Sunday Meditation· Open to Everyone

अध्याय ३, ब्राह्मण ९

संस्कृत

Passage 21.25

अहल्लिकेति होवाच याज्ञवल्क्यः । यत्रैतदन्यत्रास्मन्मन्यासै । यद्ध्येतदन्यत्रास्मत्स्याच्छ्वानो वैनदद्युर्वयांसि वैनद्विमथ्नीरन्निति ॥ २५ ॥

पदच्छेद

अहल्लिकahallikaइतिitiहhaउवाचuvācaयाज्ञवल्क्यःyājñavalkyaḥयत्रyatraएतत्etatअन्यत्रanyatraअस्मत्asmatमन्यासैmanyāsaiयत्yatहिhiएतत्etatअन्यत्रanyatraअस्मत्asmatस्यात्syātश्वानःśvānaḥवैvaiएनत्enatअद्युःadyuḥवयांसिvayāṃsiवैvaiएनत्enatविमथ्नीरन्vimathnīranइतिiti

अन्वय

याज्ञवल्क्यः ह अहल्लिक इति उवाच—यत्र [यस्मिन् काले] एतत् [हृदयम्] अन्यत्र अस्मत् [शरीरात् त्वम्] मन्यासै [मन्यसे इत्यर्थः], [तदा त्वाम् एवम् सम्बोधयामि] । हि यत् [यदि] एतत् [हृदयम्] अन्यत्र अस्मत् [शरीरात्] स्यात्, [तदा] श्वानः वा एनत् [शरीरम्] अद्युः, वयांसि वा एनत् [शरीरम्] विमथ्नीरन् इति ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय ३, ब्राह्मण ९

Read the whole section →