्छ—] ते त्रयः देवाः कतमे [सन्ति] इति । [याज्ञवल्क्यः आह—] इमे एव त्रयः लोकाः [सन्ति] । हि एषु इमे सर्वे देवाः [सन्ति] इति । [शाकल्यः पप्रच्छ—] तौ द्वौ देवौ कतमौ [स्तः] इति । [याज्ञवल्क्यः आह—] अन्नम् च एव प्राणः च [स्तः] इति । [शाकल्यः पप्रच्छ—] अध्यर्धः कतमः [अस्ति] इति । [याज्ञवल्क्यः आह—] यः अयम् पवते, [सः] इति ।

Passage 21.9

तदाहुर्यदयमेक इवैव पवते । अथ कथमध्यर्ध इति । यदस्मिन्निदं सर्वमध्यार्ध्नोत्तेनाध्यर्ध इति । कतम एको देव इति । प्राण इति । स ब्रह्म त्यदित्याचक्षते ॥ ९ ॥

पदच्छेद

तत्tatआहुःāhuḥयत्yatअयम्ayamएकःekaḥइवivaएवevaपवतेpavateअथathaकथम्kathamअध्यर्धःadhyardhaḥइतिitiयत्yatअस्मिन्asminइदम्idamसर्वम्sarvamअध्यार्ध्नोत्adhyārdhnotतेनtenaअध्यर्धःadhyardhaḥइतिitiकतमःkatamaḥएकःekaḥदेवःdevaḥइतिitiप्राणःprāṇaḥइतिitiसःsaḥब्रह्मbrahmaत्यत्tyatइतिitiआचक्षतेācakṣate

अन्वय

तत् आहुः—यत् अयम् एकः इव एव पवते, अथ कथम् अध्यर्धः [उच्यते] इति । [याज्ञवल्क्यः आह—] यत् अस्मिन् इदम् सर्वम् अध्यार्ध्नोत्, तेन अध्यर्धः [उच्यते] इति । [शाकल्यः पप्रच्छ—] एकः देवः कतमः [अस्ति] इति । [याज्ञवल्क्यः आह—] प्राणः इति । सः ब्रह्म [अस्ति]; [तम्] त्यत् इति आचक्षते ।

Passage 21.10

पृथिव्येव यस्यायतनमग्निर्लोको मनो ज्योतिर्यो वै तं पुरुषं विद्यात्सर्वस्यात्मनः परायणं स वै वेदिता स्यात् । याज्ञवल्क्य वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यमात्थ । य एवायं शारीरः पुरुषः स एषः । वदैव शाकल्य तस्य का देवतेति । अमृतमिति होवाच ॥ १० ॥

पदच्छेद

पृथिवीpṛthivīएवevaयस्यyasyaआयतनम्āyatanamअग्निःagniḥलोकःlokaḥमनःmanaḥज्योतिःjyotiḥयःyaḥवैvaiतम्tamपुरुषम्puruṣamविद्यात्vidyātसर्वस्यsarvasyaआत्मनःātmanaḥपरायणम्parāyaṇamसःsaḥवैvaiवेदिताveditāस्यात्syātयाज्ञवल्क्यyājñavalkyaवेदvedaवैvaiअहम्ahamतम्tamपुरुषम्puruṣamसर्वस्यsarvasyaआत्मनःātmanaḥपरायणम्parāyaṇamयम्yamआत्थātthaयःyaḥएवevaअयम्ayamशारीरःśārīraḥपुरुषःpuruṣaḥसःsaḥएषःeṣaḥवदvadaएवevaशाकल्यśākalyaतस्यtasyaकाkāदेवताdevatāइतिitiअमृतम्amṛtamइतिitiहhaउवाचuvāca

अन्वय

[शाकल्यः आह—] याज्ञवल्क्य, यस्य पृथिवी एव आयतनम्, [यस्य] अग्निः लोकः, [यस्य] मनः ज्योतिः, सर्वस्य आत्मनः परायणम् तम् पुरुषम् यः वै विद्यात्, सः वै वेदिता स्यात् । [याज्ञवल्क्यः आह—] यम् आत्थ, सर्वस्य आत्मनः परायणम् तम् पुरुषम् अहम् वा वेद । यः एव अयम् शारीरः पुरुषः, सः एषः [अस्ति] । शाकल्य, वद एव । [शाकल्यः पप्रच्छ—] तस्य का देवता इति । [याज्ञवल्क्यः] ह उवाच—अमृतम् इति ।

Passage 21.11

काम एव यस्यायतनं हृदयं लोको मनो ज्योतिर्यो वै तं पुरुषं विद्यात्सर्वस्यात्मनः परायणं स वै वेदिता स्यात् । याज्ञवल्क्य वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यमात्थ । य एवायं काममयः पुरुषः स एषः । वदैव शाकल्य तस्य का देवतेति । स्त्रिय इति होवाच ॥ ११ ॥

पदच्छेद

कामःkāmaḥएवevaयस्यyasyaआयतनम्āyatanamहृदयम्hṛdayamलोकःlokaḥमनःmanaḥज्योतिःjyotiḥयःyaḥवैvaiतम्tamपुरुषम्puruṣamविद्यात्vidyātसर्वस्यsarvasyaआत्मनःātmanaḥपरायणम्parāyaṇamसःsaḥवैvaiवेदिताveditāस्यात्syātयाज्ञवल्क्यyājñavalkyaवेदvedaवैvaiअहम्ahamतम्tamपुरुषम्puruṣamसर्वस्यsarvasyaआत्मनःātmanaḥपरायणम्parāyaṇamयम्yamआत्थātthaयःyaḥएवevaअयम्ayamकाममयःkāmamayaḥपुरुषःpuruṣaḥसःsaḥएषःeṣaḥवदvadaएवevaशाकल्यśākalyaतस्यtasyaकाkāदेवताdevatāइतिitiस्त्रियःstriyaḥइतिitiहhaउवाचuvāca

अन्वय

[शाकल्यः आह—] याज्ञवल्क्य, यस्य कामः एव आयतनम्, [यस्य] हृदयम् लोकः, [यस्य] मनः ज्योतिः, सर्वस्य आत्मनः परायणम् तम् पुरुषम् यः वै विद्यात्, सः वै वेदिता स्यात् । [याज्ञवल्क्यः आह—] यम् आत्थ, सर्वस्य आत्मनः परायणम् तम् पुरुषम् अहम् वा वेद । यः एव अयम् काममयः पुरुषः, सः एषः [अस्ति] । शाकल्य, वद एव । [शाकल्यः पप्रच्छ—] तस्य का देवता इति । [याज्ञवल्क्यः] ह उवाच—स्त्रियः इति ।

Passage 21.12

रूपाण्येव यस्यायतनं चक्षुर्लोको मनो ज्योतिर्यो वै तं पुरुषं विद्यात्सर्वस्यात्मनः परायणं स वै वेदिता स्यात् । याज्ञवल्क्य वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यमात्थ । य एवासावादित्ये पुरुषः स एषः । वदैव शाकल्य तस्य का देवतेति । सत्यमिति होवाच ॥ १२ ॥

पदच्छेद

रूपाणिrūpāṇiएवevaयस्यyasyaआयतनम्āyatanamचक्षुःcakṣuḥलोकःlokaḥमनःmanaḥज्योतिःjyotiḥयःyaḥवैvaiतम्tamपुरुषम्puruṣamविद्यात्vidyātसर्वस्यsarvasyaआत्मनःātmanaḥपरायणम्parāyaṇamसःsaḥवैvaiवेदिताveditāस्यात्syātयाज्ञवल्क्यyājñavalkyaवेदvedaवैvaiअहम्ahamतम्tamपुरुषम्puruṣamसर्वस्यsarvasyaआत्मनःātmanaḥपरायणम्parāyaṇamयम्yamआत्थātthaयःyaḥएवevaअसौasauआदित्येādityeपुरुषःpuruṣaḥसःsaḥएषःeṣaḥवदvadaएवevaशाकल्यśākalyaतस्यtasyaकाkāदेवताdevatāइतिitiसत्यम्satyamइतिitiहhaउवाचuvāca

अन्वय

[शाकल्यः आह—] याज्ञवल्क्य, यस्य रूपाणि एव आयतनम्, [यस्य] चक्षुः लोकः, [यस्य] मनः ज्योतिः, सर्वस्य आत्मनः परायणम् तम् पुरुषम् यः वै विद्यात्, सः वै वेदिता स्यात् । [याज्ञवल्क्यः आह—] यम् आत्थ, सर्वस्य आत्मनः परायणम् तम् पुरुषम् अहम् वा वेद । यः एव असौ आदित्ये पुरुषः, सः एषः [अस्ति] । शाकल्य, वद एव । [शाकल्यः पप्रच्छ—] तस्य का देवता इति । [याज्ञवल्क्यः] ह उवाच—सत्यम् इति ।

Passage 21.13

आकश एव यस्यायतनं श्रोत्रं लोको मनो ज्योतिर्यो वै तं पुरुषं विद्यात्सर्वस्यात्मनः परायणं स वै वेदिता स्यात् । याज्ञवल्क्य वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यमात्थ । य एवायं श्रौतः प्रातिश्रुत्कः पुरुषः स एष । वदैव शाकल्य तस्य का देवतेति । दिश इति होवच ॥ १३ ॥

पदच्छेद

आकाशःākāśaḥएवevaयस्यyasyaआयतनम्āyatanamश्रोत्रम्śrotramलोकःlokaḥमनःmanaḥज्योतिःjyotiḥयःyaḥवैvaiतम्tamपुरुषम्puruṣamविद्यात्vidyātसर्वस्यsarvasyaआत्मनःātmanaḥपरायणम्parāyaṇamसःsaḥवैvaiवेदिताveditāस्यात्syātयाज्ञवल्क्यyājñavalkyaवेदvedaवैvaiअहम्ahamतम्tamपुरुषम्puruṣamसर्वस्यsarvasyaआत्मनःātmanaḥपरायणम्parāyaṇamयम्yamआत्थātthaयःyaḥएवevaअयम्ayamश्रौतःśrautaḥप्रातिश्रुत्कःprātiśrutkaḥपुरुषःpuruṣaḥसःsaḥएषःeṣaḥवदvadaएवevaशाकल्यśākalyaतस्यtasyaकाkāदेवताdevatāइतिitiदिशःdiśaḥइतिitiहhaउवाचuvāca

Passage 21.14

तम एव यस्यायतनं हृदयं लोको मनो ज्योतिर्यो वै तं पुरुषं विद्यात्सर्वस्यात्मनः परायणं स वै वेदिता स्यात् । याज्ञवल्क्य वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यमात्थ । य एवायं छायामयः पुरुषः स एषः । वदैव शाकल्य तस्य का देवतेति । मृत्युरिति होवाच ॥ १४ ॥

पदच्छेद

तमःtamaḥएवevaयस्यyasyaआयतनम्āyatanamहृदयम्hṛdayamलोकःlokaḥमनःmanaḥज्योतिःjyotiḥयःyaḥवैvaiतम्tamपुरुषम्puruṣamविद्यात्vidyātसर्वस्यsarvasyaआत्मनःātmanaḥपरायणम्parāyaṇamसःsaḥवैvaiवेदिताveditāस्यात्syātयाज्ञवल्क्यyājñavalkyaवेदvedaवैvaiअहम्ahamतम्tamपुरुषम्puruṣamसर्वस्यsarvasyaआत्मनःātmanaḥपरायणम्parāyaṇamयम्yamआत्थātthaयःyaḥएवevaअयम्ayamछायामयःchāyāmayaḥपुरुषःpuruṣaḥसःsaḥएषःeṣaḥवदvadaएवevaशाकल्यśākalyaतस्यtasyaकाkāदेवताdevatāइतिitiमृत्युःmṛtyuḥइतिitiहhaउवाचuvāca

अन्वय

[शाकल्यः आह—] याज्ञवल्क्य, यस्य तमः एव आयतनम्, [यस्य] हृदयम् लोकः, [यस्य] मनः ज्योतिः, सर्वस्य आत्मनः परायणम् तम् पुरुषम् यः वै विद्यात्, सः वै वेदिता स्यात् । [याज्ञवल्क्यः आह—] यम् आत्थ, सर्वस्य आत्मनः परायणम् तम् पुरुषम् अहम् वा वेद । यः एव अयम् छायामयः पुरुषः, सः एषः [अस्ति] । शाकल्य, वद एव । [शाकल्यः पप्रच्छ—] तस्य का देवता इति । [याज्ञवल्क्यः] ह उवाच—मृत्युः इति ।

Passage 21.15

रूपाण्येव यस्यायतनं हृदयं लोको मनो ज्योतिर्यो वै तं पुरुषं विद्यात्सर्वस्यात्मनः परायणं स वै वेदिता स्यात् । याज्ञवल्क्य वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यमात्थ । य एवायमादर्शे पुरुषः स एषः । वदैव शाकल्य तस्य का देवतेति । सत्यमिति होवाच ॥ १५ ॥

पदच्छेद

रूपाणिrūpāṇiएवevaयस्यyasyaआयतनम्āyatanamहृदयम्hṛdayamलोकःlokaḥमनःmanaḥज्योतिःjyotiḥयःyaḥवैvaiतम्tamपुरुषम्puruṣamविद्यात्vidyātसर्वस्यsarvasyaआत्मनःātmanaḥपरायणम्parāyaṇamसःsaḥवैvaiवेदिताveditāस्यात्syātयाज्ञवल्क्यyājñavalkyaवेदvedaवैvaiअहम्ahamतम्tamपुरुषम्puruṣamसर्वस्यsarvasyaआत्मनःātmanaḥपरायणम्parāyaṇamयम्yamआत्थātthaयःyaḥएवevaअयम्ayamआदर्शेādarśeपुरुषःpuruṣaḥसःsaḥएषःeṣaḥवदvadaएवevaशाकल्यśākalyaतस्यtasyaकाkāदेवताdevatāइतिitiसत्यम्satyamइतिitiहhaउवाचuvāca

Passage 21.16

आप एव यस्यायतनं हृदयं लोको मनो ज्योतिर्यो वै तं पुरुषं विद्यात्सर्वस्यात्मनः परायणं स वै वेदिता स्यात् । याज्ञवल्क्य वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यमात्थ । य एवायं अप्सु पुरुषः स एषः । वदैव शाकल्य तस्य का देवतेति । वरुण इति होवाच ॥ १६ ॥

पदच्छेद

आपःāpaḥएवevaयस्यyasyaआयतनम्āyatanamहृदयम्hṛdayamलोकःlokaḥमनःmanaḥज्योतिःjyotiḥयःyaḥवैvaiतम्tamपुरुषम्puruṣamविद्यात्vidyātसर्वस्यsarvasyaआत्मनःātmanaḥपरायणम्parāyaṇamसःsaḥवैvaiवेदिताveditāस्यात्syātयाज्ञवल्क्यyājñavalkyaवेदvedaवैvaiअहम्ahamतम्tamपुरुषम्puruṣamसर्वस्यsarvasyaआत्मनःātmanaḥपरायणम्parāyaṇamयम्yamआत्थātthaयःyaḥएवevaअयम्ayamअप्सुapsuपुरुषःpuruṣaḥसःsaḥएषःeṣaḥवदvadaएवevaशाकल्यśākalyaतस्यtasyaकाkāदेवताdevatāइतिitiवरुणःvaruṇaḥइतिitiहhaउवाचuvāca

अन्वय

[शाकल्यः आह—] याज्ञवल्क्य, यस्य आपः एव आयतनम्, [यस्य] हृदयम् लोकः, [यस्य] मनः ज्योतिः, सर्वस्य आत्मनः परायणम् तम् पुरुषम् यः वै विद्यात्, सः वै वेदिता स्यात् । [याज्ञवल्क्यः आह—] यम् आत्थ, सर्वस्य आत्मनः परायणम् तम् पुरुषम् अहम् वा वेद । यः एव अयम् अप्सु पुरुषः, सः एषः [अस्ति] । शाकल्य, वद एव । [शाकल्यः पप्रच्छ—] तस्य का देवता इति । [याज्ञवल्क्यः] ह उवाच—वरुणः इति ।

Passage 21.17

रेत एव यस्यायतनं हृदयं लोको मनो ज्योतिर्यो वै तं पुरुषं विद्यात्सर्वस्यात्मनः परायणं स वै वेदिता स्यात् । याज्ञवल्क्य वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यमात्थ । य एवायं पुत्रमयः पुरुषः स एषः । वदैव शाकल्य तस्य का देवतेति । प्रजापतिरिति होवाच ॥ १७ ॥

पदच्छेद

रेतःretaḥएवevaयस्यyasyaआयतनम्āyatanamहृदयम्hṛdayamलोकःlokaḥमनःmanaḥज्योतिःjyotiḥयःyaḥवैvaiतम्tamपुरुषम्puruṣamविद्यात्vidyātसर्वस्यsarvasyaआत्मनःātmanaḥपरायणम्parāyaṇamसःsaḥवैvaiवेदिताveditāस्यात्syātयाज्ञवल्क्यyājñavalkyaवेदvedaवैvaiअहम्ahamतम्tamपुरुषम्puruṣamसर्वस्यsarvasyaआत्मनःātmanaḥपरायणम्parāyaṇamयम्yamआत्थātthaयःyaḥएवevaअयम्ayamपुत्रमयःputramayaḥपुरुषःpuruṣaḥसःsaḥएषःeṣaḥवदvadaएवevaशाकल्यśākalyaतस्यtasyaकाkāदेवताdevatāइतिitiप्रजापतिःprajāpatiḥइतिitiहhaउवाचuvāca

अन्वय

[शाकल्यः आह—] याज्ञवल्क्य, यस्य रेतः एव आयतनम्, [यस्य] हृदयम् लोकः, [यस्य] मनः ज्योतिः, सर्वस्य आत्मनः परायणम् तम् पुरुषम् यः वै विद्यात्, सः वै वेदिता स्यात् । [याज्ञवल्क्यः आह—] यम् आत्थ, सर्वस्य आत्मनः परायणम् तम् पुरुषम् अहम् वा वेद । यः एव अयम् पुत्रमयः पुरुषः, सः एषः [अस्ति] । शाकल्य, वद एव । [शाकल्यः पप्रच्छ—] तस्य का देवता इति । [याज्ञवल्क्यः] ह उवाच—प्रजापतिः इति ।

Passage 21.18

शाकल्येति होवाच याज्ञवल्क्यः । त्वां स्विदिमे ब्राह्मणा अङ्गारावक्षयणमक्रता३ इति ॥ १८ ॥

पदच्छेद

शाकल्यśākalyaइतिitiहhaउवाचuvācaयाज्ञवल्क्यःyājñavalkyaḥत्वाम्tvāmस्वित्svitइमेimeब्राह्मणाःbrāhmaṇāḥअङ्गारावक्षयणम्aṅgārāvakṣayaṇamअक्रतakrataइतिiti

Passage 21.19

याज्ञवल्क्येति होवाच शाकल्यः । यदिदं कुरुपञ्चालानां ब्राह्मनानत्यवादीः किं ब्रह्म विद्वानिति । दिशो वेद सदेवाः सप्रतिष्ठा इति । यद्दिशो वेत्थ सदेवाः सप्रतिष्ठाः ॥ १९ ॥

पदच्छेद

याज्ञवल्क्यyājñavalkyaइतिitiहhaउवाचuvācaशाकल्यःśākalyaḥयत्yatइदम्idamकुरुपञ्चालानाम्kurupañcālānāmब्राह्मणान्brāhmaṇānअत्यवादीःatyavādīḥकिम्kimब्रह्मbrahmaविद्वान्vidvānइतिitiदिशःdiśaḥवेदvedaसदेवाःsadevāḥसप्रतिष्ठाःsapratiṣṭhāḥइतिitiयत्yatदिशःdiśaḥवेत्थvetthaसदेवाःsadevāḥसप्रतिष्ठाःsapratiṣṭhāḥ

Passage 21.20

किंदेवतोऽस्यां प्राच्यां दिश्यसीति । आदित्यदेवत इति । स आदित्यः कस्मिन् प्रतिष्ठित इति । चक्षुषीति । कस्मिन्नु चक्षुः प्रतिष्ठितमिति । रूपेष्विति । चक्षुषा हि रूपाणि पश्यति । कस्मिन्नु रूपाणि प्रतिष्ठितानीति । हृदय इति होवाच । हृदयेन हि रूपाणि जानाति । हृदये ह्येव रूपाणि प्रतिष्ठितानि भवन्तीति । एवमेवैतद्याज्ञवल्क्य ॥ २० ॥

पदच्छेद

किंदेवतःkiṃdevataḥअस्याम्asyāmप्राच्याम्prācyāmदिशिdiśiअसिasiइतिitiआदित्यदेवतःādityadevataḥइतिitiसःsaḥआदित्यःādityaḥकस्मिन्kasminप्रतिष्ठितःpratiṣṭhitaḥइतिitiचक्षुषिcakṣuṣiइतिitiकस्मिन्kasminनुnuचक्षुःcakṣuḥप्रतिष्ठितम्pratiṣṭhitamइतिitiरूपेषुrūpeṣuइतिitiचक्षुषाcakṣuṣāहिhiरूपाणिrūpāṇiपश्यतिpaśyatiकस्मिन्kasminनुnuरूपाणिrūpāṇiप्रतिष्ठितानिpratiṣṭhitāniइतिitiहृदयेhṛdayeइतिitiहhaउवाचuvācaहृदयेनhṛdayenaहिhiरूपाणिrūpāṇiजानातिjānātiहृदयेhṛdayeहिhiएवevaरूपाणिrūpāṇiप्रतिष्ठितानिpratiṣṭhitāniभवन्तिbhavantiइतिitiएवम्evamएवevaएतत्etatयाज्ञवल्क्यyājñavalkya

अन्वय

[शाकल्यः पप्रच्छ—] अस्याम् प्राच्याम् दिशि [त्वम्] किन्देवतः असि इति । [याज्ञवल्क्यः आह—] आदित्यदेवतः [अस्मि] इति । [शाकल्यः पप्रच्छ—] सः आदित्यः कस्मिन् प्रतिष्ठितः [अस्ति] इति । [याज्ञवल्क्यः आह—] चक्षुषि इति । [शाकल्यः पप्रच्छ—] चक्षुः कस्मिन् नु प्रतिष्ठितम् [अस्ति] इति । [याज्ञवल्क्यः आह—] रूपेषु इति । हि चक्षुषा [पुरुषः] रूपाणि पश्यति । [शाकल्यः पप्रच्छ—] रूपाणि कस्मिन् नु प्रतिष्ठितानि [सन्ति] इति । हृदये इति [याज्ञवल्क्यः] ह उवाच । हि हृदयेन [पुरुषः] रूपाणि जानाति । हि एव हृदये रूपाणि प्रतिष्ठितानि भवन्ति इति । [शाकल्यः आह—] याज्ञवल्क्य, एतत् एवम् एव [अस्ति] ।

Passage 21.21

किंदेवतोऽस्यां दक्षिणायां दिश्यसीति । यमदेवत इति । स यमः कस्मिन् प्रतिष्ठित इति । यज्ञ इति । कस्मिन्नु यज्ञः प्रतिष्ठित इति । दक्षिणायामिति । कस्मिन्नु दक्षिणा प्रतिष्ठितेति । श्रद्धायामिति । यदा ह्येव श्रद्धत्तेऽथ दक्षिणां ददाति । श्रद्धायां ह्येव दक्षिणा प्रतिष्ठितेति । कस्मिन्नु श्रद्धा प्रतिष्ठितेति । हृदय इति होवाच । हृदयेन हि श्रद्धां जानाति । हृदये ह्येव श्रद्धा प्रतिष्ठिता भवतीति । एवमेवैतद्याज्ञवल्क्य ॥ २१ ॥

पदच्छेद

किंदेवतःkiṃdevataḥअस्याम्asyāmदक्षिणायाम्dakṣiṇāyāmदिशिdiśiअसिasiइतिitiयमदेवतःyamadevataḥइतिitiसःsaḥयमःyamaḥकस्मिन्kasminप्रतिष्ठितःpratiṣṭhitaḥइतिitiयज्ञेyajñeइतिitiकस्मिन्kasminनुnuयज्ञःyajñaḥप्रतिष्ठितःpratiṣṭhitaḥइतिitiदक्षिणायाम्dakṣiṇāyāmइतिitiकस्मिन्kasminनुnuदक्षिणाdakṣiṇāप्रतिष्ठिताpratiṣṭhitāइतिitiश्रद्धायाम्śraddhāyāmइतिitiयदाyadāहिhiएवevaश्रद्धत्तेśraddhatteअथathaदक्षिणाम्dakṣiṇāmददातिdadātiश्रद्धायाम्śraddhāyāmहिhiएवevaदक्षिणाdakṣiṇāप्रतिष्ठिताpratiṣṭhitāइतिitiकस्मिन्kasminनुnuश्रद्धाśraddhāप्रतिष्ठिताpratiṣṭhitāइतिitiहृदयेhṛdayeइतिitiहhaउवाचuvācaहृदयेनhṛdayenaहिhiश्रद्धाम्śraddhāmजानातिjānātiहृदयेhṛdayeहिhiएवevaश्रद्धाśraddhāप्रतिष्ठिताpratiṣṭhitāभवतिbhavatiइतिitiएवम्evamएवevaएतत्etatयाज्ञवल्क्यyājñavalkya

अन्वय

[शाकल्यः पप्रच्छ—] अस्याम् दक्षिणायाम् दिशि [त्वम्] किन्देवतः असि इति । [याज्ञवल्क्यः आह—] यमदेवतः [अस्मि] इति । [शाकल्यः पप्रच्छ—] सः यमः कस्मिन् प्रतिष्ठितः [अस्ति] इति । [याज्ञवल्क्यः आह—] यज्ञे इति । [शाकल्यः पप्रच्छ—] यज्ञः कस्मिन् नु प्रतिष्ठितः [अस्ति] इति । [याज्ञवल्क्यः आह—] दक्षिणायाम् इति । [शाकल्यः पप्रच्छ—] दक्षिणा कस्मिन् नु प्रतिष्ठिता [अस्ति] इति । [याज्ञवल्क्यः आह—] श्रद्धायाम् इति । हि यदा एव [यजमानः] श्रद्धत्ते, अथ दक्षिणाम् ददाति । हि एव श्रद्धायाम् दक्षिणा प्रतिष्ठिता [अस्ति] इति । [शाकल्यः पप्रच्छ—] श्रद्धा कस्मिन् नु प्रतिष्ठिता [अस्ति] इति । हृदये इति [याज्ञवल्क्यः] ह उवाच । हि हृदयेन [पुरुषः] श्रद्धाम् जानाति । हि एव हृदये श्रद्धा प्रतिष्ठिता भवति इति । [शाकल्यः आह—] याज्ञवल्क्य, एतत् एवम् एव [अस्ति] ।

Passage 21.22

किंदेवतोऽस्यां प्रतीच्यां दिश्यसीति । वरुणदेवत इति । स वरुणः कस्मिन् प्रतिष्ठित इति । अप्स्विति । कस्मिन्न्वापः प्रतिष्ठिता इति । रेतसीति । कस्मिन्नु रेतः प्रतिष्ठितमिति । हृदय इति । तस्मादपि प्रतिरूपं जातमाहुर्हृदयादिव सृप्तो हृदयादिव निर्मित इति । हृदये ह्येव रेतः प्रतिष्ठितं भवतीति । एवमेवैतद्याज्ञवल्क्य ॥ २२ ॥

पदच्छेद

किंदेवतःkiṃdevataḥअस्याम्asyāmप्रतीच्याम्pratīcyāmदिशिdiśiअसिasiइतिitiवरुणदेवतःvaruṇadevataḥइतिitiसःsaḥवरुणःvaruṇaḥकस्मिन्kasminप्रतिष्ठितःpratiṣṭhitaḥइतिitiअप्सुapsuइतिitiकस्मिन्kasminनुnuआपःāpaḥप्रतिष्ठिताःpratiṣṭhitāḥइतिitiरेतसिretasiइतिitiकस्मिन्kasminनुnuरेतःretaḥप्रतिष्ठितम्pratiṣṭhitamइतिitiहृदयेhṛdayeइतिitiतस्मात्tasmātअपिapiप्रतिरूपम्pratirūpamजातम्jātamआहुःāhuḥहृदयात्hṛdayātइवivaसृप्तःsṛptaḥहृदयात्hṛdayātइवivaनिर्मितःnirmitaḥइतिitiहृदयेhṛdayeहिhiएवevaरेतःretaḥप्रतिष्ठितम्pratiṣṭhitamभवतिbhavatiइतिitiएवम्evamएवevaएतत्etatयाज्ञवल्क्यyājñavalkya

अन्वय

[शाकल्यः पप्रच्छ—] अस्याम् प्रतीच्याम् दिशि [त्वम्] किन्देवतः असि इति । [याज्ञवल्क्यः आह—] वरुणदेवतः [अस्मि] इति । [शाकल्यः पप्रच्छ—] सः वरुणः कस्मिन् प्रतिष्ठितः [अस्ति] इति । [याज्ञवल्क्यः आह—] अप्सु इति । [शाकल्यः पप्रच्छ—] आपः कस्मिन् नु प्रतिष्ठिताः [सन्ति] इति । [याज्ञवल्क्यः आह—] रेतसि इति । [शाकल्यः पप्रच्छ—] रेतः कस्मिन् नु प्रतिष्ठितम् [अस्ति] इति । [याज्ञवल्क्यः आह—] हृदये इति । तस्मात् अपि प्रतिरूपम् जातम् आहुः—[अयम्] हृदयात् इव सृप्तः, हृदयात् इव निर्मितः इति । हि एव हृदये रेतः प्रतिष्ठितम् भवति इति । [शाकल्यः आह—] याज्ञवल्क्य, एतत् एवम् एव [अस्ति] ।

Passage 21.23

किंदेवतोऽस्यामुदीच्यां दिश्यसीति । सोमदेवत इति । स सोमः कस्मिन् प्रतिष्ठित इति । दीक्षायामिति । कस्मिन्नु दिक्षा प्रतिष्ठितेति । सत्य इति । तस्मादपि दीक्षितमाहुः सत्यं वदेति । सत्ये ह्येव दीक्षा प्रतिष्ठितेति । कस्मिन्नु सत्यं प्रतिष्ठितमिति । हृदय इति होवाच । हृदयेन हि सत्यं जानाति । हृदये ह्येव सत्यं प्रतिष्ठितं भवतीति । एवमेवैतद्याज्ञवल्क्य ॥ २३ ॥

पदच्छेद

किंदेवतःkiṃdevataḥअस्याम्asyāmउदीच्याम्udīcyāmदिशिdiśiअसिasiइतिitiसोमदेवतःsomadevataḥइतिitiसःsaḥसोमःsomaḥकस्मिन्kasminप्रतिष्ठितःpratiṣṭhitaḥइतिitiदीक्षायाम्dīkṣāyāmइतिitiकस्मिन्kasminनुnuदीक्षाdīkṣāप्रतिष्ठिताpratiṣṭhitāइतिitiसत्येsatyeइतिitiतस्मात्tasmātअपिapiदीक्षितम्dīkṣitamआहुःāhuḥसत्यम्satyamवदvadaइतिitiसत्येsatyeहिhiएवevaदीक्षाdīkṣāप्रतिष्ठिताpratiṣṭhitāइतिitiकस्मिन्kasminनुnuसत्यम्satyamप्रतिष्ठितम्pratiṣṭhitamइतिitiहृदयेhṛdayeइतिitiहhaउवाचuvācaहृदयेनhṛdayenaहिhiसत्यम्satyamजानातिjānātiहृदयेhṛdayeहिhiएवevaसत्यम्satyamप्रतिष्ठितम्pratiṣṭhitamभवतिbhavatiइतिitiएवम्evamएवevaएतत्etatयाज्ञवल्क्यyājñavalkya

Passage 21.24

किंदेवतोऽस्यां ध्रुवायां दिश्यसीति । अग्निदेवत इति । सोऽग्निः कस्मिन् प्रतिष्ठित इति । वाचीति । कस्मिन्नु वाक्प्रतिष्ठितेति । हृदय इति । कस्मिन्नु हृदयं प्रतिष्ठितमिति ॥ २४ ॥

पदच्छेद

किंदेवतःkiṃdevataḥअस्याम्asyāmध्रुवायाम्dhruvāyāmदिशिdiśiअसिasiइतिitiअग्निदेवतःagnidevataḥइतिitiसःsaḥअग्निःagniḥकस्मिन्kasminप्रतिष्ठितःpratiṣṭhitaḥइतिitiवाचिvāciइतिitiकस्मिन्kasminनुnuवाक्vākप्रतिष्ठिताpratiṣṭhitāइतिitiहृदयेhṛdayeइतिitiकस्मिन्kasminनुnuहृदयम्hṛdayamप्रतिष्ठितम्pratiṣṭhitamइतिiti

अन्वय

[शाकल्यः पप्रच्छ—] अस्याम् ध्रुवायाम् दिशि [त्वम्] किन्देवतः असि इति । [याज्ञवल्क्यः आह—] अग्निदेवतः [अस्मि] इति । [शाकल्यः पप्रच्छ—] सः अग्निः कस्मिन् प्रतिष्ठितः [अस्ति] इति । [याज्ञवल्क्यः आह—] वाचि इति । [शाकल्यः पप्रच्छ—] वाक् कस्मिन् नु प्रतिष्ठिता [अस्ति] इति । [याज्ञवल्क्यः आह—] हृदये इति । [शाकल्यः पप्रच्छ—] हृदयम् कस्मिन् नु प्रतिष्ठितम् [अस्ति] इति ।

Passage 21.25

अहल्लिकेति होवाच याज्ञवल्क्यः । यत्रैतदन्यत्रास्मन्मन्यासै । यद्ध्येतदन्यत्रास्मत्स्याच्छ्वानो वैनदद्युर्वयांसि वैनद्विमथ्नीरन्निति ॥ २५ ॥

पदच्छेद

अहल्लिकahallikaइतिitiहhaउवाचuvācaयाज्ञवल्क्यःyājñavalkyaḥयत्रyatraएतत्etatअन्यत्रanyatraअस्मत्asmatमन्यासैmanyāsaiयत्yatहिhiएतत्etatअन्यत्रanyatraअस्मत्asmatस्यात्syātश्वानःśvānaḥवैvaiएनत्enatअद्युःadyuḥवयांसिvayāṃsiवैvaiएनत्enatविमथ्नीरन्vimathnīranइतिiti

अन्वय

याज्ञवल्क्यः ह अहल्लिक इति उवाच—यत्र [यस्मिन् काले] एतत् [हृदयम्] अन्यत्र अस्मत् [शरीरात् त्वम्] मन्यासै [मन्यसे इत्यर्थः], [तदा त्वाम् एवम् सम्बोधयामि] । हि यत् [यदि] एतत् [हृदयम्] अन्यत्र अस्मत् [शरीरात्] स्यात्, [तदा] श्वानः वा एनत् [शरीरम्] अद्युः, वयांसि वा एनत् [शरीरम्] विमथ्नीरन् इति ।

Passage 21.26

कस्मिन्नु त्वं चात्मा च प्रतिष्ठितौ स्थ इति । प्राण इति । कस्मिन्नु प्राणः प्रतिष्ठित इति । अपान इति । कस्मिन्न्वपानः प्रतिष्ठित इति । व्यान इति । कस्मिन्नु व्यानः प्रतिष्ठित इति । उदान इति । कस्मिन्नूदानः प्रतिष्ठित इति । समान इति । स एष नेति नेत्यात्मा । अगृह्यो न हि गृह्यते । अशीर्यो न हि शीर्यते । असङ्गो न सज्यते । असितो न व्यथते । न रिष्यति । एतान्यष्टावायतनान्यष्टौ लोका अष्टौ देवा अष्टौ पुरुषाः । स यस्तान् पुरुषान्निरुह्य प्रत्युह्यात्यक्रामत्तं त्वौपनिषदं पुरुषं पृच्छामि । तं चेन्मे न विवक्ष्यसि मूर्धा ते विपतिष्यतीति । तं ह न मेने शाकल्यस्। तस्य ह मूर्धा विपपात । अपि हास्य परिमोषिणोऽस्थीन्यपजह्रुरन्यन्मन्यमानाः ॥ २६ ॥

पदच्छेद

कस्मिन्kasminनुnuत्वम्tvamचcaआत्माātmāचcaप्रतिष्ठितौpratiṣṭhitauस्थःsthaḥइतिitiप्राणेprāṇeइतिitiकस्मिन्kasminनुnuप्राणःprāṇaḥप्रतिष्ठितःpratiṣṭhitaḥइतिitiअपानेapāneइतिitiकस्मिन्kasminनुnuअपानःapānaḥप्रतिष्ठितःpratiṣṭhitaḥइतिitiव्यानेvyāneइतिitiकस्मिन्kasminनुnuव्यानःvyānaḥप्रतिष्ठितःpratiṣṭhitaḥइतिitiउदानेudāneइतिitiकस्मिन्kasminनुnuउदानःudānaḥप्रतिष्ठितःpratiṣṭhitaḥइतिitiसमानेsamāneइतिitiसःsaḥएषःeṣaḥनnaइतिitiनnaइतिitiआत्माātmāअगृह्यःagṛhyaḥनnaहिhiगृह्यतेgṛhyateअशीर्यःaśīryaḥनnaहिhiशीर्यतेśīryateअसङ्गःasaṅgaḥनnaसज्यतेsajyateअसितःasitaḥनnaव्यथतेvyathateनnaरिष्यतिriṣyatiएतानिetāniअष्टौaṣṭauआयतनानिāyatanāniअष्टौaṣṭauलोकाःlokāḥअष्टौaṣṭauदेवाःdevāḥअष्टौaṣṭauपुरुषाःpuruṣāḥसःsaḥयःyaḥतान्tānपुरुषान्puruṣānनिरुह्यniruhyaप्रत्युह्यpratyuhyaअत्यक्रामत्atyakrāmatतम्tamत्वाtvāऔपनिषदम्aupaniṣadamपुरुषम्puruṣamपृच्छामिpṛcchāmiतम्tamचेत्cetमेmeनnaविवक्ष्यसिvivakṣyasiमूर्धाmūrdhāतेteविपतिष्यतिvipatiṣyatiइतिitiतम्tamहhaनnaमेनेmeneशाकल्यःśākalyaḥतस्यtasyaहhaमूर्धाmūrdhāविपपातvipapātaअपिapiहhaअस्यasyaपरिमोषिणःparimoṣiṇaḥअस्थीनिasthīniअपजह्रुःapajahruḥअन्यत्anyatमन्यमानाःmanyamānāḥ

अन्वय

[शाकल्यः पप्रच्छ—] त्वम् च आत्मा च कस्मिन् नु प्रतिष्ठितौ स्थः इति । [याज्ञवल्क्यः आह—] प्राणे इति । [शाकल्यः पप्रच्छ—] प्राणः कस्मिन् नु प्रतिष्ठितः [अस्ति] इति । [याज्ञवल्क्यः आह—] अपाने इति । [शाकल्यः पप्रच्छ—] अपानः कस्मिन् नु प्रतिष्ठितः [अस्ति] इति । [याज्ञवल्क्यः आह—] व्याने इति । [शाकल्यः पप्रच्छ—] व्यानः कस्मिन् नु प्रतिष्ठितः [अस्ति] इति । [याज्ञवल्क्यः आह—] उदाने इति । [शाकल्यः पप्रच्छ—] उदानः कस्मिन् नु प्रतिष्ठितः [अस्ति] इति । [याज्ञवल्क्यः आह—] समाने इति । सः एषः न इति न इति आत्मा [निर्दिष्टः] । अगृह्यः [अस्ति], हि न गृह्यते; अशीर्यः [अस्ति], हि न शीर्यते; असङ्गः [अस्ति], न सज्यते; असितः [अबद्धः इत्यर्थः] [अस्ति], न व्यथते, न रिष्यति । एतानि अष्टौ आयतनानि [सन्ति]; अष्टौ लोकाः [सन्ति]; अष्टौ देवाः [सन्ति]; अष्टौ पुरुषाः [सन्ति] । सः [आत्मा], यः तान् पुरुषान् निरुह्य [निश्चयेन ऊहित्वा] प्रत्युह्य [हृदये उपसंहृत्य उपाधिधर्मम्] अत्यक्रामत्, तम् औपनिषदम् पुरुषम् त्वा [अहम्] पृच्छामि । चेत् मे तम् न विवक्ष्यसि, ते मूर्धा विपतिष्यति इति । शाकल्यस् [शाकल्यः इत्यर्थः] तम् ह न मेने [न विज्ञातवान् इत्यर्थः] । तस्य ह मूर्धा विपपात । अपि ह परिमोषिणः अन्यत् मन्यमानाः अस्य अस्थीनि अपजह्रुः ।

Passage 21.27

अथ होवाच ब्राह्मणा भगवन्तो यो वः कामयते स मा पृच्छतु । सर्वे वा मा पृच्छत । यो वः कामयते तं वः पृच्छामि सर्वान् वा वः पृच्छामीति । ते ह ब्राह्मणा न दधृषुः ॥ २७ ॥

पदच्छेद

अथathaहhaउवाचuvācaब्राह्मणाःbrāhmaṇāḥभगवन्तःbhagavantaḥयःyaḥवःvaḥकामयतेkāmayateसःsaḥमाmāपृच्छतुpṛcchatuसर्वेsarveवाvāमाmāपृच्छतpṛcchataयःyaḥवःvaḥकामयतेkāmayateतम्tamवःvaḥपृच्छामिpṛcchāmiसर्वान्sarvānवाvāवःvaḥपृच्छामिpṛcchāmiइतिitiतेteहhaब्राह्मणाःbrāhmaṇāḥनnaदधृषुःdadhṛṣuḥ

अन्वय

अथ ह [याज्ञवल्क्यः] उवाच—ब्राह्मणाः भगवन्तः, यः वः कामयते, सः मा पृच्छतु । वा सर्वे मा पृच्छत । यः वः कामयते, वः तम् [अहम्] पृच्छामि; वा वः सर्वान् [अहम्] पृच्छामि इति । ते ह ब्राह्मणाः न दधृषुः ।

Passage 21.28

तान् हैतैः श्लोकैः पप्रच्छ यथा वृक्षो वनस्पतिस्तथैव पुरुषोऽमृषा । तस्य लोमानि पर्णानि त्वगस्योत्पाटिका बहिः त्वच एवास्य रुधिरं प्रस्यन्दि त्वच उत्पटः । तस्मात्तदातृण्णात्प्रैति रसो वृक्षादिवाहतात् मांसान्यस्य शकराणि किनाटं स्नाव तत्स्थिरम् । अस्थीन्यन्तरतो दारुणि मज्जा मज्जोपमा कृता यद्वृक्षो वृक्णो रोहति मूलान्नवतरः पुनः । मर्त्यः स्विन्मृत्युना वृक्णः कस्मान्मूलात्प्ररोहति रेतस इति मा वोचत जीवतस्तत्प्रजायते । धानारुह इव वै वृक्षोऽञ्जसा प्रेत्य सम्भवः यत्समूलमावृहेयुर्वृक्षं न पुनराभवेत् । मर्त्यः स्विन्मृत्युना वृक्णः कस्मान्मूलात्प्ररोहति जात एव न जायते को न्वेनं जनयेत्पुनः । विज्ञानमानन्दं ब्रह्म रातिर्दातुः परायणं तिष्ठमानस्य तद्विद इति ॥ २८ ॥

पदच्छेद

तान्tānहhaएतैःetaiḥश्लोकैःślokaiḥपप्रच्छpapracchaयथाyathāवृक्षःvṛkṣaḥवनस्पतिःvanaspatiḥतथाtathāएवevaपुरुषःpuruṣaḥअमृषाamṛṣāतस्यtasyaलोमानिlomāniपर्णानिparṇāniत्वक्tvakअस्यasyaउत्पाटिकाutpāṭikāबहिःbahiḥत्वचःtvacaḥएवevaअस्यasyaरुधिरम्rudhiramप्रस्यन्दिprasyandiत्वचःtvacaḥउत्पटःutpaṭaḥतस्मात्tasmātतत्tatआतृण्णात्ātṛṇṇātप्रैतिpraitiरसःrasaḥवृक्षात्vṛkṣātइवivaआहतात्āhatātमांसानिmāṃsāniअस्यasyaशकराणिśakarāṇiकिनाटम्kināṭamस्नावsnāvaतत्tatस्थिरम्sthiramअस्थीनिasthīniअन्तरतःantarataḥदारुणिdāruṇiमज्जाmajjāमज्जोपमाmajjopamāकृताkṛtāयत्yatवृक्षःvṛkṣaḥवृक्णःvṛkṇaḥरोहतिrohatiमूलात्mūlātनवतरःnavataraḥपुनःpunaḥमर्त्यःmartyaḥस्वित्svitमृत्युनाmṛtyunāवृक्णःvṛkṇaḥकस्मात्kasmātमूलात्mūlātप्ररोहतिprarohatiरेतसःretasaḥइतिitiमाmāवोचतvocataजीवतःjīvataḥतत्tatप्रजायतेprajāyateधानारुहःdhānāruhaḥइवivaवैvaiवृक्षःvṛkṣaḥअञ्जसाañjasāप्रेत्यpretyaसम्भवःsambhavaḥयत्yatसमूलम्samūlamआवृहेयुःāvṛheyuḥवृक्षम्vṛkṣamनnaपुनःpunaḥआभवेत्ābhavetमर्त्यःmartyaḥस्वित्svitमृत्युनाmṛtyunāवृक्णःvṛkṇaḥकस्मात्kasmātमूलात्mūlātप्ररोहतिprarohatiजातःjātaḥएवevaनnaजायतेjāyateकःkaḥनुnuएनम्enamजनयेत्janayetपुनःpunaḥविज्ञानम्vijñānamआनन्दम्ānandamब्रह्मbrahmaरातिःrātiḥदातुःdātuḥपरायणम्parāyaṇamतिष्ठमानस्यtiṣṭhamānasyaतद्विदःtadvidaḥइतिiti

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय ३, ब्राह्मण ९

Read the whole section →