Sunday Meditation· Open to Everyone

अध्याय ३, ब्राह्मण ९

संस्कृत

Passage 21.9

तदाहुर्यदयमेक इवैव पवते । अथ कथमध्यर्ध इति । यदस्मिन्निदं सर्वमध्यार्ध्नोत्तेनाध्यर्ध इति । कतम एको देव इति । प्राण इति । स ब्रह्म त्यदित्याचक्षते ॥ ९ ॥

पदच्छेद

तत्tatआहुःāhuḥयत्yatअयम्ayamएकःekaḥइवivaएवevaपवतेpavateअथathaकथम्kathamअध्यर्धःadhyardhaḥइतिitiयत्yatअस्मिन्asminइदम्idamसर्वम्sarvamअध्यार्ध्नोत्adhyārdhnotतेनtenaअध्यर्धःadhyardhaḥइतिitiकतमःkatamaḥएकःekaḥदेवःdevaḥइतिitiप्राणःprāṇaḥइतिitiसःsaḥब्रह्मbrahmaत्यत्tyatइतिitiआचक्षतेācakṣate

अन्वय

तत् आहुः—यत् अयम् एकः इव एव पवते, अथ कथम् अध्यर्धः [उच्यते] इति । [याज्ञवल्क्यः आह—] यत् अस्मिन् इदम् सर्वम् अध्यार्ध्नोत्, तेन अध्यर्धः [उच्यते] इति । [शाकल्यः पप्रच्छ—] एकः देवः कतमः [अस्ति] इति । [याज्ञवल्क्यः आह—] प्राणः इति । सः ब्रह्म [अस्ति]; [तम्] त्यत् इति आचक्षते ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय ३, ब्राह्मण ९

Read the whole section →